संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरुद्रहोमेद्रव्यंमंत्रविभागश्च

व्रतोदयान - अथरुद्रहोमेद्रव्यंमंत्रविभागश्च

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ एवंग्रहहोमंविधाय तत:प्रागुक्तन्यासपूर्वकंप्रागुक्तार्षेयादिस्मरणपूर्वकंचश्रीरुद्रंध्याय
न् स्वयंजुहुयात् । पुत्राध्यर्थेमहारुद्रेत्वेवमृत्विजोजुहुयु: । तत्रद्रव्यानिकृष्णतिला: यवा:
मिश्रिताउभये व्रीहय: आज्यंचेति । पुत्रार्थमहारुद्रेत्वाज्यपरिप्लुतादूर्वा: । अयंचहोम:प्रधा
नभूतेहोमरुद्रेजपरुद्रांगहोमेवारुपादिपंचस्वपिहोमेषु ॥
अथजपरुद्रस्यांगभूतोहोमस्त्रेधा समग्रहोमोदशांशहोम:शतांशहोमश्चेति । होमरुद्रेतुपंचस्व
पिसमग्रहोमएव । तत्रैपुत्रिष्वपिपक्षेषुषड्भिप्रकारै:र्मंत्रविभाग: । एकधा १ त्रेधा २ षोढा
३ षोडशधा ४ अष्टाचत्वारिंशध्दा ५ एकोनसप्तत्युत्तरशतधा ६ चेति । अयंचनमकविभा
ग: । एकधा १ त्रेधा २ षोढा ३ षोडशधा ४ अष्टाचत्वारिंशध्दा ५ एकोनसप्तत्युत्तरशत
धा ६ चेति । अयंचनमकविभागएव । चमकेषुतुएतत्पक्षप्रदर्शनएवविशेष:स्पष्टीभविष्य
ति । एतत्पक्षप्रदर्शनएवचमकानांसंख्याप्युच्यते । तत्रैकधाविभागस्तावद्रूपेसमस्तनमका
ध्यायेनैकाहुति:चमकेष्वग्नाविष्णूइत्यृचाएकाहुतिंहुत्वा वाजश्चमइत्यादिसमग्राध्यायेनापरा
आहुतिरिति । यद्वाअग्नाविष्णूइत्येकाएकादशचमकानुवाकैरेकाशेति । ततश्चरुपेसमग्र
होमीकधाविभागपक्षेतिस्त्रस्त्रयोदशवाहुतयोभवंति १ ॥
त्रेधाविभागोपिरुपेआध्यैश्चतुर्भिरनुवाकैरेकाहुति: अपरैश्चतुर्भिर्द्वितीया शेषैस्तिसृभिस्तृती
या । यद्वानमस्तइत्यारभ्यसभापतिभ्यश्चवोनमइत्यंतेनैका नमोअश्वेभ्यइत्यारभ्यनम:
पार्यायचावार्यायचेत्यंतेनापरा नम:प्रतरणायचेत्यारभ्यसमाप्तिपर्यंतेनतृतीयेतिचमकेपक्षद्व
यंप्राग्वत् । ततश्चरुपेसमग्रहोमेत्रेधाविभागपक्षेपंचपंचदशवाआहुतय: २ ॥
षोढाविभागेरुपेत्रेधाविभागवदेवाध्यविभागाभ्यामाहुतिद्वयं तृतीयविभागेयएतावंतइत्यृगंते
नतृतीयाआहुति: नमोरुद्रेभ्योयेपृथिव्यांयेषामन्नमिति नमोरुद्रेभ्योयेंतरिक्षेयेषांवातइति
नमोरुद्रेभ्योयेदिवियेषांवर्षमिषवइत्यादिवाक्यशेषसहितैस्त्रिभिर्यजुर्भिराहुतित्रयमिति चमके
पक्षद्वयमुक्तं । ततश्चरुपेसमग्रहोमेषोडशधाविभागापक्षेअष्टादशाष्टाविंशतिर्वाआहुतय: ४ ॥
अष्टचत्वारिंशध्दाविभागेपिरुपेनमस्तइतिप्रथमानुवाकऋग्भि:पंचदशाहुतय: तत्राष्टमोमंत्र:
षट्‍पाद:ततोष्टभिरनुवाकैरष्टौ दशमेनुवाकेद्वादशऋग्भिर्द्वादशएकादशानुवाकेप्राग्वदृशभि
र्दश नमोरुद्रेभ्यइतिपूर्ववत्रिभिर्यजुर्भिस्तिस्त्रइति चमकेप्राचीनंपक्षद्वयं । ततश्चरुपेसमग्र
होमेपंचाशत्षष्टिर्वाहुतय: ५ ॥
एकोनसप्तत्युत्तरशतधाविभागेपिरुपे तत्रप्रथमानुवाकेपंचदशर्ग्भि:पंचदशाहुतय: द्वितीयतृ
तीयचतुर्थानुवाकेषूभयतोनमस्कारै: सप्तचत्वारिंशभ्दिर्यजुर्भि:सप्तचत्वारिंशत् पंचमषष्ठ
सप्तमाष्टमनवमानुवाकेषुपुरस्तान्नमस्कारैद्वर्यशीतिभिर्यजुर्भिर्ध्यशीति: । एष्वपियजुष्षु
उभयतोनमस्कारत्वंकेचिदिच्छंति तत्रनमोभवायचरुद्रायचनमइतिपठित्वातमेवनम:शब्दं
पुनरावर्त्यनम:शर्वायचपशुपतयेचनमइतिपठेदित्यादिज्ञेयं । तत्रपक्षद्वयेपिनमोव:किरिके
भ्यइत्यादिमंत्रचतुष्टयेदेवानाहृदयेभ्य इतिप्रत्येकमावर्तनीयं । अयंचनमोव:किरिकेभ्यइत्य
त्रसहस्त्राणिसहस्त्रशइत्यत्रनमोरुद्रेभ्योयेपृथिव्यामित्यत्रचयोनुषंगउक्त:सयदाएतैर्मंत्रै:प्रत्येकं
होमस्तदैव । यदातुनैभि:प्रत्येकहोमस्तदाजपेएकधाहोमादावभिषेकपारायणेचयथाध्ययनमे
वपाठ: । ततोदशमानुवाकेद्वादशर्ग्भिर्द्वादशाहुतय: एकादशानुवाकेप्राग्वद्दशभिर्दशनमोरु
द्रेभ्यइतिचत्रिभिर्यजुर्भिस्तिस्त्रइति चमकेचपक्षद्वयंप्रागुक्तं । ततश्चरुपेसमग्रहोमेएकोन
सप्तत्युत्तरशतधाविभागपक्षेएकोनसप्तत्युत्तरंशतं एकाशीत्यधिकशतंवा ६ ॥
रुपेदशांशशतांशहोमोनभवति । एवंवक्ष्यमाणदशांशशतांशहोमेऽवशिष्टदशांशशतांशहोमोने
तिकेचित् । सर्वत्ररुपेआध्यविभागत्रयेदशांशाध्यसंभवेपिउत्तरविभागत्रयेदशांशादिप्राप्तिर
स्तीत्यन्ये । अयमेवचशिष्टैरादृत:पक्ष: । तत्ररुपेदशांशहोमेषोडशधाविभागपक्षेआहुतिद्वयं
दशांश: । अर्धाधिकेअल्पांतरत्वेनसमस्ताहुतिग्रहणात् । तच्चाध्याभ्यांमंत्राभ्यां । यद्वान
आध्येनात्येनचमंत्रेनेतियाज्ञिका: । तत्रैवाष्टाचत्वारिंशत्पक्षेपंचाहुतयोदशांश: । तत्राध्यैरेव
पंचभिर्यद्वाध्याभ्यांअंत्यैस्त्रिभिरितिपक्षद्वयं । तत्रैवैकोनसप्तत्युत्तरशतमंत्रपक्षेसप्तदशा
हुतयोदशांश: । तत्राप्याध्याएवसप्तदशआध्यानवअंत्याअष्टौवेतिपक्षद्वयं । रुपेएवषष्ठे
पक्षेशतांशाहुतिद्वयंप्राग्वन्मंत्राभ्यांज्ञेयं । यत्रसमग्रेणनमकरुपेणहोमस्तत्रैवचमकाहुतिर्ना
न्यत्र । तेनैषुत्रिष्वपिपक्षेषुनचमकाहुति: ॥
रुध्यांतुसमग्रहोमेएकधाविभागेएकादशनमकाहुतय: चमकेतुअग्नाविषूइत्येका एकादशभि
श्चमकानुवाकैर्नमकप्रतिरुपकयोजितैरेकैकरुपांते एकैकेतिद्वादशसर्वास्त्रयोविंशतिराहुतय: । तत्रैवत्रेधाविभागेनमकानांत्रयस्त्रिंशत् चमकानांप्राग्वद्वादशेतिसर्वा:पंचचत्वारिंशत् ।
तत्रैवषोढाविभागेनमकानांषडध्काषष्टि:चमकाहुतिभि:सहाष्टासप्तति: ।
तत्रैवषोडशधाविभागेनमकानांषट्‍सत्यप्त्युत्तरंशतंचमकाहुतिभि:सहाष्टाशीत्यधिकंशतं । तत्रैवाष्टाचत्वारिंत्पक्षेनमकानामष्टविंशत्यधिकापंचाशत् चमकै:सहचत्वारिंशदधिकातत्रैवै
कोनसप्तत्युत्तरशतधाविभागेनमकानामष्टादशशतान्येकोनषष्टिश्च चमकै:सहैकसप्तति
रिति ॥
रुद्राध्यांदशांशहोमेरुपेसमग्रहोमेएकधाविभागादिषट्‍पक्षेषुयासंख्योक्तासैवात्रबोध्दव्या ॥
तत्रषोडशधाविभागादिपक्षेअवशिष्टरुपस्यदशांशरुपाद्वि:पंचसप्तदशसहिताक्रमेणप्रागुक्तैव
संख्याबोध्दव्या ॥
तध्यथा । विंशतिस्त्रिंशद्वा पंचपंचाशत्वंचष्टिर्वा एकोननवतिर्नवनवतिर्वेति रुध्यांशतांश
होम:षोडशधाविभागादिपक्षत्रयएवसंभाव्यते । तत्रनमकेप्राग्वदाहुतिद्वयं चमकेचोक्तंपक्ष
द्वयमितिचतस्त्रश्चतुर्दशवाषोडशधाविभागेआहुतय: । अष्टचत्वारिंशध्दाविभागेतुनमकेप्रा
ग्वत्पंचचमकेद्वौपक्षावितिसप्तसप्तदशवाहुतयोभवंति । एकोनसप्तत्युत्तरशतधाविभागेतु
नमकेसप्तदश चमकेचपक्षद्वयमितिविंशतिस्त्रिंशद्वेति ॥
लघुरुद्रेसमग्रहोमेकधापक्षेएकविंशत्युत्तरशतनमकानांतावत्यआहुतय: चमकानांद्वात्रिंशदु
त्तरंशतमितिचमकै:सहत्रिपंचाशदधिकंशतद्वयमाहुतय: । तत्रैवत्रेधाविभागेनमकानांत्रिष
ष्ठयधिकंशतत्रयं चमकानामनंतरोक्ताएवेतिचतु:शतानिपंचनवतिश्च । तत्रैवषोढाविभाग
पक्षेनमकानांसप्तशतानिषड्विंशशतिश्च चमकानांतावत्यएवेतिसर्वाअष्टशतानिअष्टपंचा
शच्च । तत्रैवषोडशधाविभागपक्षेनमकानांसहस्त्रमेकंनवशतानिषड्विंशतिश्च चमकानांता
वत्यएवेतिसर्वा:सहस्त्रद्वयमष्टषष्टिश्च । तत्रैवाष्टाचत्वारिंशत्पक्षेनमकानांपंचसहस्त्राणि
अष्टशतान्यष्टौचचमकानामुक्ताएवेति चमकै:सहसर्वा:पंचसहस्त्राणिनवशतानिचत्वारिंश
च्च । तत्रैकोनसप्तत्युत्तरशतधाविभागपक्षेनमकानांविंशतिसहस्त्राणिचत्वारिशतान्येकोनपं
चाशच्च चमकानांतावत्यएवेतिसर्वाविंशतिसहस्त्राणिपंचशतानिएकाशीतिश्चेति । लघुरुद्र
एवदशांशहोमेएकधापक्षेद्वादशरुपकाणिदशांशइतिनमकानांद्वादशाहुतय: चमकानांचरुपके
षुक्रमेणद्वादशेतिसर्वाश्चतुर्विंशति: । तत्रैवत्रेधाविभागेनमकानांषट्‍ त्रिंशत् । चमकाहुति
भि:सहाष्टाचत्वारिंशत् । तत्रैवषोढाविभागेनमकानांद्विसप्तति: चमकाहुतिभि: सहचतुर
शीति: । तत्रैवषोडशधाविभागेनमकानामेकंशतंत्रिनवति:अवशिष्टरुपस्यचप्राग्वद्द्वे चम
कै:सहद्वेशतेषट्‍च । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांपंचशतानिषट्‍सप्तति:अवशि
ष्टरुपस्यप्राग्वत्सप्तदश चमकै:सहद्वेसहस्त्रेसप्तपंचाशदाहुतयइति ॥
लघुरुद्रएवशतांशहोमेएकधापक्षेनमकाध्यायेनैका चमकै:सहतिस्त्रस्त्रयोदशवाहुतय: ।
अत्रास्मिन्नेवपक्षेऽवशिष्टरुपाणांसंख्याभाव: । तत्रैवत्रेधाविभागपक्षेरुपकस्यतिस्त्र:अवशि
ष्टैकविंशतिरुपाणामेकाचमकै:सहषट्‍षोडशवा ॥
तत्रैवषोढापक्षेरुपस्यषट्‍अन्याचैका चमकै:सहनवएकोनविंशतिर्वा । तत्रैवषोडशधापक्षेरुप
स्यषोडशअन्यास्त्रिस्त्र: चमकै:सहएकविंशतिरेकत्रिंशव्दा । तत्रैवाष्टाचत्वारिंशध्दापक्षेरु
पस्यस्याष्टाचत्वारिंशत् अन्यादश चमकै:सहषष्टि:सप्ततिर्वा । तत्रैवैकोनसप्तत्युत्तरशत
धापक्षेरुपस्यतावत्य:अन्या:पंचत्रिंशत् चमकै:सहषडुत्तरंषोडशाधिकंवाशतद्वयमिति ।
अवशिष्टरुपेरुपकमंत्रविभाग:प्रागुक्त: ॥
महारुद्रेसमग्रहोमेएकधापक्षेनमकानांसहस्त्रमेकंत्रीणिशतानिएकत्रिंशच्चाहुतय: चमकानामे
कंसहस्त्रंचतु:शतंद्विपंचाशच्चेतिसर्वा:द्वेसहस्त्रेसप्तशतानित्र्यशीतिश्च । तत्रैवत्रेधाविभागे
नमकानांत्रिसहस्त्राणिनवशतानित्रिनवतिश्चचमकै:सहपंचसहस्त्राणिचत्वारिशतानिपंचचत्वारिंशच्च । तत्रैवषोढाविभागेनमकानांसप्तसहस्त्राणिनवशतानिषडशीतिश्च चमकै:सहनवस
हस्त्राणिचत्वारिशतानिअष्टविंशच्च । तत्रैवषोडशधाविभागेनकमानामेकविंशतिसहस्त्राणि
द्वेशतेषण्णवतिश्च चमकै:सहद्वाविंशतिसहस्त्राणिसप्तशतानिअष्टाचत्वारिंशच्च ।
तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांत्रिषष्टिसहस्त्राणि अष्टौशतानिअष्टाशीतिश्च चम
कै:सहपंचषष्टिसहस्त्राणित्रिशतानिचत्वारिंशच्च । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनम
कानांद्वेलक्षेचतुर्विंशतिसहस्त्राणिनवशतानिएकोनचत्वारिंशच्च चमकै:सहद्वेलक्षेषड्विंश
तिसहस्त्राणित्रिशतान्येकनवतिश्च ॥
महारुद्रेदशांशहोमेएकधाविभागेनमकानामेकंशतंत्रयस्त्रिंशच्चरुपाणीतितावत्यआहुतय: चमकानांद्वादश रुद्रियावृत्त्यात्रयस्त्रिंशच्छतंचमकरुपयोजनेद्वेद्वादशवेतिसर्वाद्वेशते
एकोनाशीतिरेकोननवतिर्वा । तत्रैवत्रेधाविभागेनमकानांत्रीणिशतानिनवनववतिश्च चमकै:
सहपंचशतानिंपंचचत्वारिंशत्पंचपंचाशव्दा । तत्रैवषोढाविभागेनमकानांसप्तशतानिअष्टनव
तिश्च चमकै:सहनवशतानिचतुश्चत्वारिंशच्चतु:पंचाशद्वा । एषुत्रिष्वपिपक्षेष्ववशिष्टरुपा
णांदशांशोनास्ति । तत्रैवषौडशधाविभागेनमकानांद्वेसहस्त्रेएकंशतंअष्टाविंशतिश्च अवशि
ष्टरुपस्यद्वे चमकै:सहद्वेसहस्त्रेद्वेशतेषट्‍सप्तति:षडशीतिर्वा । तत्रैवाष्टाचत्वारिंशध्दावि
भागेनमकानांषट्‍सहस्त्राणित्रीणिशतानिचतुरशीतिश्च अवशिष्टरुपेपंच चमकै:सहषट्‍सह
स्त्राणिपंचशतानिपंचत्रिंशत् पंचचत्वारिंशव्दा । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमका
नांद्वाविंशतिसहस्त्राणिचत्वारिशतानिसप्तसप्ततिश्च अवशिष्टरुपेसप्तदश चमकै:सह
द्वाविंशतिसहस्त्राणिषट्‍शतानिचत्वारिंशत् पंचाशद्वेति ॥
महारुद्रेशतांशहोमेएकधाविभागेत्रयोदशरुपाणिशतांशइतितावत्यआहुतय: चमकानांत्वेकाद
शिन्यांद्वादशरुपद्वयेच चमकानांप्रत्येकंद्वेद्वाशवेतिचतस्त्रश्चतुर्विंशतिर्वासर्वाएकोनत्रिंश
देकोनपंचाशद्वा । अत्रास्मिन्नेवपक्षेअवशिष्टरुपाणांशतांशोनास्ति । तत्रैवत्रेधाविभागेनम
कानामेकोनचत्वारिंशत् अवशिष्टैकत्रिंशद्रूपाणांचैकाचमकै:सहषट्‍पंचाशत् षट्‍सप्ततिर्वा ।
तत्रैवषोढाविभागेनमकानामष्टसप्तति:अवशिष्टरुपाणांद्वे चमकै:सहषण्ण्वति:षोडशाधिकं
शतंवा । तत्रैवषोडशधाविभागेद्वेशतेअष्टौच अवशिष्टरुपाणांपंच चमकै:सहद्वेशते एकोन
त्रिंशदेकोनपंचाशद्वा । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानांषट्‍शतानिचतुर्विंशतिश्च
अवशिष्टरुपाणांद्विपंचदश चमकै:सहषट्‍शतानिपंचपंचाशत्पंचसप्ततिरा । तत्रैवैकोनसप्त
त्युत्तरशतधाविभागेनमकानांद्वेसहस्त्रेएकंशतंसप्तनवतिश्च अवशिष्टरुपाणांद्विपंचाशत्
चमकै:सहद्वेसहस्त्रेद्वेशतेपंचषष्टि:पंचाशीतिर्वेति ॥
अतिरुद्रेसमग्रहोमेएकधापक्षेचतुर्दशसहस्त्राणिषट्‍शतानिएकचत्वारिंशच्चरुपकाइतिषांतावत्यआहुतय: । चमकानांतुप्रत्येकंरुध्यांद्वादशेतिपंचदशसहस्त्राणिनवशतानिद्वासप्तति
श्चसर्वास्त्रिंशत्सहस्त्राणिषट्‍शतानित्रयोदशचाहुतय: । तत्रैवत्रेधाविभागेरुपाणांत्रिचत्वारिंश
त् सहस्त्राणिनवशतानित्रयोविंशतिश्चमकै:सहएकोनषष्टिसहस्त्राणिअष्टौशतानिपंचनवति
श्च तत्रैवषोढाविभागेरुपाणांसप्ताशीतिसहस्त्राणिअष्टौशतानिषट्‍चत्वारिंशच्चचमकै:सहल
क्षमेकंत्रीणिसहस्त्राणिअष्टौशतान्यष्टादशच । तत्रैवषोडशधापक्षेरुपाणांसप्ताशीतिसहस्त्रा
णिअष्टौशतानिषट्‍चत्वारिंशच्चचमकै:सहलक्षमेकंत्रीणिसहस्त्राणिअष्टौशतान्यष्टादशच ।
तत्रैवषोडशधापक्षेरुपाणांद्वेलक्षेचतुस्त्रिंशत्सहस्त्राणिद्वेशतेषट्‍पंचाशच्चचमकै:सहद्वेलक्षेपं
चाशत्सहस्त्राणिद्वेशतेअष्टाविंशतिश्च । तत्रैवाष्टाचत्वारिंशध्दापक्षेरुपाणांसप्तलक्षाणिद्वे
सहस्त्रेसप्तशतान्यष्टषष्टिश्च चमकै:सहसप्तलक्षाणिअष्टादशसहस्त्राणिसप्तशतानिचत्वा
रिंशच्च । तत्रैवएकोनसप्तत्युत्तरशतधाविभागेचतुर्विंशतिर्लक्षाणिचतु:सप्ततिसहस्त्राणित्री
णिशतान्येकोनत्रिंशच्च चमकै:सहचतुर्विंशतिलक्षाणिनवतिसहस्त्राणित्रीणिशतान्येकाचेति ॥ अतिरुद्रेदशांशहोमेएकधापक्षेनमकानामेकंसहस्त्रंचत्वारिशतानिचतु:षष्टि:श्चाहुतय:चम
कानुवाकानांप्रतिरुपयोजनेएकंसहस्त्रंपंचशतानिषण्णवति:अवशिष्टरुपेचद्वेद्वादशवेतिसर्वा
स्त्रीणिसहस्त्राणिद्विषष्टिर्द्वासप्ततिर्वा । तत्रैवत्रेधापक्षेनमकानांचत्वारिसहस्त्राणित्रीणि
शतानिद्वानवतिश्च चमकै:सहपंचसहस्त्राणिनवशतानिनवति:शतंवा । तत्रैवषोढापक्षेनम
कानांचत्वारिसहस्त्रानित्रीणिशतानिद्वानवतिश्च चमकै:सहपंचसहस्त्राणिनवशतानिनवति:
शतंवा । तत्रैवषोढापक्षेनमकानामष्टौसहस्त्राणिसप्तशतानिचतुरशीतिश्च चमकै:सहदशस
हस्त्राणित्रिशतानिव्ध्यशीतिर्द्वानवतिर्वा । एषुत्रिष्वपिपक्षेषुमूलावशिष्टरुपदशांशाभाव: ।
तत्रैवषोडशधापक्षेनमकानांत्रयोविंशतिसहस्त्राणिचत्वारिशतानिचतुर्विंशतिश्च मूलावशिष्ट
रुपस्यद्वे चमकै:सहपंचविंशतिसहस्त्राणिचतुर्विंशतिश्चतुस्त्रिंशद्वा । तत्रैवाष्टाचत्वारिंश
ध्दापक्षेनमकानांसप्ततिसहस्त्राणिद्वेशतेद्विसप्ततिश्च मूलावशिष्टरुपस्यचपंच चमकै:
सहएकसप्ततिसहस्त्राणिअष्टौशतानिपंचसप्तति:पंचाशीतिर्वा । तत्रैवैकोनसप्तत्युत्तरशत
धापक्षेनमकानांद्वेलक्षेसप्तचत्वारिंशत्सहस्त्राणिचत्वारिशतानिषोडशच मूलावशिष्टरुपस्य
चसप्तदश चमकै:सहद्वेलक्षएकोनपंचाशत्सहस्त्राणिएकत्रिंशदेकचत्वारिंशद्वा ॥
अतिरुद्रेशतांशहोमेएकधाविभागेनमकानांएकशतंषट्‍चत्वारिंशच्चेतितेषांतावत्य आहुतय:
अवशिष्टैकचत्वारिंशद्रूपाणांशतांशोनसंभवति । चमकानांत्रयोदशरुद्रीष्वेकंशतंषट्‍पंचाशच्च
रुपकत्रयेद्वेद्वादशवेतिषट्‍ त्रिंशद्वासर्वास्त्रीणिशतानिअष्टावष्टत्रिंशद्वा । तत्रैवत्रेधाविभा
गेनकमानांचत्वारिशतान्यष्टाविंशतिश्च अवशिष्टरुपाणामेकाचमकै:सहषट्‍शतानिएकएक
त्रिंशद्वा । तत्रैवषोढाविभागेनमकानांअष्टौशतानिषट्‍सप्ततिश्चअवशिष्टरुपाणांद्वे चमकै:
सहएकंसहस्त्रंचत्वारिंपंचशतानिपंचपंचत्रिंशद्वा । तत्रैवाष्टाचत्वारिंशध्दाविभागेनमकानां
सप्तसहस्त्राणिअष्टौच अवशिष्टरुपाणांविंशति:चमकै:सहसप्तसहस्त्राणिएकंशतंनवतिश्च
शतद्वयंविंशतिश्चवा । तत्रैवैकोनसप्तत्युत्तरशतधाविभागेनमकानांचतुर्विंशतिसहस्त्राणि
षट्‍शतानिचतु:सप्ततिश्च अवशिष्टरुपाणामेकोनसप्तति: चमकै:सहचतुर्विंशतिसहस्त्राणि
नवशतानिपंचपंचत्रिंशद्वेति ॥
एवंकैश्चिद्रुद्रहोमसंख्याभिहिता । अन्यैस्तुयत्रप्रागुक्तसंख्यातोधिकंरुपकमवशिष्यतेतत्रसम
ग्ररुपकेणहोम: । यत्रत्वाहुतयोवशिष्यंतेतत्रषडाहुतिपर्यंतमाध्यैस्त्रिभिर्मंत्रैस्त्रिस्त्र आहुतय:
अंत्यै:स्त्रिभिस्तिस्त्र: । यत्ररुपादधिकाअवशिष्यंतेतत्ररुपकेणहोम: । रुपकेचद्वेद्वादशवाच
मकाहुतय: । एवंचकिंचिदधिकमात्रंहोमेसंपध्यतेनतुप्रागुक्तपक्षवत्प्रधानभूतकियध्दोमलो
पोभवतित्युक्तं । अस्मिंश्चपक्षेप्रागुक्तसंख्ययैषांसंख्याएकीकृत्ययोज्या । इहचरुद्रहोमेउ
क्तेष्वनेकप्रकारेषुयत्रयत्राहुतिसंख्याधिक्यमाहुतिपरिमाणाधिक्यंवातत्रतत्रफलतारतम्यंद्रष्ट
व्यं ॥ एवंरुद्रहोमंविधायहृदयाध्यस्त्रांतंप्रागुक्तंपंचांगन्यासंकुर्यात् ॥ ऋत्विगादिपक्षेतुस
र्वेप्येवमेवकुर्यु: ॥
ततआचार्योयजमानोवाप्रागुक्तरुद्रपीठदेवताभ्यस्तत्तन्नाममंत्रैराज्यंस्त्रुवेणजुहुयात् ॥ इहच
हौम्यद्रव्यमधोमेखलायांभूमौवापतितमग्नौनक्षिपेत् मध्यमोपरिमेखलयो:पतितस्यपरिधिप
रिस्तरणांतर्गतत्वेनाग्निप्रक्षेपार्हत्वात्तद्वहिर्गतस्यांत:प्रक्षेपनिषेधाच्चेतिहोमप्रकारसंक्षेप: ॥
एवंहोमंपरिसमाप्यचंदनाध्युपचारैरग्नेनयेतिमंत्रेणसंकल्पपूर्वकंस्वाहास्वधायुतमग्निंपूजयेत् । अग्नयेगंधादिबहिरेवदध्यात्। ततोग्रहपीठदेवतानांरुद्रपीठदेवतानांचोत्तरपूजांकेचिदाहु: ॥
पूजासंपूर्णतांवाचयित्वायस्यस्मृत्याआवाहनंनजानामीत्युक्त्वास्विष्टकृदादिनवाहुतीश्चहुत्वाबलिदानंइंद्रादिलोकपालेभ्योग्रहेभ्यश्चकृत्वा रुद्रपीठस्याग्रेकद्रुद्रायेतिरुद्रायबलिंदत्त्वापूर्णा
हुतिंवसौर्धारांचजुहुयात् (बलिदानपूर्णाहुतिसोर्धारादिपूर्वंमात्स्येग्रहयज्ञेद्रष्टव्यं) ॥
एवंवसोर्धारांविधाययथाशाखंपूर्णपात्रविमोकादिकर्मशेषंसमापयेदाचार्य: । तदनंतरंवरणक्रमे
णऋत्विज:प्रतिनिधयश्चोदद्मुखा:प्राड्मुखयजमानहस्तेश्रेय:संपादनंकुर्वंति ॥ तच्चैवं ॥
शिवाआप:संत्वितियजमानहस्तेजलंक्षिपेत् सौमनस्यमस्त्वितिपुष्पंअक्षतंचारिष्टंचास्त्वि
त्यक्षतान् दीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टिश्चास्त्वितिपुनर्जलं । मयाभवन्नियोगेनमहारुद्र
मध्येयथांशेनय:कृतोजपस्तद्दशांशेनामुकपक्षेणचय:कृतोहोमस्तस्माज्जपाध्दोमाच्चयदुत्पन्नंश्रेयस्तत्तुभ्यमहंसंप्रददइति ॥
इदंनिर्मूलत्वाध्यजमानप्रतारनामात्रमेव । तदनंतरमग्ने:पश्चिमभागेप्राड्मुखोपविष्टोयजमा
नउदड्मुखानाचार्यादीन् पूजयिष्य इतिसंकल्प्य श्रीमहारुद्रस्वरुपिणेआचार्यायेदंपाध्यंइदंबा
र्हस्यत्यंवासोयुगुलमित्यादिगंधपुष्पधूपदीपतांबूलानिदत्त्वा पूर्वोक्तविशेषणवतिकालेदेशेचकृ
तस्यमहारुद्रादिकमण:प्रतिष्ठासिध्द्यर्थममुकगोत्रायामुकवेदांतर्गतामुकशाखाध्यायिनेमुकश
र्मणेआचार्याययथाशक्यलंकृतामिमांसवत्सांगांरुद्रदैवत्यां इदंचहिरण्यमग्निदैवतंतुभ्यमहंसं
प्रददइतिकुशाक्षतसहितजलंविप्रहस्तेनिक्षिप्य नममेतिवदेत् विप्र:स्वस्तीत्युक्त्वाकामस्तु
तिंकइदंकस्माअदादित्यादिकांस्वशाखास्थांपठेत् ॥
एवमेवब्रह्मपूजांविधायदक्षिणांदत्त्वा अनंतरंग्रहजापेकभ्य:पूजापूर्वकंग्रहदक्षिणादेयाअनंतरमृ
त्विजोपिपूजयित्वासंकल्पपूर्वकंदक्षिणांदध्यात् गोरभावेतन्निष्क्रयत्वेननिष्कंतदर्धंवासुवर्णं
शक्त्यादध्यात् ततोद्वारजापकेभ्योदक्षिणादेया ततोनानावेदांतर्गतनानाशाखाध्यायिभ्योना
नागोत्रेभ्योनानाशर्मभ्योब्राह्मणेभ्योदीनानाथेभ्यश्चयथाशक्तिभूयसींदक्षिणांदातुमुत्सृजेनममेतिसकुशाक्षतजलंक्षिप्त्वा ॐ तत्सदितिवदेत् ॥
तदनंतरग्रहवेदिसमीपस्थकलशोदकेनरुद्रकलशोदकेनद्वारकलशोदकेनद्वारकलशोदकेनचदूर्वापंचपल्लवैरुद्रड्मुखाआचार्यर्त्विजस्तिष्ठंत:प्राड्मुखंसकुटुंबमुपविष्टंयजमानभिषिंचेयु:
अभिषेकेपत्नीवामभागे अभिषेकसमयेगीतवाध्यादिमंगलघोष:कार्य: ॥
समुद्रज्येष्ठाइतिचतसृणांवसिष्ठआपस्त्रिष्टुप् अभिषेकेविनियोग: ॐ समुद्रज्येष्ठा:० ४
त्रायंतामिहदेवाइत्यादि अक्षीभ्यामित्यादिच अन्येपिस्वशाखोक्तामंत्राग्राह्या: पौराणास्तुसु
रास्त्वामभिषिंचंत्वित्यादय: एवमभिषेकानंतरंसर्वौषधीभिरनुलिप्यशुध्दोदकेनस्त्रात्वाशुक्ल
माल्यांबरानुलेपन:सपत्नीकोयजमानोग्रहरुद्रपीठदेवतानांगंधाध्युपचारैरुत्तरपूजांदक्षिणाप्रदक्षिणानमस्कारांतां निर्वर्त्यपुष्पांजलिंदत्त्वा आवाहनंनजानामि० अपराधसहस्त्राणि० यस्य
स्मृत्या० मंत्रहीनं० इतिपीठद्वयेक्षमाप्य उत्तिष्ठब्रह्मणस्पते अभ्यारमिदद्रय: यांतुदेवग
णाइतिपुष्पाक्षतप्रक्षेपेणग्रहपीठदेवताविसृज्यएवमेवरुद्रपीठेदेवताविसर्जयेत् ग्रहपीठंपूजोप
स्करयुतं रुद्रपीठमपिसोपस्करंरुद्रप्रतिमांचाचार्यायदध्यात् ॥ तत्रप्रतिमादानमंत्रा: ॥
श्रीरुद्रप्रतिमांस्वर्णमयींवस्त्रयुगान्वितां ॥ श्रीरुद्रप्रीतयेचापिप्राप्तानिष्टनिवृत्तये ॥
प्रार्थिताभीष्टसंसिध्द्यैतुभ्यंश्रीरुद्ररुपिणे ॥ संप्रदध्यांविधानेनयथोक्तफलमस्तुमे ॥
यदातुमारकतंलिंगंतदादानमंत्र: ॥ इदंमारकतंलिंगंरौप्यपीठान्वितंशुभं ॥
नंदिनाराजतेनापिश्वेतवस्त्रयुगान्वितम् ॥ धान्यैर्द्वादशभिर्युक्तमेकादशफलान्वितं ॥
संप्रदध्यांविधानेनयथोक्तफलमस्तुमे ॥ काश्मीरजलिंगपक्षेतुइदंमारकतमित्यत्रइदंकाश्मीर
जमितिप्रयोज्यं ॥
द्वादशधान्यानितुव्रीहियवमाषतिलमुद्गखल्वगोधूममसूरप्रियंग्वणुश्यामाकनीवारा: ॥
तेषांमानंतुप्रस्थाधिकंद्रोणावधियथाशक्तिग्राह्यं उक्तधान्याभावेयथासंभवंग्राह्याणि ।
ततोग्निंसंपूज्यगच्छगच्छसुरश्रेष्ठेत्यग्निंविसृज्य सर्वामंडपदेवताद्वारदेवताश्चयांतुदेवगणा
इतिविसृज्य ध्वजपताकाध्युपस्करयुतंमंडपमाचार्यायदध्यात् । अमुंमंडपंध्वजपताकाध्युप
स्करयुतंतुभ्यमहंसंप्रददेनममेति । ॐ स्वस्तीतिसप्रतिब्रूयात् । तत:कृतस्यमहारुद्रादिक
र्मण: संपूर्णतासिध्दयेयथोपपन्नेनान्नेनयथाकालंनानागोत्रान्नानाशर्मणोमुकसंख्यान्ब्राह्म
णान्भोजयिष्येइतिसंकल्प्ययथाकालंब्राह्मणान् भोजयेत् भूरिदक्षिणासंकल्पानंतरंवाब्राह्म
णभोजनसंकल्प: । रुपेएक: रुध्र्यांत्रय: लघुरुद्रेएकादश महारुद्रेएकविंशत्युत्तरशतंअतिरुद्रे
त्रयोदशशतान्येकत्रिंशच्चेति ततो ब्रह्मार्पणंब्रह्महवि:० चतुर्भिश्चचतुर्भिश्चेत्युक्त्वा मया
यत्कृतंयथाकालंयथादेशंयथादेशंयथाज्ञानंयथाशक्तिचमहारुद्रादिकर्मतेनश्रीपरमेश्वर:प्रीयतां
ॐ तत्सद्ब्रहार्पणमस्त्वितिसकुशजलंक्षिपेत् । तत:सदस्यंचंदनाक्षतपुष्पवस्त्रतांबूलदक्षि
णादिभि:पूजयित्वंजलिंबध्द्वा मयायत्कृतंमहारुद्रादिकर्मतत्कालहीनंभक्तिहीनंश्रध्दाहीनं
शक्तिहीनंभवतांब्राह्मणानांवचनात्सर्वंसंपूर्णमच्छिद्रंचास्तुइतिप्रार्थयेत् तत:संपूर्णमच्छिद्र
मस्त्विसर्वेवदेयु: ॥
ततस्तेषांमंत्राशिषोगृहीत्वातान्सानुनयंविसृज्यदीनानाथादीनन्नादिभि:संतोष्यस्वयंसुन्हन्मि
त्रादियतु:सोत्साह:संतुष्टोहविष्यंभुंजीतेति ॥
रामेश्वरभट्टात्मजनारायनसूरिणाकाश्यां ॥ कार्मणसज्जनतुष्टयैरुद्रानुष्ठानपध्दतीरचिता ॥ ग्रंथाननेकानालोड्यविचार्यसहसज्जनै: ॥ कृत:श्रमोऽनेनविभु:शंकर: प्रीयतांमम ॥
इतिश्रीभट्टरामेश्वरसुतनारायणभट्टकृतारुद्रानुष्ठानपध्दति:समाप्ता ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP