संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
त्रयोऽविंशोऽध्यायः

तृतीयस्थानम् - त्रयोऽविंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
कटुक्षाराम्ललवणै रक्तं देहे प्रकुप्यति
रोधात्संधारणाद्वापि दिवास्वप्नादिसेवनैः ॥१॥
समीरकोपः प्रत्यङ्गे युगपद्दृश्यते नृणाम्
वातरक्तमिति प्रोक्तं नृणां देहे प्रवर्त्तते ॥२॥
जायते सुकुमाराणां तथा स्त्रीणां भिषग्वर
स्थूलानाञ्च विशेषेण कुप्यते वातशोणितम् ॥३॥
आलस्यं च तथा कण्डूर्मण्डलानाञ्च दर्शनम्
वैवर्ण्यं स्फुरणं शोफशोषौ दाहश्च मार्दवम् ॥४॥
वातरक्तं विजानीयाच्छ्यावतां दन्तरक्तयोः
एतद्विलक्षणं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया ॥५॥
विरेकं रक्तमोक्षं च पानलेपनलेहकान्
धान्यनागरसंयुक्तं क्षीरं चास्य प्रदापयेत् ॥६॥
पटोलीनिम्बपत्राणि क्वथित्वा मधुसयुतम्
पाचनं वातरक्तानां तथा च शमनानि च ॥७॥
काञ्जिकेन च सम्पिष्य पिचुमन्ददलानि च
लेपनं शस्यते तस्य वातरक्तप्रशान्तये ॥८॥
दुर्वा मूर्वा शठी शुण्ठी धान्यकं मधुयष्टिका
वर्त्तनं शीततोयेन वातरक्तप्रलेपनम् ॥९॥
धन्यकर्षञ्च जीरे द्वे गुडेन परिपाचितम्
भक्षणे वातरक्तानां दापयेद्दोषशान्तये ॥१०॥
एतैर्यदि न सौख्यं स्यात्तदा रक्तावसेचनम्
ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत् ॥११॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तवातचिकित्सा नाम त्रयोविंशोऽध्याः ॥२३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP