संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
अष्टत्रिंशोऽध्यायः

तृतीयस्थानम् - अष्टत्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
इति व्रणक्रिया प्रोक्ता समासेन भिषग्वर
यथायोगं चोपचारं ज्ञात्वा सम्यगुपानरेत् ॥१॥
दुष्टाम्बुपानाञ्च कदन्ननिषेवणाच्च सञ्जायते च क्रिमिसम्भवगण्डमाला
समारुते च कफपित्तभवे विकारे संसर्पते क्रिमिजदोषगणश्च गण्डात् ॥२॥
वातेन वातसदृशानि च लक्षणानि पित्तेन दाहसरुजव्रणशोषतापाः
संश्लेष्मणा च शीतलघना सम्प्रयोगात्स्यात्सन्निपातविहिता च समस्तलिङ्गैः ॥३॥
तस्य चेमं प्रतीकारं वक्ष्यामि शृणु पुत्रक
रोहिणी विशदा चैव विजया च विभेदिनी ॥४॥
कान्तारी वज्रपुष्पा च तथा चेन्द्रायुधापरा
इति सप्तविधा लूताः शृणु पश्चात्पृथक्पृथक् ॥५॥
रक्तमुण्डाभवेद्रक्ता रक्तस्थाने च रोहिणी
विशदा मांसलस्थाने श्वेतवर्णा च दीर्घिका ॥६॥
विजया च शिरोमध्ये पीतवर्णा यवप्रभा ॥७॥
भेदिनी मेदसंस्थाने श्वेता च नीलरेखिका ॥८॥
कान्तारी बस्तिमध्ये च श्वेताङ्गा रक्तमुण्डिका
वज्रपुष्पा चास्थिमध्ये श्वेता कृष्णा शिरा मता ॥९॥
इन्द्रायुधा शिरान्ते च धूम्रा कृष्णा शिरा मता ॥१०॥
रोहिण्यंगुलिमात्रेण मूत्रेण विशदा समा
विजया च यवाकारा वर्त्तुला विजया तथा ॥११॥
अन्या नृणां च विज्ञेया तण्डुलीकण्टकानिभा
रोहिणी विजया विंशा मांसस्थाने समाश्रिता ॥१२॥
गुल्फे वा चास्थिसन्धौ च दृश्यते भेदिनी नरे
कुक्षौ कर्णान्तरेऽपाङ्गे कान्तारी विद्धि पुत्रक ॥१३॥
वज्रपुष्पा शिरसि च शिरान्ते चेन्द्रायुधा मता
अतो वक्ष्यापि भैषज्यं शृणु पुत्र प्रयत्नतः ॥१४॥
सान्द्रपूय विस्रावञ्च गम्भीरञ्च व्रणं विदुः
अन्यञ्च सरुजं चैव पक्वजम्बूसमप्रभम् ॥१५॥
लूताव्रणानां चैतानि अपक्वं यावद्दृश्यते
त्यक्त्वा सन्धिस्थमर्मस्थां लूतां चैवहि तद्व्रणम्
तदा तप्तेन तैलेन दाहश्चाशु विधीयते ॥१६॥
अङ्कोलश्चैव मद्यानि पारिभद्रदलानि च
गृहधूमं कृष्णजीरं गोमूत्रेण तु पेषितम्
लेपनं च प्रशस्तं च लूतानां मारणे परम् ॥१७॥
पिण्डीतकं विडङ्गानि तथा चेंगुदिमूलकम्
बीजपूरकमूलानि पेषितानि विलेपयेत्
गण्डमालां तथा घोरां हन्ति शीघ्रं प्रकण्टकान् ॥१८॥
स्नुहीक्षीरं चार्कक्षीरं लूतारन्ध्रे नियोजयेत्
तेन कीटस्तु तन्मध्ये म्रियते नात्र संशयः ॥१९॥
आस्यतो गिरिकर्णीञ्च चन्दनञ्च समांशकम्
पिष्ट्वा लेपः प्रयोक्तव्यो लूतां हन्ति सुदारुणाम् ॥२०॥
करवीरं चार्कदुग्धं तथा च कटुतुम्बिकाम्
निशाद्वयं जाङ्गलिकां तिलतैले विपाचयेत् ॥२१॥
लूतामभ्यञ्जने हन्ति गण्डमालाश्च दारुणाम्
घृतं जात्यादिकं नाम तथा चात्र प्रयोजयेत् ॥२२॥
अन्यान्यपि व्रणे यानि प्रोक्तानि च यथाविधि ॥२३॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने लूतागण्डमालाचिकित्सा नामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP