चतुर्थः पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


गौण्यसंभवात् ॥२॥

गौण्यसंभवात् ॥ यत्पुनरुक्तं प्रागुत्पत्ते: सद्भावश्रवणाद्नौणी प्राणानामुत्पत्तिश्रुतिरिति तत्प्रत्याह गौण्यसंभवादिति ।
गौण्या असंभवो गौण्यसंभव: ।
न हि प्राणा नामुत्पत्तिश्रुतिर्णौणी संभवति ।
प्रतिज्ञाहानिप्रसङ्गात् ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति हयेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमान्नायते - एतस्माज्जायते प्राण इत्यादि ।
सा च प्रतिज्ञा प्राणादे: समस्तस्य जगतो ब्रम्हाविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यति ।
गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञेतं हीयेत ।
तथा च प्रतिज्ञातार्थमुपसंहरति पुरुष एवेदं विश्चं कर्म तपो ब्रम्हा परामृतमिति ।
ब्रम्हौवेदं विश्वमिदं वरिष्ठमिति च ।
तथा - आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितमित्येवंजातीयकासु श्रुतिष्वेषैव प्रतिज्ञा योजयितव्या ।
कथं पुन: प्रागुत्पत्ते: । प्राणानां सद्भावश्रवणम् ।
नैतन्मूलप्रकृतिविषयम् ।
अप्राणो हयमना: शुभ्रो हयक्षरात्परत: पर इति मूलप्रकृते:  प्राणादिसमस्तविशेषरहितत्वावधारणात् ।
अवान्तरप्रकृतिविषयं त्वेतत्स्वविकारापेक्षं प्रागुत्पत्ते: प्राणानां सद्भावावधारणमिति द्रष्टव्यम् ।
व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्यो: प्रकृतिविकारभावप्रसिद्धे: ।
वियदधिकरणे हि गौण्यसंभावादिति पूर्वपक्षसूत्रत्वाद्नौणी जन्मश्रुतिरसंभवादिति व्याख्यातम् ।
प्रतिज्ञाहान्या च तत्र सिद्धान्तोऽभिहित: ।
इह तु सिद्धान्तसूत्रत्वाद्नौण्या जन्मश्रुतेरसंभवादिति व्याख्यातम् ।
तदनुरोधेन त्विहापि जन्मश्रुतिरसंभवादिति व्याचक्षाणै: प्रतिज्ञाहानिरुषेक्षिता स्यात् ॥२॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP