रघुवंश - नवम: सर्ग:

महाकवी कालिदासाने ’रघुवंश’ या महाकाव्यातील एकोणीस भागात राजा दिलीप, त्याचा पुत्र रघु, रघुचा पुत्र अज, अजचा पुत्र दशरथ, दशरथाचा पुत्र राम आणि त्याचे पुत्र लव आणि कुश यांचे चरित्र वर्णन केले आहे.


पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रिय: ।

दशरथ: प्रशशास महारथो यमवतामवतां च धुरि स्थित: ॥१॥

अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।

अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजस: ॥२॥

उभयमेव वदन्ति मनीषिण: समयवर्षितया कृतकर्मणाम्।

बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥३॥

जनपदे न गद: पदमादधावभिभव: कुत एव सपत्नज: ।

क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥४॥

दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन तत: परम् ।

तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥५॥

समतया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिप: ।

अनुययौ यमपुण्यजनेश्वरौ सवरूणावरूणाग्रसरं रूचा ॥६॥

न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु ।

तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥७॥

न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।

न च सपत्नजनेष्वपि तेन वागपरूषा परूषाक्षरमीरिता ॥८॥

उअदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपा: ।

स हि निदेशमलङ्घ्यतामभूत्सुहृदयोहृदय: प्रतिगर्जताम् ॥९॥

अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासन: ।

जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमू: ॥१०॥

अवनिमेकरथेन व रूथिना जितवत: किल तस्य धनुर्भृत: ।

विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपद: ॥११॥

शमितपक्षबल: शतकोटिना शिखरिणां कुलिशेन पुरंदर: ।

स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसानन: ॥१२॥

चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् ।

नृपतय: शतशो मरूतो यथा शतमखं तमखण्डितपौरूषम् ॥१३॥

निववृते स महार्णवरोधस: सचिवकारितबालसुताञ्जलीन् ।

समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥१४॥

उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारण: ।

श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युति: ॥१५॥

तमपहाय ककुत्स्थकुलो»वं पुरूषमात्मभवं च पतिव्रता ।

नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥१6॥

तमलभन्त पतिं पतिदेवता: शिखरिणामिव सागरमापगा: ।

मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥१७॥

प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभि: ।

उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षण: ॥१८॥

स किल संयुगमूर्घ्नि सहायतां मघवत: प्रतिपद्य महारथ: ।

स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभया: शरै: ॥१९॥

क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृता: ।

कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटा: ॥२०॥

अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ।

अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वर: ॥२१॥

अवभृथप्रयतो नियतेन्द्रिय: सुरसमाजसमाक्रमणोचित: ।

नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिर: ॥२२॥

असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।

दिनकराभिमुखा रणरेणवो रूरूधिरे रूधिरेण सुरद्विषाम् ॥२३॥

अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।

यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥२४॥

जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहन: ।

दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥२५॥

कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।

इति यथाक्रममाविरभून्मधुद्र्रुमवतीमवतीर्य वनस्थलीम् ॥२6॥

नयगुणोपचितामिव भूपते: सदुपकारफलां श्रियमर्थिन: ।

अभिययु: सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिण: ॥२७॥

कुसुममेव न केवलमार्तवं नवमशोकतरो: स्मरदीपनम् ।

किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पित: ॥२८॥

विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषका: ।

मधुलिहां मधुदानविशारदा: कुरबका रवकारणतां ययु: ॥२९॥

सुवदनावदनासवसंभृतस्तदनुवादिगुण: कुसुमो·म: ।

मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभि: ॥३०॥

उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।

प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥३१॥

व्रणगुरूप्रमदाधरदु:सहं जघननिर्विषयीकृतमेखलम् ।

न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥३२॥

अभिनयान्परिचेतुमिवोद्यता मलयमारूतकम्पितपल्लवा ।

अमदयत्सहकारलता मन: सकलिका कलिकामजितामपि ॥३३॥

प्रथममन्यभृताभिरूदीरिता: प्रविरला इव मुग्धवधूकथा: ।

सुरभिगन्धिषु शुश्रुविरे गिर: कुसुमितासु मिता वनराजिषु ॥३४॥

श्रुतिसुखभ्रमरस्वनगीतय: कुसुमकोमलदन्तरूचो बभु: ।

उपवनान्तलता: पवनाहतै: किसलयै: सलयैरिव पाणिभि: ॥३५॥

ललितविभ्रमबन्धविचेक्षणं सुरभिगन्धपराजितकेसरम् ।

पतिषु निर्विविशुर्मधुमङ्गना: स्मरसखं रसखण्डनवर्जितम् ॥३6॥

शुशुभिरे स्मितचारूतरानना: स्त्रिय इव श्लथशिञ्जितमेखला: ।

विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमा: ॥३७॥

उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छवि: ।

सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधू: ॥३८॥

अपतुषारतया विशदप्रभै: सुरतसङ्गपरिश्रमनोदिभि: ।

कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥३९॥

हुतहुताशनदीप्ति वनश्रिय: प्रतिनिधि: कनकाभरणस्य यत् ।

युवतय: कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥४०॥

अलिभिरञ्जनबिन्दुमनोहरै: कुसुमपङ्क्तिनिपातिभिरङ्कित: ।

न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलक: प्रमदामिव ॥४१॥

अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मन: ।

कुसुमसंभृतया नवमल्लिका स्मितरूचा तरूचारूविलासिनी ॥४२॥

अरूणरागनिषेधिभिरंशुकै: श्रवणलब्धपदैश्च यवाङ्कुरै: ।

परभृताविरूतैश्च विलासिन: स्मरबलैरबलैकरसा: कृता: ॥४३॥

उपचितावयवा शुचिभि: कणैरलिकदम्बकयोगमुपेयुषी ।

सदृशकान्तिरक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकै: ॥४४॥

ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रिय: ।

कुसुमकेसररेणुमलिव्रजा: सपवनोपवनोत्थितमन्वयु: ॥४५॥

अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।

अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजन: ॥४6॥

त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वय: ।

परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजन: ॥४७॥

अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसख: ।

नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभ: ॥४८॥

परिचयं चललक्ष्यनिपातने भयरूचोश्च तदिङ्गितबोधनम् ।

श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमत: सचिवैर्ययौ ॥४९॥

मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासन: ।

गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥५०॥

ग्रथितमौलिरसौ वनमालया तरूपलाशसवर्णतनुच्छद: ।

तुरगवल्गनचञ्चलकुण्डलो विरूरूचे रूरूचेष्टितभूमिषु ॥५१॥

तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तय: ।

ददृशुरध्वनि तं वनदेवता: सुनयनं नयनन्दितकोसलम् ॥५२॥

श्वगणिवागुरिकै: प्रथमास्थितं व्यपगतानलदस्यु विवेश स: ।

स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥५३॥

अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् ।

धनुरधिज्यमनाधिरूपाददे नरवरो रवरोषितकेसरी ॥५४॥

तस्य स्तनप्रणयिभिर्मुहुरेणशावै

व्र्याहन्यमानहरिणीगमनं पुरस्तात् ।

आविर्बभूव कुशगर्भमुखं मृगाणां

यूथं तदग्रसरगर्वितकृष्णसारम् ॥५५॥

तत्प्रार्थितं जवनवाजिगतेन राज्ञा

तूणीमुखोद्धâतशरेण विशीर्णपङ्किÑत ।

श्यामीचकार वनमाकुलदृष्टिपातै

र्वातेरितोत्पलदलप्रकरैरिवाद्र्रै: ॥५6॥

लक्ष्यीकृतस्य हरिणस्य हरिप्रभाव:

प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।

आकर्णकृष्टमपि कामितया स धन्वी

बाणं कृपामृदुमना: प्रतिसंजहार ॥५७॥

तस्यापरेष्वपि मृगेषु शरान्मुमुक्षो:

कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टि: ।

त्रासातिमात्रचटुलै: स्मरत: सुनेत्रै:

प्रौढप्रियानयनविभ्रमचेष्टितानि ॥५८॥

उत्तस्थुष: सपदि पल्वलपङ्कमध्या

न्मुस्ताप्ररोहकवलावयवानुकीर्णम् ।

जग्राह स द्रुतवराहकुलस्य मार्गं

सुव्यक्तमाद्र्रपदपङ्क्तिभिरायताभि: ॥५९॥

तं वाहनादवनतोत्तरकायमीष

द्विध्यन्तमुद्धâतसटा: प्रतिहन्तुमीषु: ।

नात्मानमस्य विविदु: सहसा वराहा

वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥६०॥

तेनाभिघातरभसस्य विकृष्य पत्री

वन्यस्य नेत्रविवरे महिषस्य मुक्त: ।

निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख

स्तं पातयां प्रथममास पपात पश्चात् ॥६१॥

प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा

न्खङ्गांश्चकार नृपतिर्निशितै: क्षुरप्रै: ।

शृङ्गं स दृप्तविनयाधिकृत: परेषा

मत्युच्छ्रितं न ममृषे न तु दीर्घमायु: ॥६२॥

व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्य:

फुल्लासनाग्रविटपानिव वायुरूग्णान् ।

शिक्षाविशेषलघुहस्ततया निमेषा

त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥६३॥

निर्घातोग्रै: कुञ्जलीनाञ्जिघांसुज्र्यानिर्घोषै: क्षोभयामास सिंहान् ।

नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥६४॥

तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थ: कुटिलनखाग्रलग्नमुक्तान् ।

आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥६५॥

चमरान्परित: प्रवर्तिताश्व: क्वचिदाकर्णविकृष्टभल्लवर्षी ।

नृपतीनिव तान्वियोज्य सद्य: सितबालव्यजनैर्जगाम शन्तिम् ॥६6॥

अपि तुरगसमीपादुत्पतन्तं मयूरं

न स रूचिरकलापं बाणलक्ष्यीचकार ।

सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे

रतिविगलितबन्धे केशपाशे प्रियाया: ॥६७॥

तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् ।

आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिल: ॥६८॥

इति विस्मृतान्यकरणीयमात्मन: सचिवावलम्बिधुरं धराधिपम् ।

परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥६९॥

स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।

नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥७०॥

उषसि स गजयूथकर्णतालै: पटुपटहध्वनिभिर्विनीतनिद्र: ।

अरमत मधुराणि तत्र शृण्वन्विहगविकूचितबन्दिमङ्गलानि ॥७१॥

अथ जातु रूरोर्गृहीतवत्र्मा विपिने पाश्र्वचरैरलक्ष्यमाण: ।

श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥७२॥

कुम्भपूरणभव: पटुरूच्चैरूच्चचार निनदोऽम्भसि तस्या: ।

तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥७३॥

नृपते: प्रतिषिद्धमेव तत्कृतवान्पङ्किÑतरथो विल¥Ñय यत् ।

अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिता: ॥७४॥

हा तातेति क्रन्दितमाकण्र्य विषण्ण

स्तस्यान्विष्यन्वेतसगूढं प्रभवं स: ।

शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं

तापादन्त:शल्य इवासीत्क्षितिपोऽपि ॥७५॥

तेनावतीर्य तुरगात्प्रथितान्वयेन

पृष्टान्वय: स जलकुम्भनिषण्णदेह: ।

तस्मै द्विजेतरतपस्विसुतं स्खलद्भि

रात्मानमक्षरपदै: कथयांबभूव ॥७6॥

तच्चोदित: स तमनुद्धâतशल्यमेव पित्रो: सकाशमवसन्नदृशोर्निनाय ।

ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानत: स्वचरितं नृपति: शशंस ॥७७॥

तौ दंपती बहु विलप्य शिशो: प्रहत्र्रा

शल्यं निखातमुदहारयतामुरस्त: ।

सोऽभूत्परासुरथ भूमिपतिं शशाप

हस्तार्पितैर्नयनवारिभिरेव वृद्ध: ॥७८॥

दिष्टान्तमाप्स्यति भवानपि पुत्रशोका

दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् ।

आक्रान्तपूर्वमिव मुक्तविषं भुजंगं

प्रोवाच कोसलपति: प्रथमापराद्ध: ॥७९॥

शापोऽप्यदृष्टतनयाअननपद्मशोभे

सानुग्रहो भगवता मयि पातितोऽयम् ।

कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो

बीजप्ररोहजननीं ज्वलन: करोति ॥८०॥

इत्थं गते गतघृण: किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन ।

एधान्हुताशनवत: स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमना: सदार: ॥८१॥

प्राप्तानुग: सपदि शासनमस्य राजा

संपाद्य पातकविलुप्तधृतिर्निवृत्त: ।

अन्तर्निविष्टपदमात्मविनाशहेतुं

शापं दधज्ज्वलनमौर्वमिवाम्बुराशि: ॥८२॥

इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ

मृगयावर्णनो नाम नवम: सर्ग: ॥

N/A

References : N/A
Last Updated : May 07, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP