संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
एकोनपञ्चाशत्तमोऽध्यायः

तृतीयस्थानम् - एकोनपञ्चाशत्तमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच प्रथमे मासि यष्टीमधुपरुषकं मधुपुष्पाणि यथा लाभम् नवनीतेन पयो मधु मधुरं पाययेच्च ॥१॥
द्वितीये मासि काकोली मधुरं पाययेत्तथा तृतीये कृशरा श्रेष्ठा चतुर्थे च कृतौदनम् ॥२॥
पञ्चमे पायसं दद्यात् षष्ठे च मधुरं दधि सप्तमे घृतखण्डेन चाष्टमे घृतपूरकम् ॥३॥
नवमे विविधान्नानि दशमे दोहदं तथा मासे तृतीये सम्प्राप्ते दोहदं भवति स्त्रियः ॥४॥
यद्यत् कामयते सा च तत्तद्दद्याद्भिषग्वरः ॥५॥
वर्जयेद्द्विदलान्नानि विदाहीनि गुरूणि च अम्लानि सोष्णक्षीराणि गुर्विणीनां विवर्जयेत् ॥६॥
मृत्तिका भक्षणीया न न च सूरणकन्दकाः रसोनश्च पलाण्डुश्च सन्त्याज्यो गुर्विणीस्त्रिया ॥७॥
सूरणानि प्रदेयानि गौल्यानि सरसानि च पथ्ये हितानि चैतानि गुर्विणीनां सदा भिषक् ॥८॥
व्यायामं मैथुनं रोषं शोषं चंक्रमणं तथा वर्जयेद्गुर्विणीनाञ्च जायन्ते सुखसम्पदः ॥९॥
अथोपपन्नं विहितमपि स्वकीयाचारेण पञ्चमासिकमटमासिकं वा ब्राह्मणमङ्गलादिभिर्गोत्रभोजनमपि कर्त्तव्यम् दोहदादिषु परिपूर्णेषु रूपवान् शूरः पण्डितः शीलवान्पुत्रो जायते ॥१०॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने गर्भोपचारो नाम एकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP