समाख्यापद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् । var पादुकाम् च ताम्
यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥२१॥
द्रविडोपनिषन्निवेशशून्यानपि लक्ष्मीरमणाय रोचयिष्यन् ।
ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः ॥२२॥
नियतं मणिपादुके दधानः स मुनिस्ते शठकोप इत्यभिख्याम् ।
त्वदुपाश्रितपादजातवंशप्रतिपत्यै परमाततान रूपम् ॥३॥ २३॥
मुनिना मणिपादुके त्वया च प्रथिताभ्यां शठकोपसंज्ञयैव ।
द्वितयं सकलोपजीव्यमासीत्प्रथमेन श्रुतिरन्यतस्तदर्थः ॥४॥ २४॥
आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः ।
मञ्जुप्रणादां मणिपादुके त्वां तदेकनामानमनुस्मरन्ति ॥५॥ २५॥
यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः । var स सप्त
तस्यापि नामोद्वहनात् त्वयाऽसौ लघूकृतोऽभूच्छठकोपसूरिः ॥६॥ २६॥
शय्यात्मना मधुरिपोरसि शेषभूता
पादाश्रयेण च पुनर्द्विगुणीकृतं तत् ।
भूयोऽपि भागवतशेषतया तदेव
व्यङ्क्तुं पदावनि शठारिपदं बिभर्षि ॥७॥ २७॥
पद्येन देवि शठकोपमुनिस्तवासी-
त्तस्यापि नामवहनान्मणिपादुके त्वम् ।
शेषीबभूव युवयोरपि शेषशायी
शेषं त्वशेषमपि शेषपदे स्थितं वः ॥८॥ २८॥
विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः
कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा ।
नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात् ते
प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या ॥९॥ २९॥
शठकोप इति समाख्या तव रङ्गधुरीणपादुके युक्ता ।
सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती ॥१०॥ ३०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
समाख्यापद्धतिर्द्वितीया ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP