चतुर्थः पाद: - सूत्र १५-१६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्राणवता शब्दात् ॥१५॥

यदप्युक्तं देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गो न शारीरस्येति तत्परिहियते ।
प्राणवता शब्दात् ॥
सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्रावणता कार्यकरणसंघातस्वामिना शारीरेणैवैषां प्राणानां सबन्ध: श्रुतेरवगम्यते ।
तथा हि श्रुति: ।
अथ यत्रैतदाकाशामनुविषण्णं चक्षु: स चाक्षुष: पुरुषो दर्शनाय चक्षुरथ यो वेदेवं जिघ्राणीति स आत्मा गन्धाय घ्राणमित्येवंजातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति ।
अपि चानेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वमस्मिव्शरीरेऽवकल्पते ।
एको हयेवमस्मिञ्शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते ॥१५॥

तस्य च नित्यत्वात् ॥१६॥

तस्य च नित्यत्वात् ॥ तस्य च शारीरस्यास्मिञ्शरीरे भोक्तृत्वेन नित्यत्वं पुण्यपापोपलेपसंभवात्सुखदु:खोपभोगसंभवाच्च न देवतानाम् ।
ता हि परीस्मन्नैश्चर्ये पदे‍ऽवतिष्ठमाना न हीनेऽस्मिञ्शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति ।
श्रुतिश्च भवति पुण्यमे बामुं गच्छति  न ह वै देवान्पाप गच्छतीति ।
शारीरेणैव च नित्य: प्राणानां संबन्ध: ।
उत्क्रान्यादिषु तदनुवृत्तिदर्शनात् ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमणुत्क्रामन्तं सर्वे प्राणा अणुत्क्रामन्तीत्यादिश्रुतिभ्य: ।
तस्मात्सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति ।
करणपक्षस्यैव हि देवता न भोक्तृपक्षस्योति ॥१६॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP