रघुवंश - षोडश: सर्ग:

महाकवी कालिदासाने ’रघुवंश ’ या महाकाव्यातील एकोणीस भागात राजा दिलीप , त्याचा पुत्र रघु , रघुचा पुत्र अज , अजचा पुत्र दशरथ , दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे .


अथेतरे सप्तरघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।

चक्रु : कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुकारि ॥१॥

ते सेतुवार्तागजबन्धमुखैरभ्युच्छ्रिता : कर्मभिरप्यवन्ध्यै : ।

अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयु : ॥२॥

चतुर्भुजांशप्रभव : स तेषां दानप्रवृत्तेरनुपारतानाम् ।

सुरद्विपानामिव सामयोनिर्भिन्नोऽष्टधा विप्रससार वंश :॥३॥

अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्ध : ।

कुश : प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥४॥

सा साधुसाधारणपार्थिवद्र्धे : स्थित्वा पुरस्तात्पुरहूतभास : ।

जेतु : परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध ॥५॥

अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम्।

सविस्मयो दाशरथेस्तनूज : प्रोवाच पूर्वार्धविसृष्टतल्प : ॥६॥

लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।

बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥७॥

का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।

आचक्ष्व मत्वा वशिनां रघूणां मन : परस्त्रीविमुखप्रवृत्ति : ॥८॥

तमब्रवीत्सा गुरुणानवद्या या नीतपौरा स्वपदोन्मुखेन ।

तस्या : पुर : संप्रति वीतनाथां जानीहि राजन्नधिदेवतां माम् ॥९॥

वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।

समग्रशक्तौ त्वयि सूर्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥१०॥

विशीर्णतल्पादृशतो निवेश : पर्यस्तसाल : प्रभुणा विना मे ।

विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तमुग्रानिलभिन्नमेघम् ॥११॥

निशासु भास्वत्कलनूपुराणां य : संचरोऽभूदभिसारिकाणाम् ।

नदन्मुखोल्काविचितामिषाभि : स वात्द्यते राजपथ : शिवाभि : ॥१२॥

आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिमन्वगच्छत् ।

वन्यैरिदानीं महिषैस्तदम्भ : शृङ्गाहतं क्रोशति दीर्घिकाणाम् ॥१३॥

वृक्षेशया यष्टिनिवासभङ्गान्मृदङ्गशब्दापगमादलास्या : ।

प्राप्ता दवोल्काहतशेषबर्हाः क्रीडामयूरा वनबर्हिणत्वम् ॥१४॥

सोओपानमार्गेषु च येषु रामा निक्षिप्तवत्यश्चरणान्सरागान् ।

सद्योहतन्यङ्कुभिरस्रदिग्धं व्याघ्रै : पदं तेषु निधीयते मे ॥१५॥

चित्रद्विपा : पद्मवनावतीर्णा : करेणुभिर्दत्तमृणालभङ्गा : ।

नखाङ्कुशाघातविभिन्नकुम्भा : संरब्धसिंहप्रहृतं वहन्ति ॥१६॥

स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।

स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ता : ॥१७॥

कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।

त एव मुक्तागुणशुद्धयोऽपि हम्र्येषु मूच्र्छन्ति न चन्द्रपादा : ॥१८॥

आवज्र्य शाखां सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभि : ।

वन्यै : पुलिन्दैरिव वानरैस्ता : क्लिश्यन्त उद्यानलता मदीया : ॥१९॥

रात्रावनाविष्कृतदीपभास : कान्तामुखश्रीवियुता दिवापि ।

तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छन्नधूमप्रसरा गवाक्षा : ॥२०॥

बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।

उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥२१॥

तदर्हसीमां वसतिं विसृज्य मामभ्युपेतुं कुलराजधानीम् ।

हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिम् ॥२२॥

तथेति तस्या : प्रणयं प्रतीत : प्रत्यग्रहीत्प्राग्रहरो रघूणाम् ।

पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥२३॥

तदद्भुतं संसदि रात्रिवृत्तं प्रातद्र्विजेभ्यो नृपति : शशंस ।

श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतमभ्यनन्दन् ॥२४॥

कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोध : ।

अनुद्रुतो वायुरिवाभ्रवृन्दै : सैन्यैरयोध्याभिमुख : प्रतस्थे ॥२५॥

सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागै : ।

सेना रथोदारगृहा प्रयाणे तस्याभवज्जंगमराजधानी ॥२६॥

तेनातपत्रामलमण्डलेन प्रस्थापित : पूर्वनिवासभूमिम् ।

बभौ बलौघ : शशिनोदितेन वेलामुदन्वानिव नीयमान : ॥२७॥

तस्य प्रयातस्य वरूथिनीनां पीडामपर्याप्तवतीव सोढुम् ।

वसुंधरा विष्णुपदं द्वितीयमध्यारुरोहेव रजश्छलेन ॥२८॥

उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।

सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्यमतिं चकार ॥२९॥

तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् ।

रेणु : प्रपेदे प्रथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतु : ॥३०॥

मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना ।

चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि ॥३१॥

स धातुभेदारुणयाननेमि : प्रभु : प्रयाणध्वनिमिश्रतूर्य : ।

व्यलङ्घयद्विन्ध्यमुपायनानि पश्यन्पुलिन्दैरुपपादितानि ॥३२॥

तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोस्य गङ्गाम् ।

अयत्नबालव्यजनीबभूवुर्हंसा नभोलङ्घनलोलपक्षा : ॥३३॥

स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणाम् ।

सुरालयप्राप्तिनिमित्तमम्भस्त्रैस्रोतसं नौलुलितं ववन्दे ॥३४॥

इत्यध्वन : केचिदहोभिरन्ते कूलं समासाद्य कुश : सरय्वा : ।

वेदिप्रतिष्ठान्वितताधराणां यूपानपश्यच्छतशो रघूणाम् ॥३५॥

आधूय शाखा : कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरंगान् ।

तं क्लान्तसैन्यं कुलराजधान्या : प्रत्युज्जगामोपवनान्तवायु : ॥३६॥

अथोपशल्ये रिपुमग्नशल्यस्तस्या : पुर : पौरसखा स राजा ।

कुलध्वजस्तानि चलध्वजानि निवेशयामास बली बलानि ॥३७॥

तं शिल्पिसंघा : प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वात् ।

पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितामिवोर्वीम् ॥३८॥

तत : सपर्यां सपशूपहारां पुर : पराघ्र्यप्रतिमागृहाया : ।

उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुप्रवीर : ॥३९॥

तस्या : स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।

यथार्हमन्यैरनुजीविलोकं संभावयामास यथाप्रधानम् ॥४०॥

सा मन्दुरासंश्रयिभिस्तुरंगै : शालाविधिस्तम्भगतैश्च नागै : ।

पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥४१॥

वसन्स तस्यां वसतौ रघूणां पुराणशोभामभिरोपितायाम् ।

न मैथिलेय : स्पृहयांबभूव भत्र्रे दिवो नाप्यलकेश्वराय ॥४२॥

अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।

नि :श्वासहार्यांशुकमाजगाम घर्म : प्रियावेशमिवोपदेष्टुम् ॥४३॥

अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।

आनन्दशीतामिव बाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज ॥४४॥

प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।

उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥४५॥

दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भ : ।

उद्दण्डप्द्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥४६॥

वनेषु सायंतनमल्लिकानां विजृम्भणो ·न्धिषु कुड्मलेषु ।

प्रत्येकनिक्षिप्तपद : सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥४७॥

स्वेदानुविद्धार्धनखक्षताङ्के भूयिष्ठसंदिष्टशिखं कपोले ।

च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥४८॥

यन्त्रप्रवाहै : शिशिरै : परीतान्रसेन धौतान्मलयोद्भवस्य ।

शिलाविशेषान्यधिशय्य निन्युर्धारागृहेष्वातपमृद्धिवन्त : ॥४९॥

स्नानाअद्र्रमुक्तेष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु ।

कामो वसन्तात्ययमन्दवीर्य : केशेषु लेभे बलमङ्गनानाम् ॥५०॥

आपिञ्जरा बद्धरज :कणत्वान्मञ्जुर्युदारा शुशुभेऽर्जुनस्य ।

दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥५१॥

मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च ।

संबन्धता कामिजनेषु दोषा : सर्वे निदाघावधिना प्रमृष्टा : ॥५२॥

जनस्य तस्मिन्समये विगाढे बभूवतुद्र्वौ सविशेषकान्तौ ।

तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपति : शशी च ॥५३॥

अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वा : ।

विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥५४॥

स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।

विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभाव : ॥५५॥

सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभि : ।

सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभि : ॥५६॥

परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।

नौसंश्रय : पाश्र्वगतां किरातीमुपात्ताबालव्यजनां बभाषे ॥५७॥

पश्यावरोधै : शतशो मदीयैर्विगात्घमानो गलिताङ्गरागै : ।

संध्योदय : साभ्र इवेष वर्णं पुष्यत्यनेकं सरयूप्रवाह : ॥५८॥

विलुप्तमन्त :पुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः ।

तद्बघ्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥५९॥

एता गुरुश्रोणिपयोधरत्वादात्मानमुद्वोढुमशक्नुवत्य : ।

गाढाङ्गदैर्बाहुभिरप्सु बाला : क्लेशोत्तरं रागवशात्प्लवन्ते ॥६०॥

अमी शिरीषप्रसवावतंसा : प्रभ्रंशिनो वारिविहारिणीनाम् ।

पारिप्लवा : स्रोतसि निम्नगाया : शैवाललोलांश्छलयन्ति मीनान् ॥६१॥

आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।

पयोधरोत्सर्पिषु शीर्यमाण : संलक्ष्यते न च्छिदुरोऽपि हार : ॥६२॥

आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्वचरा : स्तनानाम् ।

जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥६३॥

तीरस्थलीबर्हिभिरुत्कलापै : प्रस्निग्धकेकैरभिनन्द्यमानम् ।

श्रोत्रेषु संमूच्र्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥६४॥

संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्या : ।

अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापा : ॥६५॥

एता : करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ता : ।

वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति ॥६६॥

उद्बन्धकेशच्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्ट : ।

मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेष : ॥६७॥

स नौविमानादवतीर्य रेमे विलोलहार : सह ताभिरप्सु ।

स्कन्धावलग्नोद्धद्वृतपद्मिनीक : करेणुभिर्वन्य इव द्विपेन्द्र : ॥६८॥

ततो नृपेणानुगता : स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजु : ।

प्रागेव मुक्ता नयनाभिरामा : प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥६९॥

वर्णोदकै : काञ्चनशृङ्गमुक्तैस्तमायताक्ष्य : प्रणयादसिञ्चन् ।

तथागत : सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराज : ॥७०॥

तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।

आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलील : ॥७१॥

यत्कुम्भयोनेरधिगम्य राम : कुशाय राज्येन समं दिदेश ।

तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥७२॥

स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।

दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥७३॥

जयश्रिय : संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् ।

सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीर : ॥७४॥

तत : समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।

वन्ध्यश्रमास्ते सरयूं विगात्द्य तमूचुरम्लानमुखप्रसादा : ॥७५॥

कृत : प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।

नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥७६॥

तत : स कृत्वा धनुराततज्यं धनुर्धर : कोपविलोहिताक्ष : ।

गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रम् ॥७७॥

तस्मिन्ह्रद : संहितमात्र एव क्षोभात्समाविद्धतरंगहस्त : ।

रोधांसि निघ्नन्नवपातमग्न : करीव वन्य : परुषं ररास ॥७८॥

तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।

लक्ष्म्येव सार्धं सुरराजवृक्ष : कन्यां पुरस्कृत्य भुजंगराज : ॥७९॥

विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशांपतिस्तम् ।

सौपर्णमस्त्रं प्रतिसंजहार प्रह्वेष्वनिर्बन्धरुषो हि सन्त : ॥८०॥

त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान् ।

मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे ॥८१॥

अवैमि कार्यान्तरमानुषस्य विष्णो : सुताख्यामपरां तनुं त्वाम् ।

सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥८२॥

कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।

ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥८३॥

तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन ।

भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥८४॥

इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् ।

आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥८५॥

इत्यूचिवानुपहृताभरण : क्षितीशं

श्लाघ्योओ भवान्स्वजन इत्यनुभाषितारम् ।

संयोजयां विधिवदास समेतबन्धु :

कन्यामयेन कुमुद : कुलभूषणेन ॥८६॥

तस्या : स्पृष्टे मनुजपतिना साहचर्याय हस्ते

माङ्गल्योर्णावलयिनि पुर : पावकस्योच्छिखस्य ।

दिव्यस्तूर्यध्वनिरुदचरद्वयश्नुवानो दिगन्ता

न्गन्धोदग्रं तदनु ववृषु : पुष्पमाश्चर्यमेघा : ॥८७॥

इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं

लब्ध्वा बन्धुं तमपि च कुश : पञ्चमं तक्षकस्य ।

एक : शङ्कां पितृवधरिपोरत्यजद्वैनतेया

च्छान्तव्यालामवनिमपर : पौरकान्त : शशास ॥८८॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

कुमुद्वतीपरिणयो नाम षोडश : सर्ग : ॥

N/A

References : N/A
Last Updated : May 10, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP