चतुर्थः पाद: - सूत्र १

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तथा प्राणा: ॥१॥

वियदादिविषय: श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृत: ।
चतुर्थेनेदानीं प्राणविषय: परिहिरयते ।
तत्र तावत्तत्तेजोऽसृजतेति तस्माद्वा एतस्मादात्मन आकाश: संभूत इति चैवमादिषूत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्नान्नायते ।
क्वचिच्चानुत्पत्तिरेवैषामान्नायते ।
असद्वा इदमग्र आसीत्तदाहु: किंतदसदासीदित्यृषयो वाव ते‍ऽग्रेऽसदासीत् ।
तदाहु: के ते ऋषय इति ।
प्राणा वाव ऋषय इति ।
अत्र प्रागुत्पत्ते: प्राणानां सद्भावश्रवणात् ।
अन्यत्र तु प्राणानामप्युत्पत्ति: पठयते ।
यथाग्नेर्ज्वलत: क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मन: सर्वे प्राणा इति ।
एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि चेति ।
सप्तप्राणा: प्रभवन्ति तस्मादिति ।
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिराप: पृथिवीन्द्रियं मनोऽन्नमिति चैवमादिप्रदेशेषु ।
तत्र तत्र श्रुतिविप्रतिषेषादन्यतरनिर्धारणकारणानिरूपणाच्चाप्रतिपत्ति: प्राप्नोति ।
अथवा प्रागुत्पत्ते: सद्भावश्रवणाद्नौणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोति ।
अत उत्तरमिदं पठति ।
तथा प्राणा इति ।
कथं पुनरत्र तथेत्यक्षरानुलोम्यं प्रकृतोपमानाभावात् ।
सर्वगतात्मबहुत्ववादिदूषणमतीतानन्तरपादान्ते प्रकृतं तत्तावन्नोपमानं संभवति सादृश्याभावात् ।
सादृश्ये हि सत्युपमानं स्यात् ।
यथा सिंहस्तथा बलवर्मेति ।
अदृष्टसाम्य प्रतिपादनार्थमिति यद्युच्येत यथाऽदृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वमेवं प्राणानामपि सर्वात्मन:  प्रत्यनियतत्वमिति ।
तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् ।
न च जीवेन प्राणा उपमीयेरन्सिद्धान्तविरोधात् ।
जीवस्य हयनुत्पत्तिराख्याता ।
प्राणानां तूत्पत्तिराचिख्यासिता ।
तस्मात्तथेत्यसंबद्धमिव प्रतिभाति । न ।
उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्ते: ।
अत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम् - एतस्मादात्मन: सर्वे प्राणा: सर्वे लोका: सर्वे देवा: सर्वाणि भूतानि च व्युच्चरन्त्येवंजातीयकम्‌ ।
तत्र यथा लोकादय: परस्मादब्रम्हाण उत्पद्यन्ते तथा प्राणा अपीत्यर्थ: ।
तथा एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च ।
खं वायुर्जोतिराप: पृथिवी विश्वस्य धारिणीत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरितिद्रष्टव्यम् ।
अथवा पानव्यापच्च तद्वदित्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात्।
यथातीतानन्तरपादाद्युक्ता वियदादय: परस्य ब्रम्हाणो विकारा: समधिगतास्तथा प्राणा अपि परस्य ब्रम्हाणो विकारा इति योजयितव्यम्‌ ।
क: पुन: प्राणानां विकारत्वे हेतु: ।
श्रुतत्व मेव ।
ननु केपुचित्प्रदेशेषु न प्राणानामुत्पत्ति: श्रूयत इत्युक्तम् ।
तदयुक्तम् ।
प्रदेशान्तरेषु श्रवणात् ।
न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते ।
तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्ते इति सूक्तम् ॥१॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP