चतुर्थः पाद: - सूत्र १२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥१२॥

पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥ इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु प्राणोऽपानो व्यान उदान: समान इति ।
वृत्तिभेदश्चायं कार्यभेदापेक्ष: ।  प्राण: प्राग्वृत्तिरुच्छ्वासादिकर्मा ।
अपानोऽवाग्वृत्तिर्नि: श्वासादिकर्मा ।
व्यानस्तयो: सन्धौ वर्तमानो वीर्यवत्कर्महेतु: । उदान ऋर्ध्ववृत्तिरुत्कान्त्यादिहेतु: ।
समान: समं सर्वेष्वङ्गेषु योऽन्नरसान्नयतीति ।
एवं पञ्चवृत्ति: प्राणो मनोवत् ।
यथा मनस: पञ्च वृत्तय एवं प्राणस्यापीत्यर्थ: ।
श्रोत्रादि निमित्ता: शब्दादिविषया मनस: पञ्च वृत्तय: प्रसिद्धा: ।
न तुकाम: संकल्प इत्याद्या: परिपठिता: परिगृहयेरन् ।
पञ्चसंख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिरपक्षा भूतभविष्यदादिविषयाऽपरा मनसो वृत्तिरस्तीति समान: पञ्चसंख्यातिरेक: ।
एवं तर्हि परमतमप्रतिषिद्धमनुमतं भवतीति न्यायादिहापि योगशास्त्रप्रसिद्धा मनस: पञ्च वृत्तय़: परिगृहयन्ते प्रणाणविपर्ययविकल्पनिद्रास्मृतयो नाम ।
बहुवृत्तित्वमात्रेण वा मन: प्राणस्य निदर्शनमिति द्रष्टव्यम् ।
जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मवोवदिति योजयितव्यम् ॥१२॥


Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP