चतुर्थः पाद: - सूत्र ६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


हस्तादयस्तु स्थितेऽतौ नैवम् ॥६॥

अत्रोच्यते । हस्तादयस्तु स्थितेऽतो नैवम् ॥
हस्तादयस्त्वपरे सप्तभ्य़ोऽतिरिक्ता: प्राणा: श्रूयन्त हस्तौ ग्रह: स कर्मणाऽतिग्रहेण गृहीतो इस्ताभ्यां हि कर्म करोतीत्येवमाद्यासु श्रुतिषु ।
स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संबावयितुम् ।
हीनाधिकसंख्याविप्रतिपत्तौ हयधिका संख्या संग्राहया भवति ।
तस्यां हीनान्तर्भवति न तु हीनायामथिका ।
अतश्च नैवं मन्तव्यं स्तोककल्पनानृरोधात्सप्तैव प्राणा: स्युरिति ।
उत्तरस्म्ख्यानुरोधात्त्वेकादशैव ते प्राणा: स्यु: ।
तथा चोराह्रता श्रुतिर्दशेमे पुरुषे प्राणा आस्मैकादश इति ।
आत्मशाब्देन चात्रान्त: करणं परिगृहयते करणाधिकारात्।
नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाह्रते ।
सत्यमुदाह्रते न त्वेकादशभ्य: कार्यजातेभ्योऽधिकं कायजातमस्ति यदर्थंमधिकं करणं कल्प्येत ।
शब्दस्पर्शरूपरसगन्धविषया: पञ्च बुद्धिभेदास्तदथांनि पञ्च बुद्धीन्द्रिस्तदथांनि पञ्च बुद्धीन्द्रियणि ।
वचनादानविहरणोत्सर्गांनन्दा: पञ्च कर्मभेदास्तदर्थांनि च पञ्च कर्मेन्द्रियाणि ।
अर्वार्थविषयं त्रैकाल्यवृत्ति मनस्त्वेकमनेकतृत्तिकम् ।
तदेव तृत्तिभेदात्क्वचिद्भिन्नवद्यपदिश्यते मनो बुद्धिरहंकारश्चित्तं चेति ।
तथा च श्रुति: कामाद्या नानविधा वृत्तीरनुक्रम्याह - एतत्सर्व मन एवेति ।
अपि च सप्तैव शीर्षण्यान्प्राणानभिमन्यमान य चत्वार एव प्राणा अभिमता: स्पु: ।
स्थानभेदाद्धयेते चत्वार: सन्त: सप्त गण्यन्ते द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वागिति ।
न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम् ।
हस्तादिवृत्तीनामत्यन्तविजातीयत्वात् ।
तथा नव वै पुरुषे प्राणा नाभिर्दशमीत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा डच्यन्ते न प्राणतत्त्वभेदाभिप्रायेण ।
नाभिर्दशमीति वचनात् ।
न हि नाभिर्नाम कश्चित्प्राण: प्रसिद्धोऽस्ति ।
मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते ।
क्वचिदुपासनार्थ कतिचित्प्राणा गण्यन्ते क्चचित्प्रहर्शानार्थम् ।
तदेवं विचित्रे प्राणेयत्तान्नाने सति कृ किं परमानानमिति विवेक्तव्यम्।
कार्यजातवशात्त्वेकादसत्वान्नानं प्राणविषयं प्रमाणमिति स्थितम् ।
इयमपरा सूत्रद्वययोजना ।
सप्तौव प्राणा: स्युर्यत: सप्तानामेव गति: श्रूयते तमुत्क्रामन्तं प्राणोनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अणुत्क्रामन्तीत्यत्र ।
ननु सर्वशब्दोऽप्यत्र पठयते तत्कथं सप्तानामेव गति: प्रतिज्ञायत इति ।
विशेषितत्वादित्याह ।
सप्तैव हि प्राणाश्रक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृता: स यत्रैष चाक्षुच: पुरुष: पराङ्पर्यावर्ततेऽथारूपज्ञो भवत्येकीभवति न पश्यतीत्याहुरित्येवमादिनानुक्रमणेन ।
प्रकृतगामी च सर्वशब्दो भवति ।
यथा सर्वे ब्राम्हाणा भोजयितव्या इति ये निमन्त्रिता: प्रकृता ब्राम्हाणास्त एव सवशब्देनोच्यन्ते नान्ये ।
एवमिहापि ये प्रकृता: सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते नान्य इति ।
नन्वत्र विज्ञानमष्टममनुक्रान्तं कथं सप्तानामेवानुक्रमणम् ।
नैष दोष: ।
मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्तत्वोपपत्ते: ।
तस्मात्सप्तैव प्राणा इति ।
एवं प्राप्ते ब्रूम: ।
हस्तादयस्त्वपरे सप्तभोऽतिरिक्ता: प्राणा: प्रतीयन्ते हस्तौ  वै ग्रह इत्यादिश्रुतिषु ।
ग्रहत्वं च चन्धनभावो गृहयते बध्यते क्षेत्रज्ञो‍ऽनेन ग्रहसंज्ञकेन बन्धनेनेति ।
स च क्षेत्रज्ञा नैकस्मिन्नेव शरीरे बध्यते शरीरान्तरेष्वपि तुल्यत्वाद्बन्धन स्य ।
तस्माच्छरीरान्तरसंचारीदं ग्रहसंज्ञकं बन्धनमित्यर्थांदृक्तं भवति ।
तथा च स्मृति: पुर्यष्टकेन लिड्गेन प्राणाद्येन स युज्यते ।
तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन चेति न प्राङमोक्षादग्रहसंज्ञकेनानेन बन्धनेनावियोगं दर्शयति ।
आथर्वणे च विषयेन्द्रियानुक्रमणे चक्षुश्च द्रष्टव्यं चेत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति  हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं चेति ।
तथा दशेमे पुरुषे प्राणा आत्मैकारदशस्ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्तीत्येकादशानां प्राणानामुक्त्रन्तिं दर्शयति ।
सर्वशब्दोऽपि च प्राणशब्देन संबध्यमानोऽबेबान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्त्रेवावस्थापयितुं शक्यते प्रकरणाच्छब्दस्य च बलीयस्त्वात् ।
सर्वे ब्राम्हाणा भोजयितव्या इत्यत्रापि सर्वेषामेवावनिवर्तिनां ब्राम्हाणानां ग्रहणं न्याय्यं सर्वशब्दसामर्थ्यात्।
सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता ।
इह तु न किंचित्सर्वशब्दार्थसंकोचने कारणमस्ति ।
तस्मात्सर्वसाब्देनात्राशेषाणां प्राणानां परिग्रह: ।
प्रदर्शनार्थं च सप्तानामनुक्रमणमित्यनवद्यम् ।
तस्मादेकादशैव प्राणा: शब्दत: कार्यतश्चेति सिद्धम् ॥६॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP