संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
सप्तविंशोऽध्यायः

तृतीयस्थानम् - सप्तविंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
विषमासनोपवेशात्पीततोयादथापिवा
श्रमाध्वश्वासनिष्क्रान्ते अतिव्यायामितेऽपि या
पीतं तूदरमेवं च तस्माज्जातं जलोदरम् ॥१॥
उदरं सजलं यस्य सघोषमतिवर्द्धितः श्वयथुः पादयोः शोफो जलोदरस्य
लक्षणम् ॥२॥
विरेकं वमनं कुर्यात्पाचनानि च कारयेत्
क्षारयोगश्च वटकस्तेन तदुपशाम्यति ॥३॥
तस्मान्नाभेर्वलीभागे वर्जित्वांगुलमात्रकम्
जलनाडी चानुमान्य कुशमात्रेण वेष्टयेत् ॥४
एरण्डजलनालं च तत्र सञ्चारयेद्बुधः
अन्तर्गतं जलं स्राव्यं ततः सन्धारयेद्द्रुतम् ॥५॥
यदा न धरते तच्च तदा दाहः प्रशस्यते
कणकल्कं परिस्राव्य घृतं देयं चतुर्गुणम् ॥६॥
शुण्ठीविषासमं पाच्य पानमालेपनं हितम्
शस्त्रकर्म भिषक्छ्रेष्ठो विज्ञातेनैव कारयेत् ॥७॥
दुष्करं शस्त्रकर्मैव न कुर्याद्यत्र तत्र तु
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ॥८॥
तस्मादवश्यं कर्त्तव्यमीश्वरं साक्षिकारिणा ॥९॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने जलोदरचिकित्सा नाम सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP