संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथज्वरशांतिप्रयोग:

व्रतोदयान - अथज्वरशांतिप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचमनादिदेशकालस्मरणांतेममश्रीज्वरस्वरुपिरुद्रप्रसादसिध्दिद्वाराशरीरोत्पन्नो
त्पत्प्त्स्यमानसमस्तामयनिदानभूतवातपित्तश्लेष्मप्रक्षोभजन्यविविधज्वरोत्थनिखिलपीडा
परिहारपूर्वकंक्षिप्रारोग्यावाप्त्यर्थंसग्रहमखांज्वरशांतिंकरिष्ये इतिसंकल्प्यगणेशपूजनादि
ऋत्विग्वरणांतंकुर्यात् ॥
ततआचार्य:प्रादेशकरणांतेस्थंडिलात्पूर्वेमहीध्यौरित्यादिविधिनाकलशंसंस्थाप्यपूर्णपात्रोपरिश्वेतवस्त्रंप्रसार्यतत्राक्षतैरष्टदलंविलिख्य तत्कर्णिकायांसुवर्णप्रतिमांनिधायतत्र ॥
कुबेरइतिमंत्रस्यकुबेरोज्वरपीरुद्रोनुष्टुप् रुद्रावाहनेवि० ॥
ॐ कुबेरतेमुखंरौद्रंनंदिन्नानंदमावह ॥ ज्वरमृत्युभयंघोरंविशनाशयमेज्वरम् ॥ इतिमंत्रेण
ज्वरस्वरुपिणंरुद्रमावाह्य पूर्वादिदलेषुदेवताआवाहयेत् ॥ ज्वरायनम:ज्वरमावाहयामि ॥
एवमग्रेपि ॥ वातज्वराय० । पित्तज्वराय० । श्लेष्मज्वराय० । शीतज्वराय० । उष्णज्वराय० । द्वंद्वंज्वराय० । संनिपातज्वराय० तब्दाह्ये ॥
उग्रज्वराय० । गंभीरज्व० । सततज्व० । संततज्व० । ऐकाहिकज्व० । द्वाहिकज्व० ।
त्र्याहिकज्व० । चातुर्थिकज्व० ॥ तब्दाह्ये ॥
प्राकृतज्व० । वैकृतज्व० । आमज्व० । निरामज्व० । अभिघातज्व० । अभिचारज्व० । अभिषंगज्व० । अभिशापज्वरायनम: ॥
इत्यावाह्यसर्वान्संपूज्याग्निंग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् ॥ ग्रहादिकीर्तनांतेऽत्रप्रधानंज्वर
स्वरुपिणंरुद्रंक्षीराप्लुताम्रदलैरष्टोत्तरसहस्त्रसंख्याकाहुतिभि: ज्वराध्यंगदेवताएकैकयाज्याहु
त्याशेषेणत्याज्यभागांतेकुंभंस्पृष्ट्वा ॥
आरुद्रास:श्यावाश्वोरुद्रोजगती कुंभाभिमंत्रणेवि० ॥ ॐ आरुद्रास० इतिमंत्रमष्टोत्तरशतवारं
जपेत् ॥
ततोयजमानेनत्यागेकृतेग्रहादिहोमंकृत्वाकुबेरइतिकुबेरतेइतिमंत्रेण १००८ संख्यया क्षीराप्लु
ताम्रदलानिहुत्वा ज्वराध्यंगदेवताभ्योनामंत्रेणैकैकामाज्याहुतिंजुहुयात् ॥
तत:पूर्ववत्कुंभमभिमंत्र्यस्विष्टकृदादिप्रायश्चित्तहोमांतेबलिदानपूर्णाहुतिकृत्वसंस्त्रावहोमादिशेषंसमाप्यस्थापितकलशोदकेनसमुद्रज्येष्ठाइत्यादिमंत्रैरभिषेकंकुर्यात् ॥
तत:कर्ताधृतशुक्लांबरोविभूतिंधृत्वादेवतोत्तरपूजांविधाय कुबेरतइतिमंत्रांते ज्वरस्वरुपिणंरुद्रं
तर्पयामि इतिपयसातर्पणंकृत्वानाममंत्रेणज्वराध्यंदेवतास्तर्पयेत् ॥ तत:कृतांजलि: ॥
त्रिपाभ्दस्मप्रहरणस्त्रिशिरारक्तलोचन: ॥
समेप्रीत:सुखंदध्यात्सर्वामयपतिर्ज्वर: ॥ सततंसंततंचैवज्वरमुग्रंतथैवच ॥ ऐकाहिकंद्वया
हिकंचतृतीयादिमथापिवा ॥ ज्वरोरोगपतीराजामृत्युरोग:सनातन: ॥
क्रुध्देरोगोन् ज्वरोहन्याद्रुद्रोभुवनशोभन: ॥ इतिसंप्रार्थ्यआचार्यादिभ्योदक्षिणादानांतेविस
र्जितदेवतापीठंआचार्यायदध्यात् ॥
तत्ररुद्रप्रतिमादानेमंत्र: ॥ ज्वरस्वरुपीयोरुद्र:सुवर्णेनविनिर्मित: ॥ सोपस्करोमयादत्तस्तेन
रुद्र:प्रसीदतु ॥
ततआज्यावलोकनंतद्दानंचकृत्वाविप्रान्संभोज्यभूयसींदत्त्वाशिषोगृहीत्वाकर्मसमापयेत् ॥
इतिशांतिकमलाकरोक्ताज्वरशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP