संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|प्रथमः पटलः| विविध साधनानि ६ प्रथमः पटलः विविध साधनानि १ विविध साधनानि २ विविध साधनानि ३ विविध साधनानि ४ विविध साधनानि ५ विविध साधनानि ६ विविध साधनानि ७ विविध साधनानि ८ मनुष्यजन्मस्य दुर्लभत्वम् गुरूमहिमा अवमहिमा च १ गुरूमहिमा अवमहिमा च २ प्रथमः पटलः - विविध साधनानि ६ आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्भूत ग्रंथ आहे. Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल विविध साधनानि ६ Translation - भाषांतर करोति कमलानाथकरपद्निषेवितम् ।ज्ञात्वा सर्वधरं तन्त्रं सम्पूर्ण लोकमण्डले ॥१०१॥प्राप्नोति साधकः सिद्धिं मासादेव न संशयः ।नानाचक्रस्य माहात्म्यं नानाङ्कमण्डलावृतम् ॥१०२॥सर्वज्ञसिद्धिशतक खण्डकालीकुलालयम् ।तरुणादित्यसंकाशं वनमालविभूषितम् ॥१०३॥दैवतं परमं हंसं कालकूटाशिनं प्रभुम् ।आदौ ध्यात्वा पूजयित्वा नमस्कुर्याद् महेश्वरम ।प्रथमारुणसङ्काशं रत्नालङ्काभूषिअतम् ।वरदं वारुणीमत्तं परमहंसं नमाम्यहम् ॥१०४॥यदि न पठ्यते तन्त्रं यामलं सर्वशङ्करम् ।तदा केन प्रकारेण साधकः सिद्धिभाग्भवेत्॥१०५॥केचिच्च बुद्धिहीनाश्च मेधाहीनाश्च ये जनाः ।मन्दभाग्याश्च धूर्ताश्च मूढाः सर्वापदावृताः ॥१०६॥प्राप्नुवन्ति कथं सिद्धिं दया जाता कथं वद ।तेषु मूर्खेषु हीनेषु शास्त्रार्थवर्जितेषु च ॥१०७॥ज्ञानं भवति केनैव निर्मलं द्वैतवर्जितम् ।तत्प्रकांर वद स्नेहाद् लोकांना पुण्यवृद्धये ॥१०८॥भैरवी उवाच कर्मसूत्र्म यश्छिनत्ति प्रत्यहं तनुसंस्थितः ।स पश्यति जगन्नाथ मम श्रीचरनाम्बुजम् ॥१०९॥विश्वमावेशसंस्करभिन्नबुद्धिक्रियान्विताः ।अतो मां नाहि जानन्ति नानाकार्योत्कटावृताः ॥११०॥तेषाम शरीरं गृहणाति कालदूतो भयानकः ।यः करोति महायोगं त्यागसन्न्यासधर्मवान् ॥१११॥मन्दभाग्यः पशोर्योनि प्राप्नोति मां विहाय सः ।मयि भावं यः करोति दुर्लभो जनवल्लभः ॥११२॥भावेन लभ्यते सर्वं भावेन देवदर्शनम् ।भावेन परमं ज्ञानं तस्माद् भावावलम्बनम् ॥११३॥भावञ्च सर्वशास्त्राणाम गूढं सर्वेन्द्रियस्थितम् ।सर्वेषां मूलभूतञ्च देवीभावं यदा लभेत ॥११४॥तदैव सर्वसिद्धिश्च तदा ध्यानदृढो भवेत ।अकलङ्की निराहारी निवासधृतमानसः ॥११५॥नित्यस्नानाभिपूजाङो भावी भावं यदा लभेत्।क्रियादक्षो महाशिक्षानिपुणोऽपि जितेन्दियः ॥११६॥सर्वशास्तनिगूढार्थवेत्ता न्यासविवर्जितः ।तेषां हस्तगतं भावं वद भावं यथा तनौ ॥११७॥भावात्परतरं नास्ति येनानुग्रहवान भवेत्।भावादनुग्रप्राप्तिनुग्रहान् महासुखी ॥११८॥सुखात्पुण्यभावः स्यात्पुण्यादच्युतदर्शनम् ।यदा कृतस्य दर्शनाम्भोजदर्शनमङुलम् ॥११९॥योगी भूत्त्वा सूक्ष्मपदं योगिनामप्यदर्शनम् ।पश्यत्येव महाविद्यापादाम्भोहपावनम् ॥१२०॥ N/A References : N/A Last Updated : April 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP