संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|कात्यायनस्मृतिः|
विभक्तचिह्नादि

कात्यायनस्मृतिः - विभक्तचिह्नादि

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


वसेयुर्दश वर्षाणि पृथग्धर्माः पृथक्क्रियाः ।
भ्रातरस्तेऽपि विज्ञेया विभक्ताः पैतृकाद्धनात् ॥८९३॥
स्त्रीधनलक्षणं स्त्रीधनप्रकाराश्च

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतितः स्त्रियैः ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥८९४॥

विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ ।
तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥८९५॥

यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् ।
अध्यावहनिकं चैव स्त्रीधनं तदुदाहृतम् ॥८९६॥

प्रीत्या दत्तं तु यत्किंचित्श्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते ॥८९७॥

गृहोपस्करवाह्यानां दोह्याभरणकर्मिणाम् ।
मूल्यं लब्धं तु यत्किंचिच्शुल्कं तत्परिकीर्तितम् ॥८९८॥

विवाहात्परतो यत्तु लब्धं भर्तृकुलात्स्त्रिया ।
अन्वाधेयं तदुक्तं तु लभ्दं बन्धुकुलात्तथा ॥८९९॥

ऊर्ध्वं लब्धं तु यत्किंचित्संस्कारात्प्रीतितः स्त्रिया ।
भर्तुः पित्रोः सकाशाद्वा अन्वाधेयं तु तद्भृगुः ॥९००॥

ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा ।
भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥९०१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP