संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
पञ्चपञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - पञ्चपञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच शून्ये देवकुले श्मशानभूमौ वीथीप्रतोलीतले रथ्या कारविहारशून्यनगरे चारामक चत्वरे ॥१॥
जायन्ते क्षुभिते बलानि हृदये क्षुद्रग्रहाणां नरे ते चापि प्रथिता ग्रहा दशविधा वक्ष्याम्यतः साम्प्रतम् ॥२॥
दश प्रोक्ता महाचार्यैः कैश्चिदप्येकविंशतिः दशग्रहाणां वक्ष्यामि चिकित्सां शृणु पुत्रक ॥३॥
ऐन्द्राग्नेयौ यमश्चान्यो नैऋर्तो वरुणो ग्रहः मरुतोऽपि कुबेरश्च ऐशान्यो ग्रहको ग्रहः ॥४॥
पैशाचिको ग्रहश्चान्यो दशैते ग्रहनायकाः आरामे च विहारे च देवस्थाने च यो भवेत् ॥५॥
ऐन्द्रग्रहं विजानीयात्तेन हर्षति गायति सदर्पश्चासदर्पश्च उन्मादग्रस्त एव च ॥६॥
श्मशाने चत्वरे चैव गृह्णात्याग्नेयकुग्रहः तेनैव रोदित्यत्यर्थं पश्यति सर्वतो भयम् ॥७॥
युद्धभूमौ श्मशाने च यमश्चापि उदीर्यते तेन विह्वलो दीनश्च प्रेतवच्चेष्टते नरः ॥८॥
वल्मीकचत्वरे चैत्ये गृह्णाति नैऋर्तो ग्रहः तेनासौ वर्त्तते द्वेष्टि धावति मारयत्यपि ॥९॥
गृप्तनेत्रो विवर्णास्यो बलिष्ठो दुष्टचेतनः नदीतडागतीरे च चलति वारुणग्रहः ॥१०॥
तेनास्यात्स्रवति लाला भृशं मूत्रयति नरः नेत्रप्लावश्च दृश्येत मूकवत्प्रविलोक्यते ॥११॥
वातमण्डलीमध्ये च गृह्णाति मारुतग्रहः तेनास्य शोषयेद्दीनः कभ्यते रोदित्यथवा ॥१२॥
विह्वलः श्रान्तनेत्रश्च निषीदति क्षुधातुरः हर्षगर्वाभिमाने च गृह्णाति यक्षराड् ग्रहः ॥१३॥
तेन गर्वोद्धतश्चैव तथालङ्कारसुप्रियः ॥१४॥
देवस्थाने च रम्ये च शिवग्रहश्छलप्रदः भस्माङ्गरागं कुरुते भ्रमते च दिगम्बरः ॥१५॥
शिवध्यानरतो नित्यं गीतवाद्यप्रियस्तु सः ॥१६॥
शून्यागारे शून्यकूपे ग्रहको ग्रहनामकः क्षुधार्त्तो न तृषार्त्तश्च कथति न शृणोति च ॥१७॥
उच्छिष्टे वा शुचौ यस्य छलति पिशाचग्रहः तेन नृत्यति रौति वा गायति जल्पति तथा ॥१८॥
मत्तवद्भ्रमते नग्नो लालास्रावः क्षुधादिकः एवं दशग्रहाणाञ्च लक्षणं कथितं मया ॥१९॥
वक्ष्याम्यतः प्रतीकारं शृणु पुत्र समासतः जलस्नानं सातिशयं तथा च बलिकर्म च पूजां यथा वाच्यमानां तेन सम्लभते सुखम् ॥२०॥
एलाजातिफलंमधूकयुगलं रास्ना तथा खादिरः कर्पूरामलकीजटाबहुसुताघोण्टाम्लसारास्तथा । सीसं पारदसारदाडिमफलं मद्यैश्च सम्मीलितं प्रत्येकं दधिदुग्धलाङ्गलरसैर्युक्तं समं कल्कितम् ॥२१॥
रसेन भावितं तस्य गुटिका च प्रकल्पिता जयेच्चन्द्रप्रभा नाम तीव्रान्मोहादिकान्गदान् ॥२२॥
शुण्ठी मधुकसारश्च चवी किंशुकमेव च वचाहिंगुसमायुक्तं बस्तमूत्रेण संयुतम् देयं ग्रहविकारघ्नं ग्रहाणां नाशनं परम् ॥२३॥
बिडालविष्ठाहिममोचनिम्बमयूरपिच्छं समराजिका च निर्मोकपिण्डीतकसर्जमोचधूपं घृताक्तं ग्रहदोषशान्त्यै ॥२४॥
चेतना नाम गुटिका तथा ब्राह्मीघृतं स्मृतम् अपस्मारे प्रयुक्तानि तानि चात्र प्रयोजयेत् ॥२५॥
गुग्गुलुं समधुघृतं तेन धूपेन धूपयेत् मन्त्रेण तेन हारीत तर्जयेद्ग्रह पीडितम् ॥२६॥
ओं नमो भगवते भूतेश्वराय कलिकलिनखाय रौद्र दंष्ट्राकरालवत्क्राय त्रिनयनधगधगितपिशङ्गललाटनेत्राय तीव्रकोपानलामिततेजसे पाशशूलखट्वाङ्गडमरुकधनुर्बाणमुद्गराभयदण्डत्राससमुद्राव्ययदसंयदार्द्रदण्डमण्डिताय कपिलजटाजूटार्द्धचन्द्रधारिणे भस्मरागरञ्जिताविग्रहाय उग्रफणिकालकूटाटोपमण्डितकण्ठदेशाय जय जय भूतनाथामरात्मने रूपं दर्शय दर्शय नृत्य नृत्य चल चल पाशेन बन्ध बन्ध हुङ्कारेण त्रासय त्रासय वज्रदण्डेन हन हन निशितखङ्गेन छिन्नछिन्न शूलाग्रेण भिन्न भिन्न मुद्गरेण चूर्णय चूर्णय सर्वग्रहाणामावेशयवेशय स्वाहा ॥२७॥
ग्रहाविष्टेन चेत्तस्मै दीयते बलिरुत्तमः मुक्तो भवति तस्माच्च संशयो नास्ति तत्र च ॥२८॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने भूतविद्यानाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP