TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
क्रियापादः

कात्यायनस्मृतिः - क्रियापादः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


क्रियापादः
कारणात्पूर्वपक्षोऽपि ह्युत्तरत्वं प्रपद्यते ।
अतः क्रिया तदा प्रोक्ता पूर्वपक्षप्रसाधिनी ॥२११॥

शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वापि क्रियाकरणं इष्यते ॥२१२॥

वादिना यदभिप्रेतं स्वयं साधयितुं स्फुटम् ।
तत्साध्यं साधनं येन तत्साध्यं साध्यतेऽखिलम् ॥२१३॥
प्रमाणानि, तेषां च बलाबलादिविचारः

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं विदुः ।
लेशोद्देशस्तु युक्तिः स्याद्दिव्यानीह विषादयः ॥२१४॥

पूर्ववादेऽपि लिखिते यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥२१५॥

कार्यं हि साध्यं इत्युक्तं साधनं तु क्रियोच्यते ।
द्विभेदा सा पुनर्ज्ञेया दैविकी मानुषी तथा ।
मानुषी लिख्यसाक्ष्यादिर्वधादिर्दैविकी मता ॥२१६॥

संभवे साक्षिणां प्राज्ञो दैविकीं वर्जयेत्क्रियाम् ।
संभवे तु प्रयुञ्जानो दैविकीं हीयते ततः ॥२१७॥

यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान्न तु दैवीं क्रियां नृपः ॥२१८॥

यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥२१९॥

पञ्चप्रकारं दैवं स्यान्मानुषं त्रिविधं स्मृतम् ॥२२०॥

क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते ।
स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ॥२२१॥

सारभूतं पदं मुक्त्वा असाराणि बहून्यपि ।
संसाधयेत्क्रिया या तु तां जह्यात्सारवर्जिताम् ।
पक्षद्वयं साधयेद्या तां जह्याद्दूरतः क्रियाम् ॥२२२॥

क्रिया न दैविकी प्रोक्ता विद्यामानेषु साक्षिषु ।
लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ॥२२३॥

कालेन हीयते लेख्यं दूषितं न्यायतस्तथा ।
अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥२२४॥

पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥२२५॥

द्वारमार्गक्रियाभोग जलवाहादिके तथा ।
भुक्तिरेव हि गुर्वी स्यान्न लेख्यं न च साक्षिणः ॥२२६॥

दत्तादत्तेऽथ भृत्यानां स्वामिना निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनं अयच्छति ॥२२७॥

द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥२२८॥

प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव वा ॥२२९॥

गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम् ।
युक्तिचिह्नेङ्गिताकार वाक्चक्षुश्चेष्टितैर्नृणाम् ॥२३०॥

उत्तमेषु च सर्वेषु साहसेषु विचारयेत् ।
सद्भावं दिव्यदृष्टेन सत्सु साक्षिषु वै भृगुः ॥२३१॥

समत्वं साक्षिणां यत्र दिव्यैस्तत्रापि शोधयेत् ।
प्राणान्तिकविवादेषु विद्यामानेषु साक्षिषु ।
दिव्यं आलम्बते वादी न पृच्छेत्तत्र साक्षिणः ॥२३२॥

ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥२३३॥

चोदना प्रतिकालं च युक्तिलेशस्तथैव च ।
तृतीयः शपथः प्रोक्तः तैरृणं साधयेत्क्रमात् ॥२३४॥

अभीक्ष्णं चोद्यमानोऽपि प्रतिहन्यान्न तद्वचः ।
त्रिः चतुः पञ्चकृत्वो वा परतोऽर्थं समाचरेत् ॥२३५॥

चोदनाप्रतिघाते तु युक्तिलेशैः समन्वियात् ।
देशकालार्थसंबन्ध परिमाणक्रियादिभिः ॥२३६॥

युक्तिष्वप्यसमर्थासु शपथैरेव निणयेत् ।
अर्थकालबलापेक्षैरग्न्यम्बुसुकृतादिभिः ॥२३७॥

यत्र स्यात्सोपधं लेख्यं तद्राज्ञः श्रावितं यदि ।
दिव्येन शोधयेत्तत्र राजा धर्मासनस्थितः ॥२३८॥

वाक्पारुष्ये च भूमौ च दिव्यं न परिकल्पयेत् ॥२३९॥

स्थावरेषु विवादेषु दिव्यानि परिधारयेत् ।
साक्षिभिर्लिखितेनार्थे भुक्त्या चैव प्रसाधयेत् ॥२४०॥

प्रमाणैर्हेतुना वापि दिव्येनैव तु निश्चयम् ।
सर्वेष्वेव विवादेषु सदा कुर्यान्नराधिपः ॥२४१॥

लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
अनुमानं विदुर्हेतुं तर्कं चैव मनीषिणः ॥२४२॥

पूर्वाभावे परेणैव नान्यथैव कदाचन ।
प्रमाणैर्वादिनिर्दिष्टैर्भुक्त्या लिखितसाक्षिभिः ॥२४३॥

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ॥२४४॥

मिथ्योक्तौ स चतुष्पात्स्यात्प्रत्यवस्कन्दने तथा ।
प्राङ्न्याये स च विज्ञेयो द्विपात्संप्रतिपत्तिषु ॥२४५॥

पराजयश्च द्विविधः परोक्तः स्वोक्त एव च ।
परोक्तः स्याद्दशविधः स्वोक्त एकविधः स्मृतः ॥२४६॥

विवादान्तरसंक्रान्तिः पूर्वोत्तरविरुद्धता ।
दूषणं स्वक्रियोत्पत्तेः परवाक्योपपादनम् ॥२४७॥

अनिर्देशश्च देशस्य निर्देशोऽदेशकालयोः ।
साक्षिणां उपजापश्च विद्वेषो वचनस्य च ॥२४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:26.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आरगिन आरगीपारगी

  • अ मध्यें पहा . 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site