संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष:

व्रतोदयान - देवहस्तेकंकणबंधनेजलाधिवासेचवासुदेवीप्रतिष्ठाप्रयोगेविशेष:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


आचार्य: अध्येत्यादिकौतुकबंधनंकरिष्येइतिसंकल्प्यदर्भकूर्चेउदकुंभंनिधायदशतंतुमितंपंचां
गुलमष्टांगुलंवाकार्पाससूत्रंहरिद्राक्तंसाक्षतकांस्यपात्रेनिधायकुंभोदकेनसूत्रमभिषिंचेदेभिर्मंत्रै: ॥ अग्निमीळइतिनवर्चस्यसूक्तस्यमधुच्छंदाअग्निर्गायत्री ॥
सूत्रप्रोक्षणेविनियोग: ॥ ॐ अग्निमीळे० ॥ आपोहिष्ठेतितिसृणामांबरीष:सिंधुद्वीपआपो
गायत्री ॥
एतोन्विंद्रमितिसृणामांगिरसस्तिरश्चीरिंद्रोनुष्टुप् ॥ स्वादिष्टयेतिदशर्चस्यसूक्तस्यमधुच्छं
दा:पवमान:सोमोगायत्री ॥
रक्षोहनमितिपंचविंशर्चस्यसूक्तस्यभारद्वाज:पायूरक्षोहाऽग्निस्त्रिष्टुप् ॥ रात्रीव्यख्यदित्य
ष्टर्चस्यसूक्तस्यकुशिक:सोभरिपुत्रोरात्रिर्गायत्री ॥
कृणुष्वपाजइतिपंचदशर्चस्यसूक्तस्यगौतमोवामदेवोरक्षोहाऽग्निस्त्रिष्टुप् ॥ तरत्समंदीतिच
तसृणामावत्सार:पवमान:सोमोगायत्री ॥
सहस्त्रशीर्षेतिषोळशर्चसूक्तस्यनारायण:पुरुषोऽनुष्टुप् अंत्यात्रिष्टुप् ॥ विष्णोर्नुकमितिष
ण्णामौचथ्योदीर्घतमाविष्णुस्त्रिष्टुप् ॥
परोमात्रयेतिसप्तानांमैत्रावरुणिर्वसिष्ठोविष्णुस्त्रिष्टुप् ॥ हिरण्यवर्णामितिपंचदशर्चस्यसू
क्तस्य आनंदकर्दमचिक्लीतेंदिरासुताऋषय:श्रीर्देवताआध्यास्तिस्त्रोनुष्टुभ:चतुर्थीबृहतीततो
द्वेत्रिष्टुभौततोष्टावनुष्टुभ: अंत्याप्रस्तारपंक्ति: ॥
यज्जाग्रतइतिषण्णांशिवसंकल्पमंत्राणांप्रजापतिर्मनस्त्रिष्टुप् ॥ विहिहोत्राइतिपंचानांवामदे
वोवायुरनुष्टुप् ॥
मुंचामित्वेतिपंचानांप्राजापत्योयक्ष्मनाशन इंद्रस्त्रिष्टुबंत्यानुष्टुप् ॥ स्योनापृथिवीतिमेधा
तिथि:पृथिवीगायत्री ॥
द्रविणोदाइत्यस्यांगिरस:कुत्सोद्रविणोदाअग्निस्त्रिष्टुप् ॥ सवितापश्चातादित्यस्यनाभाग:
सवितात्रिष्टुप् ॥ नवोनवइतिसूर्यासावित्रीसूर्यासावित्रीत्रिष्टुप् ॥
उलूकयातुमितिवसिष्ठंइंद्रस्त्रिषुप् ॥ पिशंगभृष्टिममित्यस्यदैवोदासि:पुरुरुपइंद्रोगायत्री ॥
एभिर्मंत्रै:सूत्रमभिषिच्य ॥
जातवेदसइत्यस्यजातवेदाअग्निस्त्रिष्टुप् ॥ इत्यनयासूत्रंगंधेनानुलिप्य ॥ विश्वेत्ताइत्यस्य
भार्गवोनृमेधइंद्रोजगती सूत्रबंधनेवि० ॥
इतिमंत्रेणभगवतोदक्षिणहस्तेबध्नीयात् ॥ ततोधान्यराशौजलद्रोणींकटाहंवाजलभांडंनिधाय
एतेषामभावेजलधारार्थंशिक्यादिसंपाध्यद्रोण्यादिकंगंधोदकेनापूर्यन्त्मध्येअष्टाविंशतिदर्भनिर्मितंकूर्चंनिधाय यदत्रसंस्थितमितिभूतशुध्दिंविधायतस्मिन् कूर्चेमूलमंत्रेणहरिंहरंवाभावयि
त्वाचक्रमुद्रांप्रदर्श्य जलद्रोणीतोदक्षिणदिशिधान्यपुंजोपरिवस्त्रद्वयवेष्टितंकलशंएकवस्त्रवे
ष्टितंकरकंचकलशस्थापनमंत्रै:स्थापयेत् ॥
तत्रकलशेब्रह्मजज्ञानंगौतमोवामदेवोब्रह्मात्रिष्टुप् कलशेब्रह्मावाहनेवि० ॥ ॐ ब्रह्मणे
नम:ब्रह्माणमावाहयामीत्यावाह्यकरकेनाममंत्रेणसुदर्शनमावाहयेत् ॥
ॐ सुदर्शनाययनम:सुदर्शनमावाहयामि ॥ तत:जलद्रोण्यादेरुपरि यदत्रसंस्थितमितिमंत्रेण
सर्षपान् विकीर्यअष्टौकलशान् कलशस्थापनमंत्रै:स्थापयेत् तेष्वष्टकलशेषुइंद्रादीनावाहयेत् ॥ अग्रत:सुवर्चसंदीपंदध्यात् ॥ जलांत:शमीपीठंस्थापयित्वातदुपरिवस्त्रमास्तीर्यप्रतिमांव
स्त्रेणाच्छाध्यकुशैरावेष्टयप्राड्मुखीमुदड्युखींवाजलेधिवासयेत् ॥
अयंकमलावासइत्यागामप्रसिध्दि: ॥ अयमेवसरोजसंघातनामकोधिवास: ॥ जलद्रोण्यभावे
तसंततधारांकुर्यात् ॥
जलाधिवासमेकरात्रंयामंवागोदोहनमात्रंवाकुर्यात् ॥ जलाधिवाससूक्तानितु ॥ अतोदेवाइति
षण्णांमेधातिथिर्विष्णुर्गायत्री ॥
विष्णोर्नुकमितिसप्तदशर्चस्यसूक्तस्यदीर्घतमाविष्णुर्जगतीसप्तम्यादितिसृणामिंद्राविष्णुआध्या:षट्‍त्रिष्टुभ: ॥
अस्यवामस्येतिद्विपंचाशदृचस्यसूक्तस्य दीर्घतमाविश्वेदेवास्त्रिष्टुप् तृतीयापंचमीसप्तमी
नांमरुतोंऽत्यानांतिसॄणामिंद्राविष्णूआध्या:षट्‍ त्रिष्टुभ: ॥
अस्यवामस्येतिद्विपंचाशदृचस्यसूक्तस्य दीर्घतमाविश्वेदेवास्त्रिष्टुप् तृतीयापंचमीसप्तमी
नांमरुतोंऽत्यानांतिसृणामगस्त्य:प्रथमाद्वितीयाचतुर्थीषष्ठ्यष्टमीदशम्येकादशीद्वादशीना
मिंद्र: द्वात्रिंश्यावाक् त्रयस्त्रिंश्या:शकधूमसोमौपंचत्रिंश्याअग्निवायुसुर्या:षट्‍ त्रिंश्यावाक्
सप्तत्रिंश्यो:सूर्यएकोनचत्वारिंश्या:कालचक्रंचत्वारिंश्या:सरस्वतीएकचत्वारिंश्या:साध्या:द्वि
चत्वारिंश्या:सूर्यपर्जन्याग्रय:त्रिचत्वारिंश्या:सरस्वान् द्वादशीपंचदशीत्रयोविंश्येकोनत्रिंशीषट्‍
त्रिंश्येकचत्वारिंश्योजगत्य: ततएकाप्रस्तारपंक्ति:एकपंचाश्यनुष्टुप् ॥
जलाधिवासनेवि० ऋ०५२ ॥
ममाग्रेवर्चइत्येकविंशानामाध्यानांदशानांविहव्य:तत:सप्तानांपरमेष्ठीप्रजापति:ततोंऽत्यानां
यज्ञोनामप्रजापति:आध्यानांनवानांविश्वेदेवा:शेषाणांभाववृत्तमनुष्टुप् नवमीजगती ॥
ऋ० २१ ॥
आशु:शिशानइतित्रयोदशर्चस्यसूक्तस्यइंद्रोऽप्रतिरथऋषि:इंद्रोदेवताचतुर्थ्याबृहस्पतीस्त्रिष्टुबं
त्यानुष्टुप् १३ ॥
शंनइंद्राग्नीइतिपंचदशर्चस्यसूक्तस्यमैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् १५ ॥
रक्षोहणमितिपंचविंशर्चस्यसूक्तस्यभारद्वाज:पायूरक्षोहाग्निस्त्रिष्टुप् २५ ॥
आनोभद्राइतिदशर्चस्यसूक्तस्यराहूगणोगोतमोविश्वेदेवा:आध्या:पंचजगत्य:षष्ठीविराट्‍स्था
नात्रिष्टुप् सप्तमीजगतीअष्टम्याध्यास्तिस्त्रस्त्रिष्टुभ: १० ॥
स्वस्त्ययनमितिद्वयो:स्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् २ ॥
इमारुद्रायतवसइत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्रोजगती ११ ॥
मुंचामित्वेतिपंचर्चस्यसूक्तस्ययक्ष्मनाशनोनामप्रजापतीपुत्रोराजयक्ष्मनाशनइंद्रस्त्रिष्टुबंत्या
नुष्टुप् ५ ॥
रात्रीव्यख्यदित्यष्टर्चस्यसूक्तस्यकुशिक:सोभरिपुत्रोरात्रिर्गायत्री ८ ॥
एतानिसूक्तानिजपेयु: ॥ तत:अथर्वशीर्षंयथाशक्त्यावर्तयेत ॥
एवंजलाधिवासंसंपाध्यसाक्षतहस्ताचार्यादिसहित:सपत्नीकोयजमान: मंगलतूर्यनिनादेसुवा
सिनीमंगलगीतसहित: भद्रंकर्णेभिरितिमंत्रघोषेणमहामंडपप्रादक्षिण्येनपश्चिमद्वारेणमंडपं
प्रविश्यवेध्या:पश्चिमत उपविश्याचम्यप्राणानायम्यदेशकालौस्मृत्वामंडपप्रतिष्ठां करिष्ये
इतिसंकल्प्य गणेशंपूज्य अथवास्तुयजननवग्रहमखार्थंवृतैराचार्यादिभिर्यथावकाशप्रदेकुंडां
तरेस्थंडिलेवाएकतंत्रेणपृथग्वावस्तुयागंग्रहमखंचकारयेत्  इतिविशेष: ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP