चतुर्थः पाद: - सूत्र १०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


चक्षुरादिवत्तु तत्सहशिष्टयादिभ्य: ॥१०॥

स्यादेतत् । प्राणो‍ऽपि तर्हि जीववदस्मिञ्शरीरे स्वातन्त्र्यं प्राप्नोति ।
श्रेष्ठत्याद्रुणबावोपगमाच तं प्रति वागादीनामिन्द्रियाणाम् ।
तथा हयनेकविधा विभूति: प्राणस्य श्राव्यते ।
सुप्तेषु वागादिषु प्राण एको हि जागर्ति प्राण एका मृत्युनाऽनाप्त: प्राण: संवर्गो वागादीन्संवृङक्ते प्राण इतरान्प्राणान्नक्षति मातेव पुत्रानिति ।
तस्मात्प्राणस्यापि जीववत्स्वातन्त्र्यप्रसङ्ग: ।
तं परिहरति ।
चक्षुरादिवत्तु तत्सहशिष्टयादिभ्य: ॥
तुशब्द: प्राणस्य जीववत्स्वातन्त्र्यं व्यावर्तयति ।
यथा चक्षुरादीनि राजप्रकृतिवज्जीवस्य कर्तृत्वं भोक्तृत्वं च प्रत्युपकरणानि न स्वतन्त्राणि तथा मुख्योऽपि प्राणो राजमन्त्रिवज्जीवस्य सर्वांर्थकरत्वेनोपकरणभूतो न स्वतन्त्र: । कुत: ।
तत्सहशिष्टयादिभ्य: । तैश्चक्षुरादिभि: सहैव प्राण: शिष्यते प्राणंसत्रासादिषु ।
समानधर्मणां च सहशासनं युक्तं बृहद्रथन्तरादिवत् ।
आदिशब्देन संदतत्वाचेतनतवादीन्प्राणस्य स्वातन्त्र्यनिराकरणहंतून्दर्शयति ॥१०॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP