चतुर्थः पाद: - सूत्र १३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अणुश्च ॥१३॥

अणुश्च । अणुश्चायं मुख्य: प्राण: प्रत्येतव्य: । इतरप्राणवत् ।
अणुत्वं चेहापिसौक्ष्म्यपरिच्छेदौ न परमाणुतुल्यत्वम् ।
पञ्चभिर्वृत्तिभि: कृत्स्नशरीरव्यापित्त्वात्सूक्ष्म: प्राण: ।
उत्क्रान्तौ पार्श्वस्यंनानुपलभ्यमानत्वात् ।
परिच्छिन्नश्चोत्क्रान्तिगत्यागतिश्रुतिभ्य: ।
ननु विभुत्वमपि प्राणस्य समान्नायते सम: प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकै समोऽनेन सर्वेणेत्येवमादिप्रदेशंषु । तदुच्यत ।
आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेण प्राणात्मनैवेतद्विभुत्वमान्नायते नाध्याम्तिकेन ।
अपि च सम: प्लुषिणेत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिन: प्राणस्य परिच्छेद एव प्रदर्श्यते तस्माददोष: ॥१३॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP