संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
षट्त्रिंशोऽध्यायः

तृतीयस्थानम् - षट्त्रिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच
व्रणोक्तैरुपचारैश्च जायते श्लीपदं तथा
वातेन स्फुटितं रूक्षं श्यामञ्चापि प्रदृश्यते ॥१॥
सदाहपाकं पित्तेन सज्वरञ्चैव दृश्यते
श्लेष्मणा जायते स्निग्धं घनं शोफसमन्वितम् ॥२॥
सन्निपातेन सर्वाणि जायन्ते भिषजांवर
मेदाश्रितं तु वाल्मीकं वल्मीकवत् प्रदृश्यते ॥३॥
सदृशानि च चिह्नानि वातिकोत्थानि लक्षयेत्
तस्य व्रणोक्ताः क्रियाश्च कारयेद्विधिपूर्विकाः ॥४॥
जात्यादि च घृतं शस्तं तथैवालेपनानि च
पुनः प्रलेपनं कार्यं धवार्जुनकदम्बकैः अ ॥५॥
गिरिकर्णिकामूलञ्च तथा वृक्षादनीमपि
पिष्ट्वा प्रलेपनं कार्यं वाल्मीकश्लीपदस्य च ॥६॥
सूरणकन्दकं पिष्ट्वा मधुना च घृतेन च
लेपनं च हितं तस्य वाल्मीकश्लीपदापहम् ॥७॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने श्लीपदचिकित्सा नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP