पुष्पपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता ।
पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥१॥ ३२१॥
दैवतं मम जगत्त्रयार्चिता दिव्यदम्पतिविहारपादुका ।
पाणिपादकमलार्पणात् तयोर्या भजत्यनुदिनं सभाजनम् ॥२॥ ३२२॥
तव रङ्गराजमणिपादु ततो विहितार्हणः सुरसरित्पयसा ।
अवतंसचन्द्रकलया गिरिशो नवकेतकीदलमिवार्चयति ॥३॥ ३२३॥
कुसुमेषु समर्पितेषु भक्तै-
स्त्वयि रङ्गेशपदावनि प्रतीमः ।
शठकोपमुनेस्त्वदेकनाम्नः
सुभगं यत् सुरभित्वमस्य नित्यम् ॥४॥ ३२४॥
पदे परस्मिन् भुवने विधातुः
पुण्यैः प्रसूनैः पुलिने सरय्वाः ।
मध्ये च पादावनि सह्यसिन्धो-
रासीच्चतुःस्थानमिवार्चनं ते ॥५॥ ३२५॥
तवैव रङ्गेश्वरपादरक्षे सौभाग्यमव्याहतमाप्तुकामाः ।
सुरद्रुमाणां प्रसवैः सुजातैरभ्यर्चयन्त्यप्सरसो मुहुस्त्वाम् ॥६॥ ३२६॥
निवेशितां रङ्गपतेः पदाब्जे मन्ये सपर्यां मणिपादरक्षे ।
त्वदर्पणादापतितामपश्यद् गाण्डीवधन्वा गिरिशोत्तमाङ्गे ॥७॥ ३२७॥
पत्राणि रङ्गनृपतेर्मनिपादरक्षे
द्वित्राण्यपि त्वयि समर्प्य विभूतिकामाः ।
पर्यायलब्धपुरुहूतपदाः शचीनां
पत्राङ्कुराणि विलिखन्ति पयोधरेषु ॥८॥ ३२८॥
निर्वर्तयन्ति तव ये निचितानि पुष्पै-
र्वैहारिकाण्युपवनानि वसुन्धरायाम् ।
कालेन ते कमललोचनपादरक्षे
क्रीडन्ति नन्दनवने कृतिनः पुमांसः ॥९॥ ३२९॥
अर्चन्ति ये मुरभिदो मणिपादरक्षे
भावात्मकैरपि परं भवतीं प्रसूनैः ।
मन्दारदामसुभगैर्मुकुटैरजस्रं
वृन्दारकाः सुरभयन्ति पदं तदीयम् ॥१०॥ ३३०॥
अस्पृष्टदोषपरिमर्षमलङ्घ्यमन्यै-
र्हस्तापचेयमखिलं पुरुषार्थवर्गम् ।
चित्रं जनार्दनपदावनि साधकानां
त्वय्यर्पिताः सुमनसः सहसा फलन्ति ॥११॥ ३३१॥
वन्दारुभिः सुरगणैस्त्वयि संप्रयुक्ता
माला विभाति मधुसूदनपादरक्षे ।
विक्रान्तविष्णुपदसंश्रयबद्धसख्या
भागीरथीव परिरम्भणकाङ्क्षिणी ते ॥१२॥ ३३२॥
ये नाम रङ्गनृपतेर्मणिपादुके त्वा-
मभ्यर्चयन्ति कमलैरधिकर्तुकामाः ।
आरोपयत्यवहिता नियतिः क्रमात् तान्
कल्पान्तरीयकमलासनपत्रिकासु ॥१३॥ ३३३॥
त्वय्यर्पितानि मनुजैर्मणिपादरक्षे
दूर्वाङ्कुराणि सुलभान्यथवा तुलस्यः ।
साराधिकाः सपदि रङ्गनरेन्द्रशक्त्या
संसारनागदमनौषधयो भवन्ति ॥१४॥ ३३४॥
आराध्य नूनमसुरार्दनपादुके त्वा-
मामुष्मिकाय विभवाय सहस्रपत्रैः ।
मन्वन्तरेषु परिवर्तिषु देवि मर्त्याः
पर्यायतः परिणमन्ति सहस्रनेत्राः ॥१५॥ ३३५॥
धन्यैस्त्वयि त्रिदशरक्षकपादरक्षे
पुष्पाणि काञ्चनमयानि समर्पितानि ।
विस्रंसिना विनमतो गिरिशोत्तमाङ्गा-
दारग्वधेन मिलितान्यपृथग्भवन्ति ॥१६॥ ३३६॥
विश्वोपसर्गशमनं त्वयि मन्यमानै-
र्वैमानिकैः प्रणिहितं मणिपादरक्षे ।
पद्मासहायपदपद्मनखार्चिषस्ते
पुष्पोपहारविभवं पुनरुक्तयन्ति ॥१७॥ ३३७॥
नाकौकसां शमयितुं परिपन्थिवर्गान्
नाथे पदं त्वयि निवेशयितुं प्रवृत्ते ।
त्वत्संश्रितां विजहतस्तुलसीं वमन्ति
प्रस्थानकाहलरवान्प्रथमं द्विरेफाः ॥१८॥ ३३८॥
रङ्गेशपादपरिभोगसुजातगन्धां
संप्राप्य देवि भवतीं सह दिव्यपुष्पैः ।
नित्योपदर्शितरसं न किलाद्रियन्ते
नाभीसरोजमपि नन्दनचञ्चरीकाः ॥१९॥ ३३९॥
प्रागेव काञ्चनपदावनि पुष्पवर्षा-
त्संवर्तिते शमितदैत्यभयैः सुरेन्द्रैः ।
पद्मेक्षणस्य पदपद्मनिवेशलाभे
पुष्पाभिषेकमुचितं प्रतिपद्यसे त्वम् ॥२०॥ ३४०॥
दिशिदिशि मुनिपत्न्यो दण्डकारण्यभागे
न जहति बहुमानान्नूनमद्यापि मूलम् ।
रघुपतिपदरक्षे त्वत्परिष्कारहेतो-
रपचितकुसुमानामाश्रमानोकहानाम् ॥२१॥ ३४१॥
घटयसि परिपूर्णान् कृष्णमेघप्रचारे
कृतिभिरुपहृतैस्त्वं केतकीगर्भपत्रैः ।
वरतनुपरिणामाद्वामतः श्यामलानां
प्रणतिसमयलग्नान्पादुके मौलिचन्द्रान् ॥२२॥ ३४२॥
परिचरणनियुक्तैः पादुके रङ्गभर्तुः
पवनतनयमुख्यैरर्पितां त्वत्समीपे ।
विनतविधिमुखेभ्यो निर्विशेषां द्विरेफाः
कथमपि विभजन्ते काञ्चनीं पद्मपङ्क्तिम् ॥२३॥ ३४३॥
विधिशिवपुरुहूतस्पर्शितैर्दिव्यपुष्पै-
स्त्वयि सह निपतन्तस्तत्तदुद्यानभृङ्गाः ।
मधुरिपुपदरक्षे मञ्जुभिः स्वैर्निनादै-
रविदितपरमार्थान् नूनमध्यापयन्ति ॥२४॥ ३४४॥
प्रशमयति जनानां संज्वरं रङ्गभर्तुः
परिसरचलितानां पादुके चामराणाम् ।
अनुदिनमुपयातैरुत्थितं दिव्यपुष्पै-
र्निगमपरिमलं ते निर्विशन् गन्धवाहः ॥२५॥ ३४५॥
अखिलभुवनरक्षानाटिकां दर्शयिष्य-
न्ननिमिषतरुपुष्पैरर्चिते रङ्गमध्ये ।
अभिनयमनुरूपं शिक्षयत्यात्मना त्वां
प्रथमविहितलास्यः पादुके रङ्गनाथः ॥२६॥ ३४६॥
अगलितनिजरागां देवि विष्णोः पदं त-
त्त्रिभुवनमहनीयां प्राप्य सन्ध्यामिव त्वाम् ।
भवति विबुधमुक्तैः स्पष्टतारानुषङ्गं
परिसरपतितैस्ते पारिजातप्रसूनैः ॥२७॥ ३४७॥
व्यञ्जन्त्येते विभवमनघं रञ्जयन्तः श्रुतीर्नः
प्राध्वं रङ्गक्षितिपतिपदं पादुके धारयन्त्याः ।
नादैरन्तर्निहितनिगमैर्नन्दनोद्यानभृङ्गा
दिव्यैः पुष्पैः स्नपितवपुषो देवि सौस्नातिकास्ते ॥२८॥ ३४८॥
किं पुष्पैस्तुलसीदलैरपि कृतं दूर्वाऽपि दूरे स्थिता
त्वत्पूजासु मुकुन्दपादु कृपया त्वं कामधेनुः सताम् ।
प्रत्यग्राहृतदर्भपल्लवलवग्रासाभिलाषोन्मुखी
धेनुस्तिष्ठतु सा वसिष्ठभवनद्वारोपकण्ठस्थले ॥२९॥ ३४९॥
चूडारग्वधरजसा चूर्णस्नपनं विधाय ते पूर्वम् ।
रङ्गेशपादुके त्वामभिषिञ्चति मौलिगङ्गया शम्भुः ॥३०॥ ३५०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
पुष्पपद्धतिर्द्वादशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP