संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
प्रपौत्रमुखदर्शनविधि:

व्रतोदयान - प्रपौत्रमुखदर्शनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ ब्रह्माम्डपुराणेनारदीयपातालखंडेनारदब्रह्मदेवसंवाद: ॥
तथास्मृतिचंद्रिकायां ॥ प्रपौत्रदर्शनादेवब्रह्मलोकमवाप्नुयात् ॥
तथाचसर्वतीर्थानिदानानिचमहामुने ॥ कृतानिपुण्यजातानिभवंतितिमुखदर्शने ॥
तस्मात्सर्वप्रयत्नेनपूजनंप्रपितामह ॥
गंगादिसर्वतीर्थानिसंतिमुनिसत्तम ॥ पूजाविधि: ॥ पूर्वनीराजनविधिंतूर्यघोषसमन्वितं ॥
कृत्वाद्विजाग्र्यै:सहितंपश्चात्स्नानविधिंचरेत् ॥
वरुणसूक्तेनगंगासूक्तेनाभिषेकंकुर्यात् ॥ गंगायथापूजनीयातथापूजांसमाचरेत् ॥
ब्रह्मघोषैर्वेदघोषै:पूजनीयै:प्रयत्नत: ॥
कांस्यपात्रेघृतंस्थाप्यमुखमालोकयेत्स्वयं ॥ पश्चात्सुवर्णदीपेननिरीक्षेत्सुखदंमुखं ॥
मुखावलोकनादेवब्रह्मलोकमवाप्नुयात् ॥
अथप्रयोग: ॥ देशकालौसंकीर्त्य ममब्रह्मलोकावाप्तिसर्वतीर्थयात्रासकलदानजन्यपुण्यजा
तावाप्तिद्वाराश्रीपरमेश्वरप्रीत्यर्थंप्रपौत्रमुखदर्शनंकरिष्ये ॥
तदंगंगणेशपूजनंस्वस्तिपुण्याहवाचनंमातृकापूजनांदीश्राध्दंचकरिष्ये ॥ इतिसंकल्प्य ॥
गणपतिपूजनादिनांदीश्राध्दांतंकृत्वाअभिषेकार्थंकलशंसंस्थाप्यतत्रवरुणंसंपूज्यतूर्यघोषसमन्वितंनीराजनविधिंकृत्वा कंबलांतर्हितेऔदुंबरेआसनेउपविश्यविद्वभ्दिर्ब्राह्मणैरभिषेकंका
रयेत् ॥
द्विजाश्चवरुणसूक्तेनगंगासूक्तेनचाभिषिंचेयु: ॥ अभिषेकांतेकर्ताजीर्णवस्त्राणिपरित्यज्य
नूतनानिधृत्वायथाधिकारंगंगापूजयेत् ॥
तत:कांस्यपात्रेविलीनघृतसंस्थाप्यतत्रस्वमुखमवलोक्य पश्चात्सुवर्णपात्रस्थदीपेनप्रपौत्रस्य
मुखंपश्येत् ॥
तत:प्रपौत्रंसुवर्णपुष्पै:शतसंख्याकैरभिषिंचेत् विकरेद्वादशभिर्वा पुष्पार्पणेप्रत्येकंयज्ञफलं ॥
ततस्तमभिषेकार्थकलशोदकैर्मार्जयेत् कृतस्यपौत्रमुखावलोकनस्यसांगतायैविधिनागोप्रदानं
कृत्वा यथाशक्तिब्राह्मणभोजयेत् ॥
ततोविष्णुप्रतिमांविधिवत्संपूज्यपायसंनिवेध्यप्रार्थयेत् ॥ भोविष्णोत्वत्प्रसादेनमुखमालोकि
तंमया ॥
तस्मात्कुरुममाभीष्टंसर्वदासर्वथाप्रभो ॥ दानमंत्र: ॥ प्रतिमाया:प्रदानेनबालकस्यसदाग्रहा: ॥ प्रशमंयांतुदेवेशकंसारेजगतांपते ॥
तत:पूर्वमवलोकितप्रतिबिंबमाज्यंब्राह्मणायदध्यादितिकेचित् ॥
इतिप्रपौत्रमुखदर्शनविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP