संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
द्यूतसमाह्वयौ

कात्यायनस्मृतिः - द्यूतसमाह्वयौ

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


द्यूतं नैव तु सेवेत क्रोधलोभविवर्धकम् ।
असाधुजननं क्रूरं नराणां द्रव्यनाशनम् ॥९३३॥

ध्रुवं द्यूतात्कलिर्यस्माद्विषं सर्पमुखादिव ।
तस्माद्राजा निवर्तेत विषये व्यसनं हि तत् ॥९३४॥

वर्तेत चेत्प्रकाशं तु द्वारावस्थिततोरणम् ।
असंमोहार्थं आर्याणां कारयेत्तत्करपदम् ॥९३५॥

सभिकः कारयेद्द्यूतं देयं दद्यात्स्वयं नृपे ।
दशकं तु शते वृद्धिं गृह्णीयाच्च पराजयात् ॥९३६॥

जेतुर्दद्यात्स्वकं द्रव्यं जिताद्ग्राह्यं त्रिपक्षकम् ।
सद्यो वा सभिकेनैव कितावात्तु न संशयः ॥९३७॥

एकरूपा द्विरूपा वा द्यूते यस्याक्षदेविनः ।
दृश्यते च जयस्तस्य यस्मिन्रक्षा व्यवस्थिता ॥९३८॥

अथ वा कितवो राज्ञे दत्त्वा भागं यथोदितम् ।
प्रकाशं देवनं कुर्यादेवं दोषो न विद्यते ॥९३९॥

प्रसह्य दापयेद्देयं तस्मिन्स्थाने न चान्यथा ।
जितं वै सभिकस्तत्र सभिकप्रत्यया क्रिया ॥९४०॥

अनभिज्ञो जितो मोच्योऽमोच्योऽभिज्ञो जितो रहः ।
सर्वस्वे विजितेऽभिज्ञे न सर्वस्वं प्रदापयेत् ॥९४१॥

विग्रहेऽथ जये लाभे करणे कूटदेविनाम् ।
प्रमाणं सभिकस्तत्र शुचिश्च सभिको यदि ॥९४२॥

म्लेच्छश्वपाकधूर्तानां कितवानां तपस्मिनाम् ।
तत्कृताचारं एतॄणां निश्चयो न तु राजनि ॥९४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP