संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
प्रतिभूविधानम्

कात्यायनस्मृतिः - प्रतिभूविधानम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


दानोपस्थानवादेषु विश्वासशपथाय च ।
लग्नकं कारयेदेवं यथायोगं विपर्यये ॥५३०॥

दर्शनप्रतिभूर्यस्तं देशे काले न दर्शयेत् ।
निबन्धं आवहेत्तत्र दैवराजकृतादृते ॥५३१॥

नष्टस्यान्वेषणार्थं तु देयं पक्षत्रयं परम् ।
यद्यसौ दर्शयेत्तत्र मोक्तव्यः प्रतिभूर्भवेत् ॥५३२॥

काले व्यतीते प्रतिभूर्यदि तं नैव दर्शयेत् ।
स तं अर्थं प्रदाप्यः स्यात्प्रेते चैवं विधीयते ॥५३३॥

गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् ।
विना पित्रा धनं तस्माद्दाप्यः स्यात्तदृणं सुतः ॥५३४॥

यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
अदर्शयन्स तं तस्मै प्रयच्छेत्स्वधनादृणम् ॥५३५॥

आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥५३६॥

एकच्छायाश्रिते सर्वं दद्यात्तु प्रोषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न बृहस्पतिः ॥५३७॥

एकच्छायाप्रविष्टानां दाप्यो तस्तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते सुतः ॥५३८॥

प्रातिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।
त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति ॥५३९॥

यस्यार्थे येन यद्दत्तं विधिनाभ्यर्थितेन तु ।
साक्षिभिर्भावितेनैव प्रतिभूस्तत्समाप्नुयात् ॥५४०॥

सत्यंकारविसंवादे द्विगुणं प्रतिदापयेत् ।
अकुर्वतस्तु तद्धानि सत्यंकारप्रयोजनम् ॥५४१॥
पित्रादिभिः कृतं ऋणं केन प्रतिदेयम्

कुटुम्बार्थं अशक्तेन गृहीतं व्याधितेन वा ।
उपप्लवनिमित्ते च विद्यादापत्कृते तु तत् ॥५४२॥

कन्यावैवाहिकं चैव प्रेतकार्ये च यत्कृतम् ।
एतत्सर्वं प्रदातव्यं कुटुम्बेन कृतं प्रभोः ॥५४३॥

ऋणं पुत्रकृतं पित्रा न देयं इति धर्मतः ।
देयं प्रतिश्रुतं यत्स्यात्यच्च स्यादनुमोदितम् ॥५४४॥

प्रोषितस्यामतेनापि कुटुम्बार्थं ऋणं कृतम् ।
दासस्त्रीमातृशिष्यैर्वा दद्यात्पुत्रेण वा भृगुः ॥५४५॥

भर्त्रा पुत्रेण वा सार्धं केवलेनात्मना कृतम् ।
ऋणं एवंविधं देयं नान्यथा तत्कृतं स्त्रिया ॥५४६॥

मर्तुकामेन या भर्त्रा प्रोक्ता देयं ऋणं त्वया ।
अप्रपन्नापि सा दाप्या धनं यद्याश्रितं स्त्रियाम् ॥५४७॥

विद्यमानेअपि रोगार्ते स्वदेशात्प्रोषितेऽपि वा ।
विंशात्संवत्सराद्देयं ऋणं पितृकृतं सुतैः ॥५४८॥

व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणं एवंविधं पुत्राञ् जीवतां अपि दापयेत् ॥५४९॥

सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ॥५५०॥

पितॄणां सूनुभिर्जातैर्दानेनैवाधमादृणात् ।
विमोक्षस्तु यतस्तस्मादिच्छन्ति पितरः सुतान् ॥५५१॥

नाप्राप्तव्यवहारेण पितर्युपरते क्वचित् ।
काले तु विधिना देयं वसेयुर्नरकेऽन्यथा ॥५५२॥

अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपीह नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठे गुणवयःकृतम् ॥५५३॥

यद्दृष्टं दत्तशेषं वा देयं पैतामहं तु तत् ।
सदोषं व्याहतं पित्रा नैव देयं ऋणं क्वचित् ॥५५४॥

पित्रा दृष्टं ऋणं यत्तु क्रमायातं पितामहात् ।
निर्दोषं नोद्धृतं पुत्रैर्देयं पौत्रैस्तु तद्भृगुः ॥५५५॥

पैतामहं तु यत्पुत्रैर्न दत्तं रोगिभिः स्थितैः ।
तस्मादेवंविधं पौत्रैर्देयं पैतामहं समम् ॥५५६॥

ऋणं तु दापयेत्पुत्रं यदि स्यान्निरुपद्रवः ।
द्रविणार्हश्च धुर्यश्च नान्यथा दापयेत्सुतम् ॥५५७॥

यद्देयं पितृभिर्नित्यं तदभावे तु तद्धनात् ।
तद्धनं पुत्रपुत्रैर्वा देयं तत्स्वामिने तदा ॥५५८॥

पित्रर्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते गृह्णंस्तु दाप्यते ॥५५९॥

पुत्राभावे तु दातव्यं ऋणं पौत्रेण यत्नतः ।
चतुर्थेन न दातव्यं तस्मात्तद्विनिर्वर्तते ॥५६०॥

प्रातिभाव्यागतं पौत्रैर्दातव्यं न तु तत्क्वचित् ।
पुत्रेणापि समं देयं ऋणं सर्वत्र पैतृकम् ॥५६१॥

रिक्थहर्त्रा ऋणं देयं तदभावे च योषितः ।
पुत्रैश्च तदभावेऽन्यै रिक्थभाग्भिर्यथाक्रमम् ॥५६२॥

यावन्न पैतृकं द्रव्यं विद्यमानं लभेत्सुतः ।
सुसमृद्दोऽपि दाप्यः स्यात्तावन्नैवाधमर्णिकः ॥५६३॥

लिखितं मुक्तकं वापि देयं यत्तु प्रतिश्रुतम् ।
परपूर्वस्त्रियै यत्तु विद्यात्कामकृतं नृणाम् ॥५६४॥

यत्र हिंसां समुत्पाद्य क्रोधाद्द्रव्यं विनाश्य वा ।
उक्तं तुष्टिकरं यत्तु विद्याद्क्रोधकृतं तु तत् ॥५६५॥

स्वस्थेनार्तेन वा देयं भावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥५६६॥

निर्धनैरनपत्यैस्तु यत्कृतं शौण्डिकादिभिः ।
तत्स्त्रीणां उपभोक्ता तु दद्यात्तदृणं एव हि ॥५६७॥

शौण्डिकव्याधजनक गोपनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ॥५६८॥

न च भार्याकृतं ऋणं कथंचित्पत्युराभवेत् ।
आपत्कृतादृते पुंसां कुटुम्बार्थे हि विस्तरः ॥५६९॥

अन्यत्र रजकव्याध गोपशौण्डिकयोषिताम् ।
तेषां तु तत्परा वृत्तिः कुटुम्बं च तदाश्रयम् ॥५७०॥

अमतेनैव पुत्रस्य प्रधना यान्यं आश्रयेत् ।
पुत्रेणैवापहार्यं तद् धनं दुहितृभिर्विना ॥५७१॥

ऋणार्थं आहरेत्तन्तुं न सुखार्थं कदाचन ।
अयुक्ते कारणे यस्मात्पितरौ तु न दापयेत् ॥५७२॥

या स्वपुत्रं तु जह्यात्स्त्री समर्थं अपि पुत्रिणी ।
आहृत्य स्त्रीधनं तत्र पित्र्यर्णं शोधयेन्मनुः ॥५७३॥

बालपुत्राधिकार्था च भर्तारं यान्यं आश्रिता ।
आश्रितस्तदृणं दद्याद्बालपुत्राविधिः स्मृतः ॥५७४॥

दीर्घप्रवासिनिर्बन्धु जडोन्मत्तार्तलिङ्गिनाम् ।
जीवतां अपि दातव्यं तत्स्त्रीद्रव्यसमाश्रितैः ॥५७५॥

व्यसनाभिप्लुते पुत्रे बालो वा यत्न दृश्यते ।
द्रव्यहृद्दाप्यते तत्र तस्याभावे पुरन्ध्रिहृत् ॥५७६॥

पूर्वं दद्याद्धनग्राहः पुत्रस्तस्मादनन्तरम् ।
योषिद्ग्राहः सुताभावे पुत्रो वात्यन्तनिर्धनः ॥५७७॥

देयं भार्याकृतं ऋणं भर्त्रा पुत्रेण मातृकम् ।
भर्तुरर्थे कृतं यत्स्यादभिधाय गते दिशम् ॥५७८॥

देयं पुत्रकृतं तत्स्याद्यच्च स्यादनुवर्णितम् ।
कृतासंवादितं यच्च श्रुत्वा चैवानुचोदितम् ॥५७९॥
अधर्मणिकस्यावरोधादिना धनोद्धारविचार

धार्योऽवरुद्धस्त्वृणिकः प्रकाशं जनसंसदि ।
यावन्न दद्याद्देयं च देशाचारस्थितिर्यथा ॥५८०॥

विण्मूत्रशङ्का यस्य स्याद्धार्यमाणस्य देहिनः ।
पृष्ठतो वानुगन्तव्यो निबद्धं वा समुत्सृजेत् ॥५८१॥

स कृतप्रतिभूश्चैव मोक्तव्यः स्याद्दिने दिने ।
आहारकाले रात्रौ च निबन्धे प्रतिभूः स्थितः ॥५८२॥

यो दर्शनप्रतिभुवं नाधिगच्छेन्न चाश्रयेत् ।
स चारके निरोद्धव्यः स्थाप्यो वावेद्य रक्षिणः ॥५८३॥

न चारके निरोद्धव्य आर्यः प्रात्ययिकः शुचिः ।
सोऽनिबद्धः प्रमोक्तव्यो निबद्धः शपथेन वा ॥५८४॥

पीडनेनोपरोधेन साधयेदृणिकं धनी ।
कर्मणा व्यवहारेण सान्त्वेनादौ विभावितः ॥५८५॥

आददीतार्थं एवं तु व्याजेनाचरितेन च ।
कर्मणा क्षत्रविश्शूद्रान्समहीनांश्च दापयेत् ॥५८६॥

राजानं स्वामिनं विप्रं सान्त्वेनैव प्रदापयेत् ।
रिक्थिनं सुहृदं वापि च्छलेनैव प्रसाधयेत् ॥५८७॥

वणिजः कर्षकाश्चैव शिल्पिनश्चाब्रवीद्भृगुः ।
देशाचारेण दाप्याः स्युर्दुष्टान्संपीड्य दापयेत् ॥५८८॥

पीडयेत्तु धनी यत्र ऋणिकं न्यायवादिनम् ।
तस्मादर्थात्स हीयेत तत्समं चाप्नुयाद्दमम् ॥५८९॥

यदि ह्यादावनादिष्टं अशुभं कर्म कारयेत् ।
प्राप्नुयात्साहसं पूर्वं ऋणान्मुच्येत चर्णिकः ॥५९०॥

उद्धारादिकं आदाय स्वामिने न ददाति यः ।
स तस्य दासो भृत्यः स्त्री पशुर्वा जायते गृहे ॥५९१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP