संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्राड्विवाकः

कात्यायनस्मृतिः - प्राड्विवाकः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


यदा कुर्यान्न नृपतिः स्वयं कार्यविनिर्णयम् ।
तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् ॥६३॥

दक्षं कुलीनमध्यस्थं अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठं उद्युक्तं क्रोधवर्जितम् ॥६४॥

अक्रूरो मधुरः स्निग्धः क्षमायातो विचक्षणः ।
उत्साहवानलुब्धश्च वादे योज्यो नृपेण तु ॥६५॥

एकशास्त्रं अधीयानो न विद्यात्कार्यनिश्चयम् ।
तस्माद्बह्वागमः कार्यो विवादेषूत्तमो नृपैः ॥६६॥

ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥६७॥

अतोऽन्यैर्यत्कृतं कार्यं अन्यायेन कृतं तु तत् ।
नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः ॥६८॥

व्यवहाराश्रितं प्रश्नं पृच्छति प्राङिति स्थितिः ।
विवेचयति यस्तस्मिन्प्राड्विवाकस्ततः स्मृतः ॥६९॥

अनिर्णीते तु यद्यर्थे संभाषेत रहोऽर्थिना ।
प्राड्विवाकोऽथ दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ॥७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP