चतुर्थः पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॥१७॥

त इन्द्रियाणि तद्वयपदेशादन्यत्र श्रेष्ठात् ॥ मुख्यश्चैक इतरे चैकादश प्राणा अनुक्रान्ता: ।
तत्रेदमपरं संदिहयते ।
किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणा आहोस्वित्तत्त्वान्तराणीति ।
किं तावत्प्राप्तं मुख्यस्यैवेतरे वृत्तिभेदा इति ।
कुत: । श्रुते । तथाहि श्रुतिर्मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन्निति ।
प्राणैकशब्द त्वाच्चैकत्वाध्यवस्या: ।
इतरथा हयन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत ।
एकत्र वा मुख्यत्वमितरत्र वा लाक्षणिकत्वमापद्येत ।
तस्माद्यथैकस्यैव प्राणस्य प्राणाद्या: पञ्चवृत्तय एवं वागाद्या अप्येकादशेति ।
एवं प्राप्ते ब्रूम: । तत्त्वान्तराण्येव प्राणाद्वागादीनीति ।
कुत: । व्यपदेशभेदात् ।
को‍ऽयं व्यपदेशभेद: ।
ते प्रकृता: प्राणा: श्रेष्ठां वर्यजित्वावशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते ।
श्रुतावेवं व्यपदेशदशनात् ।
एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि चेति हयेवंजातीयकेषु प्रदेशेषु पृथक्प्राणो व्यपदिश्यते पृथक्चेन्द्रियाणि ।
ननु मनसोऽप्येवं सति वर्जनमिन्द्रियत्वेन प्राणवत्स्यान्मन: सर्वेन्द्रियाणि चेति पृथग्व्यपदशेदर्शनात् ।
सत्यमेतत् । स्मृतौत्वेकादशेन्द्रियाणीति मनोऽपीन्द्रियत्वेन श्रोत्रादिवत्संगृहयते ।
प्राणस्य त्विन्द्रियत्वं न श्रुतौ स्मृतौ वा  प्रसिद्धमस्ति \
व्यपदेशभेदश्चायं तत्त्वभेदपक्ष उपपद्यते ।
तत्त्वैकत्वे तु स एवैक: सन्प्राण इन्द्रियव्यपदेशं लभते न लभते चिति विप्रतिषिद्धम् ।
तस्मात्तत्त्वान्तरभूता मुख्यादितरे ॥१७॥


Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP