संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथकृष्णैकादश्युध्यापनम्

व्रतोदयान - अथकृष्णैकादश्युध्यापनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ यजमान:देशकालौसंकीर्त्याआत्मन:पापक्षयपूर्वकंएकविंशतिपुरुषानुध्दर्तु
कामनयालक्ष्मीनारायणप्रीतयेचआचरितस्यकृष्णैकादशीव्रतस्यसांगतासिध्द्यर्थंकृष्णैकादशीव्रतोपाध्यापनंकरिष्येइतिसंकल्प्य ॥
पूर्वोक्तप्रकारेणगणेशपूजामारभ्यआचार्यवरणांतंकर्मकुर्यात् ॥ ततआचार्य:पूर्वोक्तप्रकारेणस
र्वतोभद्रेब्रह्मादिदेवताआवाह्यसंपूज्यतदुपरिसंकर्षणादिद्वादशनामांकितंतिलपूर्णराजतपूर्णपात्रयुतंकलशंप्रतिष्ठाप्यतत्रअष्टदलंविलिख्यकर्णिकायां भू:पुरुषमित्याध्यावाह्य मध्येसह
स्त्रशीर्षेतिसौवर्णींलक्ष्मीनारायणप्रतिमामावाह्य ॥
तत:पूर्वादिदिक्षुप्रत्येकंस्त्रीचतु:सहस्त्रसहितांरुक्मिणींसत्यभामांजांबवतींकालिंदींचावाह्य ॥
आग्नेयादिविदिक्षुगणपतिंदुर्गांक्षेत्राधिपतिंवास्तोष्पतिंचावाह्य ॥
पुन:पूर्वादिदिक्षुब्रह्मजज्ञानमितिब्रह्माणंविष्णोर्नुकमितिविष्णुं बलभद्रम् प्रध्युम्नं त्र्यंबकं
मितित्र्यंबकम् वसुदेवं रामं अनिरुध्दं वामभागे श्रियं पुरत: राजतंगरुडं ॥
पुन:आग्नेयादिकोणेषु शंखं चक्रं गदां पद्मं ॥ पुन:पूर्वादिक्रमेण विमलां उत्कर्षिणीं ज्ञानां क्रियां योगां प्रह्वां सत्याम ईशानां पृष्ठभागे अनुग्रहाम् ॥
पुन: पूर्वादिक्रमेण इंद्राध्यष्टौलोकपालान् तत्तन्मंत्रैर्नाममंत्रैर्वाआवाह्यपूर्वोक्तप्रकारेणषोड
शोपचारै:संपूज्य पुराणश्रवणादिनारात्रिंनिनयेत् ॥
प्रात:पुन:पीठदेवता: संपूज्य पूर्वोक्तप्रकारेणअग्निंप्रतिष्ठाप्यअन्वादध्यात् ॥ अत्रप्रधानम् ॥ संकर्षणादिश्रीकृष्णांतद्वादशदेवता:घृताक्तपायसेनप्रत्येकमेकैकयाहुत्या पुरुषंविष्णुंअ
ष्टोत्तरसहस्त्रसंख्याकघृताक्ततिलाहुतिभि: अष्टोत्तरशतसंख्याभिर्वा अग्निं वायुं सूर्यं प्रजापतिं स्त्रीचतु:सहस्त्रसहितांरुक्मिणींसत्यभामांजांबवतींकालिंदींचघृताक्तपायसद्रव्येणप्र
त्येकमेकैकयाहुत्यापायसेनवसुदेवंरामंश्रियं विष्णुंविष्णोर्नुकमितिषण्मंत्रै: प्रत्यृचंपायसेन गणपतिंदुर्गांक्षेत्राधिपतिंवास्तोष्पतिं ब्रह्माणंबलभद्रंप्रध्युम्नंत्र्यंबकंअनिरुध्दंश्रियंगरुडंशंखं
चक्रंगदांपद्मं विमलाध्याअनुग्रहांदेवता:इंद्राध्यष्टौलोकपालान् ब्रह्मादिमंडलदेवताश्चैकैक
याज्याहुत्यायक्ष्ये ॥
शेषेणस्विष्टकृतमित्यादिआज्यभागांतंकृत्वाप्रधानदेवताहोमयेत् ॥ घृताक्तपायसेनैकवारं
ॐ संकर्षणायस्वाहा वासुदेवाय० प्रध्युम्नाय० अनिरुध्दाय० पुरुषोत्तमाय० अधोक्षजाय०
नारसिंहाय० अच्युताय० जनार्दनाय० उपेंद्राय० हरये० श्रीकृष्णाय० ॥ घृताक्ततिलै: १००८ वा १०८ ॐ सहस्त्रशीर्षा० ॥
घृताक्त:पायसेनैकवारं ॐ भू:स्वाहा ॐ भुव:स्वाहा ॐ स्व:स्वाहा ॐ भूर्भुव:स्व: स्वाहा ॥ प्रत्येकंस्त्रीचतु:सहस्त्रसहितायैरुक्मिण्यै० सत्यभामायै० जांबवत्यै० कालिंध्यै० ॥
केवलपायसेनैकवारं वसुदेवाय० रामाय० श्रियै० ॐ विष्णोर्नुकं० ॐ तदस्यप्रि० ॐ प्रतिद्विष्णु:० ॐ परोमात्रया० ॐ विचक्रमे० ॐ त्रिर्देव० ॥ अथाज्येनैकवारं गणपतये० दुर्गायै० क्षेत्राधिपतये० वास्तोष्पतये० ब्रह्मणे० बलभद्राय० प्रध्युम्नाय० त्र्यंबकाय० अनिरुध्दाय० गरुडाय० शंखाय० चक्राय० गदायै० पद्माय० विमलायै० उत्कर्षिण्यै० ज्ञानायै० क्रियायै० योगायै० प्रह्वायै० सत्यायै० ईशानायै० अनुग्रहायै० इंद्रायेत्यादिलोकपालेभ्य:ब्रह्मादिमंडलदेवताभ्यश्चहुत्वा तत:स्विष्टकृतंहुत्वाप्रायश्चित्तहोमां
तंकर्मनिर्वर्त्य आचार्यायकृष्णागांदत्त्वाद्वादशब्राह्मणान् संकर्षणादिश्रीकृष्णांतद्वादशनाम
भि:संपूज्य तेभ्योदक्षिणादियुतान् तिलपूर्णान्संकर्षणादिद्वादशनामांकितान्कलशान्दध्यात्
पीठंदत्त्वासदन्नेनब्राह्मणान् यथाविभवंसंभोज्यदक्षिणादिभि:प्रतोष्यव्रतसंपूर्णतांवाचयित्वा आशिषोगृहीत्वाइष्टजनै:सहभुंजीत ॥ इतिकृष्णैकादशीव्रतम् ॥

N/A

References : N/A
Last Updated : August 07, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP