चतुर्थः पाद: - सूत्र २१-२२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


वैशेष्यात्तु तद्वादस्तद्वाद: ॥२१॥

अणिष्ठं तु मन: । एवमितरयोरप्तेजसोर्यंथाशब्दं कार्यमवगन्तव्यम् ।
एवं मूत्रं लोहितं प्राणश्चापां कार्यम् ।
अस्थिमज्जा वाक तेजस इति ॥२१॥

वैशेष्यात्तु तद्वादस्तद्वाद: ॥२२॥

अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति ।
किं कृतस्तहर्ययं विशेषव्यपदेश इदं तेज इमा आप इदमन्नमिति ।
तथा अध्यात्ममिदमन्नस्यासितस्य कार्यं मांसादि ।
इदमपां पीतानां कार्यं लोहितादि ।
इदं तेजसोऽशितस्य कार्यमस्थ्यादीति ।
अत्रोच्यते ॥
वैशेष्यात्तु तद्वादस्तद्वाद: ।
तुशब्देन चोदितं दोषमपनुदति ।
विशेषरय भावो विशेष्यं भूयस्त्वमिति यावत् ।
सत्यपि त्रिवृत्करणे क्कचित्कस्यचिद्‌भूतधातोर्भूयस्त्वमुपलभ्यतेऽग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वमिति ।
व्यवहारप्रसिद्धयर्थं चेदं त्रिवृत्करणम् ।
व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वपत्तौ सत्यां न भेदेन भृतत्रयगोचरो लोकस्य प्रसिध्येत् ।
तस्मात्सत्यपि त्रिवृत्करणे विशेष्यादेव तेजोऽबन्नविसेषवादो भूतभौतिकविषय उपपद्यते ।
तद्वादस्तद्वाद इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥२२॥

इति श्रीमच्छारीरकमीमांसाभाष्ये शङ्करभगवत्पादकृतौ द्वितीयस्याध्यायस्य चतुर्थ: पाद: ॥४॥

अध्यावश्च समाप्त: ।
महाराष्ट्रतात्पर्योपेतश्रीमच्छंकराचार्यप्रणीतशारीरभाष्यसमेतानि ।


N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP