रघुवंश - प्रथम: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।

जगत: पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥

क्व सूर्यप्रभवो वंश: क्व चाल्पविषया मति: ।

तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥

मन्द: कवियश: प्रार्थी गमिष्याम्युपहास्यताम् ।

प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामन: ॥३॥

अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभि: ।

मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गति: ॥४॥

सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।

आसमुद्रक्षितीशानामानाकरथवत्र्मनाम् ॥५॥

यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।

यथापराथदण्डानां यथाकालप्रबोधिनाम् ॥६॥

त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।

यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥७॥

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।

वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥८॥

रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।

तद्गुणै: कर्णमागत्य चापलाय प्रचोदित: ॥९॥

तं सन्त: श्रोतुमर्हन्ति सदसद्वयक्तिहेतव: ।

हेम्न: संलक्ष्यते ह्यग्नौ विशुद्धि: श्यामिकाऽपि वा ॥१०॥

वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।

आसीन्महीक्षितामाद्य: प्रणवश्छन्दसामिव ॥११॥

तदन्वये शुद्धिमति प्रसूत: शुद्धिमत्तर: ।

दिलीप इति राजेन्दुरिन्दु: क्षीरनिधाविव ॥१२॥

व्यूढोरस्को वृषस्कन्ध: शालप्रांशुर्महाभुज: ।

आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रित: ॥१३॥

सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।

स्थित: सर्वोन्नतेनोर्वीं क्रान्त्वा मेरूरिवात्मना ॥१४॥

आकारसदृशप्रज्ञ: प्रज्ञया सदृशागम: ।

आगमै: सदृशारम्भ आरम्भसदृशोदय: ॥१५॥

भीमकान्तैर्नृपगुणै: स बभूवोपजीविनाम् ।

अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णव: ॥१६॥

रेखामात्रमपि क्षुण्णादा मनोर्वत्र्मन: परम् ।

न व्यतीयु: प्रजास्तस्य नियन्तुर्नेमिवृत्तय: ॥१७॥

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।

सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रवि: ॥१८॥

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।

शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥१९॥

तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।

फलानुमेया: प्रारम्भा: संस्कारा: प्राक्तना इव ॥२०॥

जुगोपात्मानमत्रस्त: भेजे धर्ममनातुर: ।

अगृद्ग्नुराददे सोऽर्थमसक्त: सुखमन्वभूत् ॥२१॥

ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्यय: ।

गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥२२॥

अनाकृष्टस्य विषयैर्विद्यानां प्रारदृश्वन: ।

तस्य धर्मरतेरासीद्वâद्धत्वं जरसा विना ॥२३॥

प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।

स पिता पितरस्तासां केवलं जन्महेतव: ॥२४॥

स्थित्यै दण्डयतो दण्ड्यान्परिणेतु: प्रसूतये ।

अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिण: ॥२५॥

दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।

सम्पद्विनियमेनोभौ दधतुर्भुवनद्वयम् ॥२६॥

न किलानुनयुस्तस्य राजानो रक्षितुर्यश: ।

व्यावृत्ता यत्परस्वेभ्य: श्रुतौ तस्करता स्थिता ॥२७॥

द्वेष्योऽपि सम्मत: शिष्टस्तस्यार्तस्य यथौषधम् ।

त्याज्यो दुष्ट: प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥२८॥

तं वेधा विदधे नूनं महाभूतसमाधिना ।

तथा हि सर्वे तस्यासन्परार्थैकफला गुणा: ॥२९॥

स वेलावप्रवलयां परिखीकृतसागराम् ।

अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥३०॥

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।

पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥३१॥

कलत्रवन्तमात्मानमवरोधे महत्यपि ।

तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिप: ॥३२॥

तस्यामात्मानुरूपायामात्मजन्मसमुत्सुक: ।

विलम्बितफलै: कालं स निनाय मनोरथै: ॥३३॥

सन्तानार्थाय विधये स्वभुजादवतारिता ।

तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥३४॥

अथाभ्यर्च विधातारं प्रयतौ पुत्रकामया ।

तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥३५॥

स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।

प्रावृषेण्यं पयोवाहं विद्युदैरारताविव ॥३६॥

मा भूदाश्रमपीडेति परिमेयपुरस्सरौ ।

अनुभावविशेषात्तु सेनापरिवृताविव ॥३७॥

सेव्यमानौ सुखस्पर्शै: शालनिर्यासगन्धिभि: ।

पुष्परेणूत्किरैर्वातैराधूतवनराजिभि: ॥३८॥

मनोभिरामा: शृण्वन्तौ रथनेमिस्वनोन्मुखै: ।

षड्जसंवादिनी: केका द्विधा भिन्ना: शिखण्डिभि: ॥३९॥

परस्पराक्षिसादृश्यमदूरोज्झितवत्र्मसु ।

मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥

श्रेणीबन्धाद्वितन्व»िरस्तम्भां तोरण+जम् ।

सारसै: कलनिर्हादै: क्वचिदुन्नमिताननौ ॥४१॥

पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिन: ।

रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥

सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।

आमोदमुपजिघ्रन्तौ स्वनि:श्वासानुकारिणम् ॥४३॥

ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।

अमोघा: प्रतिगृह्णन्तावघ्र्यानुपदमाशिष: ॥४४॥

हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।

नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥

काप्यभिख्या तयोरासीद्व्रजतो: शुद्धवेषयो: ।

हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥४६॥

तत्तद्भूमिपति: पत्न्यै दर्शयन्प्रियदर्शन: ।

अपि लङ्घितमध्वानं बुबुधे न बुधोपम: ॥४७॥

स दुष्प्रापयशा: प्रापदाश्रमं श्रान्तवाहन: ।

सायं संयमिनस्तस्य महर्षेर्महिषीसख: ॥४८॥

वनान्तरादुपावृत्तै: समित्कुशफलाहरै: ।

पूर्यमाणमदृश्याग्निप्रत्युद्यात्यैस्तपस्विभि: ॥४९॥

आकीर्णमृषिपत्नीनामुटजद्वाररोधिभि: ।

अपत्यैरिव नीवारभागधेयोचितैर्मृगै: ॥५०॥

सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।

विश्वासाय विहङ्गानामालवालाम्बुपायिनम् ॥५१॥

आतपात्ययसंक्षिप्तनीवारासु निषादिभि: ।

मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥५२॥

अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।

पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभि: ॥५३॥

अथ यन्तारमादिश्य धुर्यान्विश्रामयेति स: ।

तामवारोहयत्पत्नीं रथादवततार च ॥५४॥

तस्मै सभ्या: सभार्याय गोप्त्रे गुप्ततमेन्द्रिया: ।

अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥५५॥

विधे: सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।

अन्वासितम,न्धत्या स्वाहयेव हविर्भुजम् ॥५६॥

तयोर्जगृहतु: पादान्राजा राज्ञी च मागधी ।

तौ गुरूर्गुरूपत्नी च प्रीत्या प्रतिननन्दतु: ॥५७॥

तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।

पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनि: ॥५८॥

अथाथर्वनिधेस्तस्य विजितारिपुर: पुर: ।

अथ्र्यामर्थपतिर्वाचमाददे वदतां वर: ॥५९॥

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।

दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥६०॥

तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभि: ।

प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिद: शरा: ॥६१॥

हविरावर्जितं होतस्त्वया विधिवदग्निषु ।

वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥६२॥

पुरूषायुष्यजीविन्यो निरातङ्का निरीतय: ।

यन्मदीया: प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥६३॥

त्वयैवं चिन्त्यमानस्य गु,णा ब्रह्मयोनिना ।

सानुबन्धा: कथं न स्यु: संपदो मे निरापद: ॥६४॥

किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।

न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥६५॥

नूनं मत्त: परं वंश्या: पिण्डविच्छेददर्शिन: ।

न प्रकामभुज: श्राद्धे स्वधासंग्रहतत्परा: ॥६६॥

मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।

पय: पूर्वै: स्वनि:श्वासै: कवोष्णमुपभुज्यते ॥६७॥

सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलित: ।

प्रकाशश्चाप्रकाशश्च लोकालोक इवाचल: ॥६८॥

लोकान्तरसुखं पुण्यं तपोदानसमु»वम् ।

संतति: शुद्धवंश्या हि परत्रेह च शर्मणे ॥६९॥

तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।

सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥७०॥

असÊपीडं भगवनृणमन्त्यमवेहि मे ।

अ,न्तुदमिवालानमनिर्वाणस्य दन्तिन: ॥७१॥

तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।

इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धय: ॥७२॥

इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचन: ।

क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृद: ॥७३॥

सोऽपश्यत्प्रणिधानेन सन्तते: स्तम्भकारणम् ।

भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥७४॥

पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यत: ।

आसीत्कल्पत,च्छायामाश्रिता सुरभि: पथि ॥७५॥

धर्मलोपभयाद्राज्ञीमृतुस्नातामनुस्मरन् ।

प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचर: ॥७६॥

अवजानासि मां यस्मादतस्ते नाभविष्यति ।

मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥७७॥

स शापो न त्वया राजन्न च सारथिना श्रुत: ।

नदत्याकाशगङ्गाया: स्रोतस्युद्धामदिग्गजे ॥७८॥

ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मन: ।

प्रतिबघ्नाति हि श्रेय: पूज्यपूजाव्यतिक्रम: ॥७९॥

हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतस: ।

भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥८०॥

सुतां तदीयां सुरभे: कृत्वा प्रतिनिधिं शुचि: ।

आराधय सपत्नीक: प्रीता कामदुघा हि सा ॥८१॥

इति वादिन एवास्य होतुराहुतिसाधनम् ।

अनिन्द्या नंदिनी नाम धेनुराववृते वनात् ॥८२॥

ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।

बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥८३॥

भुवं कोष्णेन कुण्डोघ्नी मेध्येनावभृथादपि ।

प्रस्नवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥८४॥

रज:कणै: खुरोद्धूतै: स्पृशद्भिर्गात्रमन्तिकात् ।

तीर्थाभिषेकजां शुद्धिमादधाना महीक्षित: ॥८५॥

तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधि: ।

याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥८६॥

अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मन: ।

उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥८७॥

वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।

विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥८८॥

प्रस्थितायां प्रतिष्ठेथा: स्थितायां स्थितिमाचरे: ।

निषिण्णायां निषीदास्यां पीताम्भसि पिबेरप: ॥८९॥

वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।

प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥९०॥

इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।

अविघ्नमस्तु ते स्थेया: पितेव धुरि पुत्रिणाम् ॥९१॥

तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रह: ।

आदेशं देशकालज्ञ: शिष्य: शासितुरानत: ॥९२॥

अथ प्रदोषे दोषज्ञ: संवेशाय विशांपतिम् ।

सूनु: सूनृवाक्स्त्रष्टुर्विससर्जोर्जितश्रियम् ॥९३॥

सत्यामपि तप:सिद्धौ नियमापेक्षया मुनि: ।

कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥९४॥

निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीय: ।

तच्छिष्याध्यननिवेदितावसानां संविष्ट: कुशशयने निशां निनाय ॥९५॥

॥ इति श्रीमत्कालिदासकृते रघुवंशे महाकाव्ये प्रथम: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP