संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
ऊनविंशोऽध्यायः

तृतीयस्थानम् - ऊनविंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच अयं मानसको व्याधिरुन्माद इति कीर्त्तितः प्रमत्ता ऊर्ध्वगा दोषा ऊर्ध्वं गच्छन्त्यमार्गताम् ॥१॥
उन्मादो नाम दोषोऽयं कष्टसाध्यो भिषग्वरैः सोऽपि पृथग्विधैर्दोषैर्द्वन्द्वजोऽन्यः प्रकीर्त्तितः तथान्यः सन्निपातेन विषाद्भवति चापरः ॥२॥
अशुचिविपथशून्यागारकेऽरण्यमध्ये सभयगहनवीथीदेवतागारके च अथ कथमपि भीत्याशङ्कया खिन्नचेतः क्षुभितमनसमार्ग त्याज्यमुन्मार्गयेति ॥३॥
चिन्ताव्यथासुभयहर्षविमर्षलोभाद्देवातिथिद्विजनरेन्द्रगुरूपमानात् प्रेमाधिकाच्चयुवतौहित विप्रयोगादुन्मादजन्म च नृणां कथितं वरिष्टैः ॥४॥
तेन जायति वा रौति विरूपं पठते यदा लोलयेच्छर्दिते वापि कम्पते हसते तथा ॥५॥
धावते हनने चैव तथा जिह्वा विनश्यति जवे भास यतेऽत्यर्थं पश्येद्धनमथातुरः ॥६॥
तस्यापस्मारकं कर्म कर्त्तव्यं भिषजांवरैः विशेषेण भूतविद्यामध्ये वक्ष्यामि चाग्रतः ॥७॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने उन्मादनिदानं नामोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP