TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
व्यवहारलक्षणादि

कात्यायनस्मृतिः - व्यवहारलक्षणादि

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


व्यवहारलक्षणादि
प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे ।
साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥२५॥

वि नानार्थेऽव संदेहे हरणं हार उच्यते ।
नानासंदेहहरणाद्व्यवहार इति स्मृतः ॥२६॥

न राजा तु विशित्वेन धनलोभेन वा पुनः ।
स्वयं कार्याणि कुर्वीत नराणां अविवादिनाम् ॥२७॥

उत्पादयति यो हिंसां देयं वा न प्रयच्छति ।
याचं आनय दौःशील्यादाकृष्योऽसौ नृपाज्ञया ॥२८॥

द्विपदे साध्यभेदात्तु पदाष्टादशतां गते ।
अष्टादश क्रियाभेदाद्भिन्नान्यष्टसहस्रशः ॥२९॥

साध्यवादस्य मूलं स्याद्वादिना यन्निवेदितम् ।
देयाप्रदानं हिंसा चेत्युत्थानद्वयं उच्यते ॥३०॥

पूर्वपक्षश्चोत्तरं च प्रत्याकलितं एव च ।
क्रियापादश्च तेनायं चतुष्पात्समुदाहृतः ॥३१॥

धर्मशास्त्रार्थशास्त्रे तु स्कन्धद्वयं उदाहृतम् ।
जयश्चैवावसायश्च द्वे फले समुदाहृते ॥३२॥

शास्त्रेण निन्दितं त्वर्थ मुख्यो राज्ञा प्रचोदितः ।
आवेदयति यः पूर्वं स्तोभकः स उदाहृतः ॥३३॥

नृपेणैव नियुक्तो यः पददोषं अवेक्षितुम् ।
नृपस्य सूचयेज्ज्ञात्वा सूचकः स उदाहृतः ॥३४॥
धर्मव्यवहारचरित्रराजशासनादीणां बलाबलविचारः

दोषकारी तु कर्तृत्वं धनस्वामी स्वकं धनम् ।
विवादे प्राप्नुयाद्यत्र धर्मेणैव स निर्णयः ॥३५॥

स्मृतिशास्त्रं तु यत्किंचित्प्रथितं धर्मसाधकैः ।
कार्याणां निर्णयार्थे तु व्यवहारः स्मृतो हि सः ॥३६॥

यद्यदाचर्यते येन धर्म्यं वाधर्म्यं एव वा ।
देशस्याचरणान्नित्यं चरित्रं तत्प्रकीर्तितम् ॥३७॥

न्यायशास्त्राविरोधेन देशदृष्टेस्तथैव च ।
यं धर्मं स्थापयेद्राजा न्याय्यं तद्राजशासनम् ॥३८॥

युक्तियुक्तं तु कार्यं स्याद्दिव्यं यत्र विवर्जितम् ।
धर्मस्तु व्यवहारेण बाध्यते तत्र नान्यथा ॥३९॥

प्रतिलोमप्रसूतेषु तथा दुर्गनिवासिषु ।
विरुद्धं नियतं प्राहुस्तं धर्मं न विचालयेत् ॥४०॥

निर्णयं तु यदा कुर्यात्तेन धर्मेण पार्थिवः ।
व्यवहारश्चरित्रेण तदा तेनैव बाध्यते ॥४१॥

विरुद्धं न्यायतो यत्तु चरित्रं कल्प्यते नृपैः ।
एवं तत्र निरस्येत चरित्रं तु नृपाज्ञया ॥४२॥

अनेन विधिना युक्तं बाधकं यद्यदुत्तरम् ।
अन्यथाबाधनं यत्र तत्र धर्मो विहन्यते ॥४३॥

अस्वर्ग्या लोकनाशाय परानीकभयावहा ।
आयुर्बीजहरी राज्ञां सति वाक्ये स्वयं कृतिः ॥४४॥

तस्माच्छास्त्रानुसारेण राजा कार्याणि साधयेत् ।
वाक्याभावे तु सर्वेषां देशदृष्टेन सन्नयेत् ॥४५॥

यस्य देशस्य यो धर्मः प्रवृत्तः सार्वकालिकः ।
श्रुतिस्मृत्यविरोधेन देशदृष्टः स उच्यते ॥४६॥

देशपत्तनगोष्ठेषु पुरग्रामेषु वासिनाम् ।
तेषां स्वसमयैर्धर्म शास्त्रतोऽन्येषु तैः सह ॥४७॥

देशस्यानुमतेनैव व्यवस्था या निरूपिता ।
लिखिता तु सदा धार्या मुद्रिता राजं उद्रया ॥४८॥

शास्त्रवद्यत्नतो रक्ष्या तां निरीक्ष्य विनिर्णयेत् ।
नैगमस्थैस्तु यत्कार्यं लिखितं यद्व्यवस्थितम् ॥४९॥

तस्मात्तत्संप्रवर्तेत नान्यथैव प्रवर्तयेत् ।
प्रमाणदेशदृष्टं तु यदेवं इति निश्चितम् ॥५०॥

अप्र्वृत्तं कृतं यत्र श्रुतिस्मृत्यनुमोदितम् ।
नान्यथा तत्पुनः कार्यं न्यायापेतं विवर्जयेत् ॥५१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:25.0700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उसल

  • पु. ( कर्ना . ) श्वास . [ का . उसलु = श्वास ] 
  • स्त्री. ( प्रा . ) उंसाची जमीन ; उंसाचें शेत . [ सं . इक्षु + आलय ] 
RANDOM WORD

Did you know?

एखाद्या वास्तुला वास्तुशास्त्रानुसार कोणतेच उपाय नसल्यास, मग कांहीे उपाय आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.