मराठी मुख्य सूची|विधी|शांती विधी|प्रकार १|
पुण्याहवाचन

पुण्याहवाचन

वास्तु्शांती म्हणजे वास्तु उभारताना यजमानाच्या हातून विविध चुका होतात किंवा दोष घडतात, त्यांची शांती. वास्तुपुरुषाची शांती नव्हे.


विधी - ६

पुण्याहवाचनम्

सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंत सस्य दात्री या तां नमामि वसुंधराम् । इति भृमिं स्पृष्ट्‌वा ।

जमिनीस हात लावावा.

या साम्यायकः सोमो राजायाः शोभना स्मृता । ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने । द्वौ धान्यराशीं कृत्वा ।

पाटावरील तांदळास हात लावावा.

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।

कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा । ऋग्वेदोथ यजुर्वेदो सामवेदोह्यर्वणः । अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः ।

अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा । आयांतु मम शांत्यर्थ दुरितः क्षयकारकाः । कलशौ संस्थाप्य ।

दोन्ही कलशांना हात लावावा.

गंगेच यमुने चैव गोदावरी सरस्वति । कावेरि नर्मदे सिंधो कुंभेऽस्मिन् सन्निधिं कुरु । कलशौ जलेन पूरयित्वा

दोन्ही कलशांत पळीने थोडे पाणी घालावे.

मलयाचल संभूतं घनसारं मनोहरम् । ह्रदयानंदनं दिव्यं चंदनं प्रक्षिपाम्यहम् । कलशयोर्मध्ये गंधं प्रक्षिप्य ।

कलशाला गंध लावावे किंवा गंध लावलेले फूल कलशात घालावे.

त्वं दूर्वेऽमृत जन्मासि वंदितासि सुरैरपि । सौभाग्य संतति करी सर्वकार्येषु शोभना । इति दूर्वाः ।

दोन्ही कलशांत थोड्या दूर्वा घालाव्यात.

अश्वत्थोदुंबर प्लक्षचूतन्यग्रोध पल्लवाः । पंचभंगा इतिख्याताः सर्व कर्मसु शोभना । इति पंचपल्लवान् ।

कलशातीलांब्याच्या पानांना हात लावावा.

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । कलशेस्मिन् क्षिपामीदं सर्व कर्म फलप्रदम् । इति कलशद्वये पूगीफले ।

कलशांमध्ये एक एक सुपारी घालावी.

कनकं कुलिशं नीलं पद्मरागोथ मौक्तिकं । एतानि पंचरत्‍नानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंचरत्‍नानि ।

कलशात पंचरत्‍ने पैसा घालावीत.

हिरण्य गर्भ गर्भस्थं हेमबीजो विभावसोः । अनंत पुण्य फलदं कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति हिरण्यम् ।

कलशात नाणी घालावीत.

सितं सूक्ष्मं सुखस्पर्ष मीशानादेः प्रियं सदा । वासोहि सर्व दैवत्यं देहालंकरणं परम् । इति वस्त्रेण (सूत्रेण वा) संवेष्ट्य ।

कलशाला वस्त्र गुंडाळावे.

पूर्णपात्रमिदं दिव्यं सिततंडुल पूरितं । देवता स्थापनायैव कलशे स्थापयाम्यहम् । इति पूर्णपात्रे कलशद्वये विनस्य ।

कलशावर तांदळाने भरलेली वाटी व त्यावर एक सुपारी ठेवावी किंवा कलशावर नारळ ठेवावा.

यानंतर उत्तर कलशावर अक्षता वाहून वरुणाचे आवाहन करावे.

उत्तर कलशे वरुणं आवाहयेदेवम् ।

पाशहस्तं च वरुणं यादसांपतिमीश्वरं । आवाहयामि यज्ञेस्मिन् पूजनार्थं नमातिं तं । कलशे वरुण सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।

कलशे वरुणाय नमः । आवाहनार्थे अक्षतां समर्पयामि । श्री वरुणाय नमः । विलेपनार्थे चंदनं समर्पयामि । श्री वरुणाय नमः ।

हरिद्रां कुंकुमम् सौभाग्यं द्रव्यं समर्पयामि । श्री वरुणाय नमः । श्री सकल पूजार्थे अक्षतां समर्पयामि । श्री वरुणाय नमः ।

पुष्पं समर्पयामि । श्री वरुणाय नमः । तुलसीपत्रं बिल्वपत्रं च समर्पयामि । श्री वरुणाय नमः । धूप दीपं च समर्पयामि ।

श्री वरुणाय नमः । नैवेद्यार्थे गुड खाद्य नैवेद्यं समर्पयामि ।

ॐ प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः ।

ब्रह्मणे नमः । नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि

पुनर्नैवेद्यं । ॐ प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।

गुळखोबर्‍या भोवती दोन वेळा पाणी सोडावे. त्यानंतर हातावरून तीन वेळा पाणी सोडावे.

उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि । करोद्वर्तनार्थे चंदनं समर्पयामि ।

फुलाला गंध लावून ते फूल वहावे.

मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।

एका विड्यावर पाणी सोडावे.

नमस्करोमि ।

नमस्कार करावा.

पाशहस्तं च वरुणं यादसांपतिमीश्वरं । आवाहयामि यज्ञेस्मिन् पूजनार्थं नमामि तं । श्री वरुणाय नमः । मंत्रपुष्पांजलिं समर्पयामि ।

एक फूल वहावे.

इति पंचोपचारैः संपूज्य ।

अनेन कृत पूजनेन अपांपति वरुणः प्रीयताम्

हातावरून पाणी सोडावे. या नंतर वरुणाची हात जोडून पुढील प्रार्थना करावी.

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मामध्ये मातृगणाः स्मृताः । कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा ।

ऋग्वेदोथ यजुर्वेदो सामवेदोह्यथर्वणः । अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा ।

आयांतु मम शांत्यर्थं दुरितः क्षयकारकाः । सर्वे समुद्राः सरितास्तीर्थानि जलदा नदाः । आयांतु मम शांत्यर्थं दुरितः क्षयकारकाः ।

उत्तर कलशे अक्षतां क्षिपेत्

उत्तरेकडील कलशावर चार वेळा अक्षता घालाव्यात.

मातृदेवो भव । पितृदेव भव । आचार्य देवो भव । अतिथि देवो भव । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

ब्राह्मणांच्या मस्तकावर अक्षता घालाव्यात. या नंतर यजमानाने कमळाप्रमाणे दोन्ही हातांची ओंजळ करून मस्तकावर धरावी.

ततः अवनीकृत जानुमंडलः कमलमुकुल सदृशं अंजलिं शिरसाद्याय दक्षिणेन पाणिना सुवर्ण पूर्ण कलशं धारयित्वा आशिषः प्रार्थयंते ।

एताः सत्या आशिषः संतु ।

उजव्या हाताने उत्तर कलश उचलून यजमानाने आपल्या पत्‍नीच्या मस्तकास लावावा व नंतर स्वतःच्या मस्तकास लावावा. नंतर कलश पाटाला टेकवावा.

असे तीन वेळा करावे. त्यावेळी मंत्र म्हणावा तो असा-

दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु इति भवतः ब्रुवंतु । तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुः इतित्रिः ।

(३ वेळा) नंतर २-४ ब्राह्मणांच्या हातावर गंध अक्षता फूल विडा व दक्षिणा म्हणून एखादे नाणे ठेवावे. पुढे प्रत्येकास प्रतिवचने द्यावीत.

ब्राह्मण हस्ते शिवा आपः संतु । संतु शिवाः आपः । सौमनस्यमस्तु । अस्तु सौमनस्यम् । अक्षतं चारिष्टं चास्तु । गंधाः पांतु ।

सौमंगल्यमस्तु । अक्षताः पांतु । आयुष्यमस्तु । पुष्पाणि पांतु । सौश्रियमस्तु । तांबुलानि पांतु । ऐश्वर्यमस्तु । दक्षिणाः पांतु ।

बहुदेयं चास्तु । दीर्घामायुः श्रेयः शातिः पुष्टिश्चास्तु । श्रीर्यशा विद्या विनयं वित्तं बहुपुत्रंचायुष्यं चास्तु ।

यंकृत्वा सर्व वेद यज्ञ क्रियाकारण कर्मारंभाः शुभाः शोभनाः प्रवर्तंते तमहमोंकारमादिकृत्वा ऋग्यजु सामाशीर्वचनं

बहुऋषिमतं संविज्ञातं भवद्‌भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । वाच्यताम् ।

मा विघ्नं मा च मे पापं मा संतु परिपंथिनः । सौम्या भवंतु सुखिनः सर्वे लोकाः सुखावहः । तथास्तु ।

करोतु स्वस्ति ते ब्रह्मा स्वस्तिवापि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा । स्वस्ति तेऽस्तु द्विपादेभ्यःश्चतुष्पादेभ्य एव च ।

स्वस्त्यस्त्व पादकेभ्यश्च सर्वेभ्यः स्वस्ति सर्वदा । व्रत नियम तपः स्वाध्याय क्रतु दमदान विशिष्टायां ब्राह्मणानां मनः समाधियतां ।

विप्राः समाहित मनसः स्मः । प्रसीदंतु भवंतः । विप्राः- प्रसन्नाः स्मः । कुंभाज्जलं पात्रे गृहीत्वा तदन्यपात्रे दर्व्या पातयन्वदेत् ।

कलशातील थोडे पाणी आपल्या पंचपात्रात काढावे. समोर दोन पात्रे ठेवावीत. पत्‍नीने आपला उजवा हात लावून ठेवावा.

दक्षिणेकडील पहिल्या पात्रात पंचपात्रातील पाणी डाव्या हाताने उजव्या हातावर सतत सोडीत रहावे व ब्राह्मणांनी

(खरे तर यजमानाने म्हणावे. परंतु यजमानास म्हणता येत नसल्यामुळे ब्राह्मणांनी) म्हणावे-

शांतिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु ।

कर्म समृद्धिरस्तु । धर्म समृद्धिरस्तु । वेद समृद्धिरस्तु । शास्त्र समृद्धिरस्तु । पुत्र समृद्धिरस्तु । धनधान्य समृद्धिरस्तु । इष्ट संपदस्तु । बहिर्देशे -

पत्‍नीने लावलेला हात काढावा. यजमानाने दुसर्‍या पात्रात पाणी सोडावे.

सर्वारिष्ट निरसनमस्तु । यत्पापं तत् प्रतिहतमस्तु ।

पत्‍नीने हात लावावा. यजमानाने पुन्हा पहिल्या पात्रात पाणी सोडावे.

यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरम हरहरभिवृद्धिरस्तु । उत्तरोत्तरः क्रियाः शुभाः शोभनाः संपद्यंताम् ।

इष्टाः कामाः संपद्यंताम् । तिथि करण मुहुर्त नक्षत्र संपदस्तु । तिथि करण मुहुर्त नक्षत्र ग्रह लग्नादि देवताः प्रीयंताम् ।

तिथि करणे मुहुर्त नक्षतेर सग्रहे सदैवते प्रीयेताम् । दुर्गा पांचाल्यौ प्रीयेताम् । अग्नि पुरोगा विश्वेदेवाः प्रीयंताम् ।

इंद्र पुरोगा मरुद्‌गणाः प्रीयंताम् । ब्रह्म पुरोगा सर्वे वेदाः प्रीयंताम् । विष्णु पुरोगा सर्वे देवाः प्रीयंताम् ।

माहेश्वरी पुरोगा उमा मातरः प्रीयेताम् । वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् । अरुंधति पुरोगा एकपत्‍न्यः प्रीयंताम् ।

ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् । ब्रह्म च ब्राह्मणाश्च प्रीयंताम् । श्री सरस्वत्यौ प्रीयेताम् । श्रद्धा मेधे प्रीयेताम् ।

भगवती कात्यायनी प्रीयेताम् । भगवती माहेश्वरी प्रीयेताम् । भगवती पुष्टिकरी प्रीयेताम् । भगवती तुष्टिकरी प्रीयेताम् ।

भगवती ऋद्धिकरी प्रीयेताम् । भगवती वृद्धिकरी प्रीयेताम् । भगवंतौ विघ्नविनायकौ प्रीयेताम् ।

भगवान् स्वामी महासेनः सपत्‍नीकः ससुतः सपार्षदतः सर्वस्थानगतः प्रीयेताम् । हरिहर हिरण्यगर्भाः प्रीयंताम् ।

सर्वा ग्रामदेवताः प्रीयंताम् । सर्वाः कुलदेवताः प्रीयंताम् । सर्वा वास्तुदेवताः प्रीयंताम् । बहिरपः -

पत्‍नीने लावलेला हात काढावा. यजमानाने दुसर्‍या पात्रात पाणी सोडावे.

हता ब्रह्मद्विषः । हता परिपंथिनः । हता अस्य कर्मणो विघ्नकर्तारः । शत्रवः पराभवं यांतु ।

शाम्यंतु घोराणि । शाम्यंतु पापानि । शाम्यंत्वीतय । अंतः-

पत्‍नीने हात लावावा. यजमानाने पुन्हा पहिल्या पात्रात पाणी सोडावे.

शुभानि वर्धंताम् । शिवा आपः संतु । शिवा ऋतवः संतु । शिवा अग्नयः संतु । शिवा आहुतयः संतु । शिवा ओषधयः संतु ।

शिवा वनस्पतयः संतु । शिवा अतिथयः संतु । अहोरात्रे शिवेस्त्याताम् ।

शुक्रांगारक बुध बृहस्पति शनैश्चर राहुकेतु सोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् । भगवान् नारायणः प्रीयताम् ।

भगवान पर्जन्यः प्रीयताम् । प्रीयताम् स्वामी महासेनः । पुण्याह कालान् वाचयिष्ये । वाच्यताम्

ब्राह्मं पुण्यं महद्दिव्यं स्वस्त्युत्पादन कारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्यहं भो ब्रवंतु नः ।

यजमानाने म्हणावे -

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्यस्य कर्मणः पुण्याहं भवंतो ब्रवंतु ।

विप्रांनी यजमानाच्या मस्तकावर अक्षता टाकीत तीन वेळा म्हणावे-

अस्तु पुण्याहं । अस्तु पुण्याहं । अस्तु पुण्याहं ।

स्वस्तिर्या चाविनाशाख्या पुण्यकल्याण वृद्धिदा । विनायक प्रिया नित्यं तां स्वस्तिं भो ब्रवंतु नः । यजमानाने म्हणावे -

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्ये कर्मणि स्वस्तिं भवंतो ब्रवंतु ।

आयुष्मते स्वस्ति । आयुष्मते स्वस्ति । आयुष्मते स्वस्ति ।

सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता । संपूर्णा पूर्ण चंद्रे या तामृद्धिं भो ब्रवंतु नः ।

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्यस्य कर्मणः ऋद्धिं भवंतो ब्रवंतु ।

कर्मऋद्ध्यताम् । कर्मऋद्ध्यताम् । कर्मऋध्यताम् । ऋद्धिः समृद्धिः ।

यानंतर एका सुवासिनीस बोलावून तिच्याकडून गणपति व वरुण यांची हळदकुंकू, अक्षता, फुले घालून पूजा करून घ्यावी. निरांजन ओवाळावे.

त्यानंतर यजमान पत्‍नीस हळद-कुंकू व यजमानास फक्त कुंकू लावून औक्षण करावे. यजमानाने त्या सुवासिनीस एक नारळ विडा वगैरे द्यावा.

क्षीरोदधि समुद्धूता मथ्यमाने महोदधौ । विष्णोश्चैव प्रिया नित्यं तां श्रियं भो ब्रवंतु नः ।

मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख वास्तुशांत्याख्ये कर्मणः श्रीरस्विति भवंतो ब्रवंतु ।

अस्तु श्रीः । अस्तु श्रीः । अस्तु श्रीः ।

वर्षशतं पूर्णमस्तु । अमुक गोत्राभिवृद्धिरस्तु । कर्मांग देवताः प्रीयंताम् ।

यानंतर यजमानाने उजव्या हाताने उत्तरेकडील कलश व डाव्या हाताने दक्षिणेकडील कलश धरून उचलावा. हात सरळ करून त्या कलशातील पाणी

आपल्या ताम्हनात काढावे व पुन्हा कलश पूर्वीच्या जागी ठेवावेत.

ततः उत्तर कलशं दक्षिण हस्ते दक्षिण कलशं वाम हस्ते गृहीत्वा ताभ्यां धाराद्वयं संततं पात्रे निषिंच्य तेभिर्मंत्रैः ।

वास्तोष्पते भूमिशयान देव पाहि त्वमस्मान् सकलादरिष्टात् । चतुष्पदां च द्विपदां शिवं नो भवत्वभीक्ष्णं तव सुप्रसादात् । शिवं । शिवं । शिवं ।

यजमान पत्‍नीं वामतः उपविश्य पात्र पतित जलेन आम्रपल्लवं दूर्वाभिर्वा उदङ्‌मुखं तिष्ठतो विप्रैः यजमान भाले अभिषेकं कार्यम् ।

यजमान पत्‍नीने उठून यजमानाच्या डाव्या बाजूस येऊन बसावे. विप्रांनी त्या ताम्हनात काढलेल्या पाण्याचा कलशातीलच घेतलेल्या आंब्याच्या पानांनी किंवा दुर्वांनी व दर्भांनी यजमान पती-पत्‍नीवर अभिषेक करावा. त्यावेळी विप्रांनी उभे राहून आपले मुख उत्तरेस करावे.

सुरस्त्वाम् अभिषिंचंतु ब्रह्माविष्णु महेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः । प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते ।

आखंडलोऽग्निर्भगवान् यमो वै निऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा ।

कीर्तिर्लक्ष्मीअर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः । बुद्धिर्लज्जा वपुः शांतिः कांतिःस्तुष्टिश्च मातरः । एतेत्वां अभिशिंचंतु देवपत्‍न्यः समाश्रिताः ।

आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः । ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः । देवदानव गंधर्वा यक्षराक्षस पन्नगाः ।

ऋषयो मुनयो गावो देवमातर एव च । देवपत्‍न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः अस्त्राणि सर्व शस्त्राणि राजानो वाहनानि च ।

औषधानि च रत्‍नानि कालस्या वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदा । एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये ।

बलाय श्रियै यससेऽन्नाद्याय अमृताभिशकोऽस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु । शांतिः । शांतिः । शांतिः ।

यजमान पत्‍नीने पूर्वीच्या जागी बसावे. यजमानाने म्हणावे -

पुण्याह वाचन फल समृद्धिरस्तु इति भवंतो ब्रवंतु ।

ब्राह्मणांनी म्हणावे -

पुण्याह वाचन फल समृद्धिरस्तु ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP