संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
प्रासादादिवास्तुप्रकार:

व्रतोदयान - प्रासादादिवास्तुप्रकार:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौसंकीर्त्यसप्रासादामुकप्रतिष्ठांगत्वेनवास्तुदेवतांपूजांकरिष्ये ॥
तत्रादौवास्तुवेध्याईशानादिचतुष्कोणेषु ॥ विशंतुभूतलेनागालोकपालाश्चसर्वश: ॥
अस्मिन्प्रासादेऽवतिष्ठंतुआयुर्बलकरा:सदा ॥ इतिमंत्रावृत्त्याचतुर:शंकून् रोपयेत् ॥
तेनैवक्रमेण ॥ अग्निभ्योप्यथसर्पेभ्योयेचान्येतत्समाश्रिता: ॥ तेभ्योबलिंप्रयच्छामिपुण्य़
मोदनमुत्तमं ॥ इतिमंत्रावृत्त्याशंकुपार्श्वेमाषभक्त्तबलीन्दध्यात् ॥
ततोवेध्युपरिकुंकुमादिनासुवर्णादिशकालया लक्ष्मी: यशोवती कांता सुप्रिया विमला शिवा सुभगा सुमति: इला ९ इतिनवरेखा:प्रागायताउदक्संस्था:कृत्वा धन्या प्राणा विशाला स्थिरा भद्रा जया निशा विरजा विभवा ९ इतिनामभिरुद्रगायता:प्राक्संस्थानवरेखा:कृत्वा
मध्यपदचतुष्टयमेकीकृत्यकोणेषुरेखादत्त्वातत्रदेवताआवाहयेत् ॥
यथा ॥ ईशानपददक्षिणार्धेशिरसिशिखिनं १ तद्दक्षिणसार्धपदेपर्जन्यं २ तद्दिक्षपपद्वये
जयंतं ३ तद्दक्षिणपदद्वयेकुलिशायुधं ४ तद्दिणपदद्वयेसूर्यं ५ तद्दक्षिणपदद्वयेसत्यं
६ तद्दक्षिणसार्धपदेभृशं ७ तद्दक्षिणार्धपदेआकाशं ८ ततपश्चिमार्धेवायुं ९ तत्पश्चिमसार्धपदेपूषणं १० तत्पश्चिमपदद्वयेवितथं ११ तत्पश्चिमपदद्वयेगृहक्षतं १२
तत्पश्चिमपदद्वयेयमं १३ तत्पश्चिमपदद्वयेगंधर्व १४ तत्पश्चिमसार्धपदेभृंगराजं १५ तत्पश्चिमार्धपदेमृगं १६ तदुत्तारार्धेपितृन् १७ तदुत्तरसार्धपदेदौवारिकं १८ तदुत्तरपदद्वयेसु
ग्रीवं १९ तदुत्तरपदद्वयेपुष्पदंतं २० तदुत्तरपदद्वयेवरुणं २१ तदुत्तरपदद्वयेअसुरं २२ तदुत्तरसार्धपदेशोषं २३ तदुत्तरार्धपदेपापं २४ तत्प्रागर्धेरोगं २५ तत्प्राक्सार्धपदेअहिं २६ तत्प्राक्पदयेमुख्यं २७ तत्प्राक्पदद्वयेभल्लाटं २८ तत्प्राक्पदद्वयेसोमं २९ तत्प्राक्पदद्वयेसर्पं ३० तत्प्राक्सार्धपदेअदितिं ३१ तत्प्रागर्धपदेदितिं ३२ मध्यपदेषुईशान
पदोत्तरार्धेआपं ३३ आग्नेयपदोत्तरार्धेसवित्रं ३४ नैऋतपदोत्तरार्धेजयं ३५ वायव्यपदोत्तरार्धे
रुद्रं ३६ मध्येप्राक्पदद्वयेअर्यमणं ३७ आग्नेयपददक्षिणार्धेसवितारं ३८ तत्पश्चिमपदद्व
येविवस्वतं ३९ नैऋतपदपूर्वार्धेविबुधाधिपं ४० तदुत्तरपदद्वयेमित्रं ४१ वायव्यपदपश्चिमा
र्धेराजयक्ष्माणं ४२ तत्प्राक्पदद्वयेपृथ्वीधरं ४३ ईशानपददक्षिणार्धेआपवत्सं ४४ मध्यपदचतुष्पदेहृदयेब्रह्माणं ४५ ततउत्तरेवास्तोष्पतइतिवृषवास्तुप्रतिमां ४६ ऐशान्यादि
विदिक्षुचरकीं ४७ विदारीं ४८ पूतनां ४९ पापराक्षसीं ५० प्रागादिदिक्षुस्कंदं ५१ अर्यमणं ५२ जृंभकं ५३ पिलिपिच्छं ५४ एवंक्रमेणवास्तुदेवता आवाह्यषोडशोपचारै:संपूज्यमंडलादी
शान्यामुत्तरतोवामहीध्यौरित्यादिविधिनाकलशंसंस्थाप्य तत्रवरुणंसंपूज्यावाहितदेवताभ्यो
नाम्नापायसबलीन्दध्यात् ॥
मंडपजलाशयांगवास्तावष्येवमेव ॥ अत्रब्रह्मादि:शिख्यादिर्वाक्रम: ॥ शक्तौहोमस्तत्रप्रत्ये
कंसमित्तिल (यव) पायसाज्यानि, समिदाज्यचरव: समिदाज्ये, केवलंयवास्तिलावा ॥
प्रत्येकं १०।८।१ वाआहुतय: ॥
शारदातिलकेपायसाज्यैर्बलिंहरेदित्येवोक्तत्वात्केवलंपूजनपूर्वकंबलिदानमेवकार्यंनहोमस्या
वश्यकतेतिवास्तुविषयेबहवोविकल्पा:संति ॥
पक्षेहोमाभावोपिक्कचिदुक्तस्तत्रसदस्तभ्दिर्विचारनीयम् ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP