संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
एकोनत्रिंशोऽध्यायः

तृतीयस्थानम् - एकोनत्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
एलाशिलाजतुयुतं मागधिकापाषाणभेदसञ्चूर्णम्
तण्डुलजलेन पीतं प्रमेहरोगं हरत्येव ॥१॥
एरण्डमूलपाषाणभेदगोक्षुरकास्तथा
एलाटरूषपिप्पल्यो यष्टीमधुसमन्विताः ॥२॥
एषां क्वाथं पिबेज्जन्तुः शिलादित्येन योजितम्
अश्मरीशर्करायाञ्च शर्करायाः पलद्वयम् ॥३॥
सुशीतलं जलं कर्षमात्रं स्यान्मूत्रकृच्छ्रहृत्
दध्यम्बुना च सम्मिश्रमयश्चूर्णं सुखप्रदम् ॥४॥
मूत्रकृच्छ्रेयवक्षार चूर्णं हिंगुप्रयोजितम्
कूष्माण्डं च समादाय शर्करासहितं पिबेत् ॥५॥
यो हि त्रिदोषसम्भूतमूत्रकृच्छ्रनिवारणः
पिबेच्छतावरीमूलं शीतपानीयचूर्णितम् ॥६॥
अतः शर्करारोगार्त्ते शर्करां सम्प्रयोजयेत्
आरग्वधफलं मूलं दुरालभा धान्यकशतावर्यः ॥७॥
पाषाणभेदपथ्ये क्वाथोऽयं मूत्रकृच्छ्रे स्यात् ॥८॥
पाषाणभेदस्त्रिवृता च पथ्या दुरालभा गोक्षुरपुष्करं वा
एला सकुरुण्टककर्कटीजं बीजं कषायः सुनिरुद्धमूत्रे ॥९॥
कुलत्थयुक्तः पटोलीमूलकषायः प्रतिपाकः
पुष्करमूलमिश्रः प्रमेहपाषाणरोगघ्नः स्यात् ॥१०॥
यो मातुलुङ्गिकामूलं पिबेत् पर्युषिताम्बुना
तस्यान्तः शर्करोद्भूतं दुःखं सद्यो विलीयते ॥११॥
गवां तक्रेण सम्पिष्टं क्षिप्रनामकमौषधम्
पिबेच्चिरेण तक्रञ्च शर्करादोषदूषितः ॥१२॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने मूत्रकृच्छ्रचिकित्सा नामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP