संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
एकपञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - एकपञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच शोषो हृल्लासच्छर्दिश्च शोफो ज्वरस्तथारुचिः अतीसारो विवर्णत्वमष्टौ गर्भस्योपद्रवाः ॥१॥
वक्ष्यामि भेषजं तस्य यथायोगेन साम्प्रतम् वटप्ररोहं मगधामुशीरं घनमेव च ॥२॥
युता खण्डगुटिकास्ये विहिता शोषवारिणी ॥३॥
वत्सकं मगधा शुण्ठी तथा चामलकीफलम् युक्तं कोमलबिल्वेन दध्ना पिष्टं तु दापयेत् ॥४॥
शर्करासंयुतं पानं स्त्रीणां गर्भे हितं सदा ॥५॥
पीतो भूनिम्बकल्कश्च शर्करासमभावितः छर्दिं हरेच्च हृत्क्लेदं मधुना वा समन्वितः ॥६॥
शृङ्गवेरं सकटुकं मातुलुङ्गस्य केशरम् मार्जनं दन्तजिह्वासु गन्डूषश्चोष्णवारिणा ॥७॥
गुर्विणीनाञ्च सर्वासामरुचिं च नियच्छति वत्सकं दाडिमं पाठा बिलबिल्वबलास्तथा ॥८॥
जम्ब्वाम्रपल्लवाश्चैव यथा लाभेन सत्तम शर्करादधिसंयुक्तं स्त्रीणाञ्चैवातिसारके ॥९॥
हरीतकी नागरकं गुडेन वा त्रिफलाकषायः शीतः स्त्रीणां विनिहन्ति पाने विबन्धविद्रधींश्च ॥१०॥
मूत्रविबन्धनस्य त्रपुसैर्वारिबीजानि मागधी च शिलाभेदं सिताढ्यञ्च पिबेत्तण्डुलवारिणा ।
मूत्ररोधं गुर्विणीनां वारयत्याशु निश्चितम् ॥११॥
मधुकविषमृणालं पद्मकिञ्जल्ककल्कं घनमतिविषमैन्द्रं बीजमौशीरनीरम् ।
 समकृतमथ कल्कं देयमाशु प्रपाने हितमपि युवतीनां गर्भचाले सिताढ्यम् ॥१२॥
 गर्भस्योपद्रवाः शोफाः स्वेदयेदुष्णवारिणा न दातव्यो मतिमता विरेको दारुणो महान् ॥१३॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपद्रवचिकित्सा नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP