संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
स्त्रीसंग्रहणम्

कात्यायनस्मृतिः - स्त्रीसंग्रहणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दूतोपचारयुक्तश्चेदवेलास्थानसंस्थितिः ।
क्ण्ठकेशाण् चलग्राहः कर्णनासाकरादिषु ।
एकस्थानासनाहाराः संग्रहो नवधा स्मृतः ॥८२९॥

स्त्रीषु वृत्तोपभोगः स्यात्प्रसह्य पुरुषो यदा ।
वधे तत्र प्रवर्तेत कार्यातिक्रमणं हि तत् ॥८३०॥

कामार्ता स्वैरिणी या तु स्वयं एव प्रकामयेत् ।
राजादेशेन मोक्तव्या विख्याप्य जनसंनिधौ ॥८३१॥

आरम्भकृत्सहायश्च तथा मार्गानुदेशकः ।
आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् ॥८३२॥

युद्धोपदेशकश्चैव तद्विनाशप्रदर्शकः ।
उपेक्षाकार्ययुक्तश्च दोषवक्त्रनुमोककः ॥८३३॥

अनिषेद्धाक्षमो यः स्यात्सर्वे तत्कार्यकारिणः ।
यथाशक्त्यनुरूपं तु दण्डं एषां प्रकल्पयेत् ॥८३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP