चित्रपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् ।
विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥१॥ ९११॥
शृणु ते पादुके चित्रं चित्राभिर्मणिभिर्विभोः
युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम् ॥२॥ ९१२॥
सुरासुरार्चिता धन्या तुङ्गमङ्गलपालिका ।
चराचरार्चिता मान्या रङ्गपुङवपादुका ॥३॥ ९१३॥
पद्मेव मङ्गलसरित्पारं संसारसन्ततेः ।
दुरितक्षेपिका भूयात्पादुका रङ्गभूपतेः ॥४॥ ९१४॥
अनन्यशरणः सीदुन्ननन्तक्लेशसागरे ।
शरणं चरणत्राणं रङ्गनाथस्य संश्रये ॥५॥ ९१५॥
प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् ।
पश्चिमायामवस्थायां पादुके मुह्यतो मम ॥६॥ ९१६॥
यामः श्रयति यां धत्ते येन यात्याय याच्च या ।
याऽस्य मानाय यैवान्या सा मामवतु पादुका ॥७॥ ९१७॥
चर्या नः शौरिपादु त्वं प्रायश्चित्तेष्वनुत्तमा ।
निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा ॥८॥ ९१८॥
रामपादगता भासा सा भातागदपामरा ।
कादुपानञ्च कासह्या ह्यासकाञ्चनपादुका ॥९॥ ९१९॥
बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे ।
समाधौ शठजिच्चूडां वृणोषि हरिपादुके ॥१०॥ ९२०॥
सा भूपा रामपारस्था विभूपास्तिसपारता ।
तारपा सकृपा दुष्टिपूरपा रामपादुका ॥११॥ ९२१॥
कारिका न न यात्राया यागेयास्यस्यभानुभा ।
पादपा हह सिद्धासि यज्ञाय मम साञ्जसा ॥१२॥ ९२२॥
सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।
सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना ॥१३॥ ९२३॥
काव्यायास्थित मावर्गव्याजयातगमार्गका
कामदा जगतः स्थित्यै रङ्गपुङवपादुका ॥१४॥ ९२४॥
सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका ।
कामदा कलितादेशा चरन्ती साधुवर्त्मसु ॥१५॥ ९२५॥
भरताराधितां तारां वन्दे राघवपादुकाम् ।
भवतापाधितान्तानां वन्द्यां राजीवमेदुराम् ॥१६॥ ९२६॥
कादुपास्य सदालोका कालोदाहृतदामका ।
कामदाध्वरिरंसाकाऽकासा रङ्गेशपादुका ॥१७॥ ९२७॥
पापाकूपारपाळीपा त्रिपादीपादपादपा ।
कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा ॥१८॥ ९२८॥
स्थिरागसां सदाराध्या विहताकततामता ।
सत्पादुके सरासामा रङ्गराजपदं नय ॥१९॥ ९२९॥
स्थिता समयराजत्पा गतरामादके गवि ।
दुरंहसां सन्नतादा साध्या तापकरासरा ॥२०॥ ९३०॥
लोकतारा कामचारा कविराजदुरावचा ।
तारागते पादराम राजते रामपादुका ॥२१॥ ९३१॥
जयामपापामयाजयामहे दुदुहे मया ।
महेशकाकाशहेम पादुका मम कादुपा ॥२२॥ ९३२॥
पापादपापादपापा पादपाददपादपा ।
दपादपापादपाद पादपा ददपादपा ॥२३॥ ९३३॥
कोपोद्दीपकपापेऽपि कृपापाकोपपादिका ।
पूदपादोदकापादोद्दीपिका काऽपि पादुका ॥२४॥ ९३४॥
ततातत्तातितत्तेता ताततीतेतितातितुत् ।
तत्तत्तत्ताततितता ततेतातेततातुता ॥२५॥ ९३५॥
यायायायायायायाया यायायायायायायाया
यायायायायायायाया यायायायायायायाया ॥२६॥ ९३६॥
रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे ।
कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता ॥२७॥ ९३७॥
दत्तकेलिं जगत्कल्पनानाटिका-
रङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।
तादृशे गाधिपुत्राध्वरे त्वां विनाऽ-
पादुक अपादुका पादुका पादुका ॥२८॥ ९३८॥
पादपापादपापादपापादपा पादपा पादपापादपापादपा ।
पादपापादपापादपापादपापादपापादपापादपापादपा ॥२९॥ ९३९॥
साकेतत्रानवेलाजनितततनिजप्राङ्कणश्रीप्रभासा
साभाप्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा ।
सालादिच्छेदतिग्माहवरुरुरुवह ह्रीकरस्यामरासा-
सा रामस्याङ्घ्रिमभ्याजतिनननतिजस्थूलमुत्रातकेसा ॥३०॥ ९४०॥
रम्ये वेश्मनि पापराक्षसभिदास्वासत्तधीनायिका
नन्तुं कर्मजदुर्मदालसधियां सा हन्तनाथीकृता ।
सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिका
काचित्स्वैरगमेन केलिसमये कामव्रता पादुका ॥३१॥ ९४१॥
श्रीसंवेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटः
श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना ।
वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथेऽ-
ङ्कस्था चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन ॥३२॥ ९४२॥
कनकपीठनिविष्टतनुस्तदा सुमतिदायिनिजानुभवस्मृता ।
विधिशिवप्रमुखैरभिवन्दिता विजयते रघुपुङ्ग्वपादुका ॥३३॥ ९४३॥
दीनगोपीजनि क्लिष्टभीनुत्सदा
रामपादावनि स्वानुभावस्थिता ।
एधि मेऽवश्यमुत्तारभावश्रिता
तेजसा तेन घुष्टिं गता पालिका ॥३४॥ ९४४॥
धामनिराकृत तामसलोका धातृमुखैर्विनता निजदासैः ।
पापमशेषमपाकुरुषे मे पादु विभूषितराघवपादा ॥३५॥ ९४५॥
कृपानघत्रातसुभूरदुष्टा
मेध्या रुचा पारिषदामभूपा ।
पदावनि स्त्यानसुखैर्न तृप्ता
कान्त्या समेताधिकृताऽनिरोधा ॥३६॥ ९४६॥
सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।
साहसकार्यवनाशा धीरा वसुदा नवन्यासा ॥३७॥ ९४७॥
सान्याऽवनदा सुरवराऽधीशाना वर्यका सहसा ।
ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा ॥३८॥ ९४८॥
तारस्फारतरस्वररसभररा सा पदावनी सारा ।
धीरस्वैरचरस्थिर रघुपुरवासरतिरामसवा ॥३९॥ ९४९॥
चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।
चरमपुरुषार्थचित्रौ चरणावनि दिशसि चत्वरेषु सताम् ॥४०॥ ९५०॥
इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
चित्रपद्धतिः त्रिंशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP