संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सर्ववेदान्तसिद्धान्तसारसंग्रहः|
शाश्वतलक्षणम्

सर्ववेदसारसंग्रहः - शाश्वतलक्षणम्

' सर्ववेदान्तसिद्धान्तसारसंग्रहः' यात सर्व वेदांतील सार सोप्या भाषेत कथन केले असून, वेद वाचल्याचा आनंद मिळतो.


अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु ।

अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥६१२॥

सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते ।

कदापि नासमित्यस्मादात्मनो नित्यता मता ॥६१३॥

आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा -

स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि ।

गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन -

स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥६१४॥

प्रतिपदमहमादयो विभिन्नाः

क्षणपरिणामितया विकारिणस्ते ।

न परिणतिरमुष्य निष्कलत्वा -

दयमविकार्यत एव नित्य आत्मा ॥६१५॥

यः स्वप्नमद्राक्षमहं सुखं योऽ -

स्वाप्सं स एवास्म्यथ जागरूकः ।

इत्येवमच्छिन्नतयानुभूयते

सत्तात्मनो नास्ति हि संशयोऽत्र ॥६१६॥

श्रुत्युक्ताः षोडशकलाश्चिदाभास्य नात्मनः ।

निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥६१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP