संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्|
सप्तचत्वारिंशोऽध्यायः

तृतीयस्थानम् - सप्तचत्वारिंशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


आत्रेय उवाच क्लैब्यं पञ्चविधं प्रोक्तं समासेन शृणुष्व मे ॥१॥
निरोधातिव्यवायेन वयःश्रान्तेऽपि मानवे जायते रेतसो हानिः क्लीबत्वञ्चापि जायते ॥२॥
त्रिविधं जायते क्लैब्यं मानसं रेतसः क्षयात् सहजं शुष्कसंस्वेदाज्जायते क्लीबता नरे ॥३॥
यस्य वै ममता चित्ते दृष्ट्वा स्त्रीणां विरागिताम् स्पर्शने स्वेदकं पञ्च तत्साध्यं मानसं स्मृतम् ॥४॥
यस्य विद्वेषतः स्त्रीणां व्यवायेन मनःक्षितिः ध्वजभङ्गो भवेच्छीघ्रं तत्क्लैब्यं रेतसः क्षयात् ॥५॥
समप्रकृतिर्यस्यान्यः सोऽप्यसाध्यतमः स्मृतः मनःक्षये मनोद्रेको मुग्धस्त्रीसहसङ्गमः ॥६॥
सरागविभ्रमकथालापैः संवर्द्धते मनः शुक्रक्षये शुक्रवृद्धिं कथयिष्यामि साम्प्रतम् ॥७॥
विदारिकागोक्षुरमूषकानां धात्रीफलं स्यात्सहसैन्धवानाम् समानि चैतानि च मागधीनां युक्तं सिताढ्यं पयसा पिबेच्च ॥८॥
विषं बृहत्यौ मगधात्रिकण्टास्तथात्मगुप्ता सशतावरी च सशर्करं गोपयसो घृतेन पानं नराणां प्रकरोति बीजम् ॥९॥
यवगोधूममाषाणां निस्तुषाणाञ्च चूर्णकम् दुग्धेनेक्षुरसेनापि संस्कृत्य तु घृतेन तु ॥१०॥
पाचितं वटकश्रेष्ठं भक्षयेत्प्रातरुत्थितः तस्योपरि पयःपानं पिप्पलीशर्करान्वितम् ॥११॥
यवक्षारविदारीञ्च माषचूर्णं तथा यवान् मरिचानां सिताढ्यञ्च घृतानाञ्च प्रपोलिकाम् ॥१२॥
पाचयेद्भक्षयेत्प्रातः पयःपानं तथोपरि वीर्यञ्च कुरुते पुंसां वनिता रमते भृशम् ॥१३॥
गुडूची शतमूली च स्वयंगुप्ता बला तथा ॥१४॥
शाल्मली मुसलीमूलं चूर्णं गोपयसान्वितम् पानं नराणां श्रेष्ठं तु बीजमिन्द्रियकारकम् ॥१५॥
विदारिकन्दांशुमती बृहत्यौ काकोलिका भीरु पुनर्नवे द्वे शृङ्गाटकं मागधिका बला च चूर्णं सिताढ्यं सितया प्रयोज्यम् ॥१६॥
जीर्णे पयः पायसमेव योज्यं करोति पुंसां बलमेवमोजः स्त्रीणां सहस्रं भजतेऽपि षण्ढो मासद्वयेप्रस्तुतमेव शस्तम् ॥१७॥
वर्जयेत्कटुकं चाम्लं तीक्ष्णं चोष्णं विदाहि च रूक्षं वापि च सौवीरं प्रोक्तानि चेन्द्रियक्षतौ ॥१८॥
पलाण्डुयवनं कन्दांस्तिलान्माषान्यथाबलम् तथौदनं विशालीनां दुग्धं चेक्षुरसं तथा ॥१९॥
वास्तुकं चिल्लकानाञ्च पथ्ये शुक्रक्षयादपि वर्जित्वा सूरणं शुण्ठी योगयुक्तो न योजयेत् ॥२०॥

इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने वाजीकरणं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : February 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP