चतुर्थः पाद: - सूत्र ३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तत्प्राक्श्रुतेश्च ॥३॥

तत्प्राक्श्रुतेश्च ॥ इतश्चाकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुति: ।
यज्जायत इत्येकं जन्मवाचि पदं प्राणेषु प्राक्क्षुतं सदुत्तरेष्वाकाशादिष्वनुवर्तत एतस्माज्जायते प्राण इत्यत्राकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितं तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति ।
न हयेकस्मिन्प्रकरण एकस्मिंश्च वाक्य एक: शब्द: सकृदुच्चरितो बहुभि: संबध्यमान: क्वचिन्मुख्य: क्वचिद्नौण इत्यध्यवसातुं शक्यम् ।
वैरूप्यप्रसङ्गात् ।
तथास प्राणमसृजत प्राणाच्छ्रुद्धामित्यत्रापि प्राणेषु श्रुत: सृजति: परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते ।
यत्रापि पश्चाच्छ्रुत उत्पत्तिवचन: शब्द: पूर्वै: संबध्यते तत्राप्येष एव न्याय: ।
यथा सर्वाणी भूतानि व्युच्चरन्तीत्ययमन्ते पठितो ब्युच्चरन्तिशन्द: पूर्वैरपि प्राणादिभि: संबध्यते ॥३॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP