संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
त्रयस्त्रिंशोऽध्यायः

तृतीयस्थानम् - त्रयस्त्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
लवणाम्लक्षारकटुकैरुष्णस्वेदातिदोषतः
रक्तपित्तं प्रकुप्येत स विसर्पी भिषग्वर ॥१॥
स सप्तधा परिज्ञेयः पृथग्दोषैश्च द्वन्द्वजैः
केवलो रक्तजस्त्वन्यः सन्निपातेन सप्तमः ॥२॥
तथापरे प्रवक्ष्यन्ते नामानि च पृथक्पृथक्
आज्ञेयो ग्रन्थिको घोरः कर्दमश्च तथापरः ॥३॥
आज्ञेयो वातपित्तेन ग्रन्थिकः पित्तश्लेष्मणा
कर्दमो वातश्लेष्मोत्थो घोरः स्यात्सान्निपातिकः ॥४॥
रक्तंलसीकात्वग्मांसं दूष्यं दोषास्त्रयो मलाः
विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्तधातवः ॥५॥
न्यग्रोधबिल्वखदिरकषायो धावने हितः
काञ्जिकाम्लैः पिच्छिलया सौवीरकरसेन वा ॥६॥
मातुलुङ्गरसेनापि धावनं वातसर्पिषु
क्षीरेण शीततोयेन धावनं पित्तसर्पिणि ॥७॥
श्लेष्मविसर्पिणे वाथ धवार्जुनकदम्बकम्
धावनं सर्पिणे शस्तं सुरासौवीरकेण वा ॥८॥
धावनञ्च हितं तस्य सन्निपाते विसर्पिणे
यवाग्निमन्थैश्च शठीन्यग्रोधैश्च ससर्षपैः ॥९॥
क्वाथः स्यात्सन्निपातोत्थविसर्पधावने हितः
पञ्चजीरकपित्थांश्च काञ्जिकेन तु पेषयेत्
मातुलुङ्गरसेनापि लेपनं वातसर्पिणे ॥१०॥
धवा रोध्रतिलाश्चैलविदारीकण्टकं तथा
लेपः पित्तविसर्पे वा गुञ्जापत्रैस्तु लेपनम् ॥११॥
सैन्धवारिष्टतुम्बीकापटोलपत्रकैर्घृतम्
पाचितं लेपने शस्तं विसर्पाणां निवारणम् ॥१२॥
रक्तजेषु विसर्पेषु कुर्याद्रक्तावसेचनम्
पश्चाद्धवकदम्बानां सर्वदा गृहधूमकम् ॥१३॥
लेपने हितकृत्प्रोक्तं धावनं काञ्जिकेन तु
कुठेरकाश्च सुरसा चक्रमर्दो निशायुगम् ॥१४॥
सर्षपाः काञ्जिकेनापि पिष्ट्वा च लेपनं हितम् ॥१५॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने विसर्पचिकित्सा नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP