संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्|
इन्द्रनीलपद्धतिः

इन्द्रनीलपद्धतिः

हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.


हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा ।
अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥१॥ ६८१॥

हरिरत्नमरीचयस्तवैते नवनीलीरसनिर्विशेषवर्णाः ।
श्रुतिमूर्धनि शौरिपादरक्षे पलितानुद्भवभेषजं भवन्ति ॥२॥ ६८२॥

अलकैरिव बिम्बितैः श्रुतीनां
हरिनीलैः सृजसि त्वमुन्मयूखैः ।
कमलादयितस्य पादरक्षे
करुणोदन्वति शैवलप्ररोहान् ॥३॥ ६८३॥

अनघैर्हरिनीलपद्धतीनां प्रथमानैर्मणिपादुके मयूखैः ।
अधरीकुरुषे रथाङ्गपाणेरमितामूर्ध्वमवस्थितस्य कान्तिम् ॥४॥ ६८४॥

चरणावनि भाति सह्यकन्या हरिनीलद्युतिभिस्तवानुविद्धा ।
वसुदेवसुतस्य रङ्गवृत्तेर्यमुनेव स्वयमागता समीपम् ॥५॥ ६८५॥

अवधीरितदेवतान्तराणामनघैस्त्वं मणिपादुके मयूखैः ।
हरिनीलसमुद्भवैर्विधत्से हरिसारूप्यमयत्नतो जनानाम् ॥६॥ ६८६॥

नेत्रेषु पुंसां तव पादरक्षे
नीलाश्मभासा निहिताञ्जनेषु ।
श्रिया समं संश्रितरङ्गकोशो
निधिः स्वयं व्यक्तिमुपैति नित्यम् ॥७॥ ६८७॥

अभङ्गुरामच्युतपादरक्षे मान्यां महानीलरुचिं त्वदीयाम् ।
निश्श्रेयसद्वारकवाटिकायाः शङ्के समुत्पानकुञ्चिकां नः ॥८॥ ६८८॥   
जीवयत्यमृतवर्षिणी प्रजास्तावकी दनुजवैरिपादुके ।
घोरसंसरणघर्मनाशिनी कालिकेव हरिनीलपद्धतिः ॥९॥ ६८९॥

शतमखोपलभङ्गमनोहरा विहरसे मुरमर्दनपादुके ।
मणिकिरीटगणेषु दिवौकसां मधुकरीव मनोहरपङ्क्तिषु ॥१०॥ ६९०॥

अन्विच्छतां किमपि तत्त्वमनन्यदृश्यं
सम्यक्प्रकाशजननी धृतकृष्णरूपा ।
पादावनि स्फुरसि वासवरत्नरम्या
मध्ये समाधिनयनस्य कनीनिकेव ॥११॥ ६९१॥

मातः सलीलमधिगम्य विहारवेलां
कान्तिं समुद्वहसि काञ्चनपादुके त्वम् ।
लक्ष्मीकटाक्षरुचिरैर्हरिनीलरत्नै-
र्लावण्यसिन्धुपृषतैरिव रङ्गधाम्नः ॥१२॥ ६९२॥

क्लृप्तावकुण्ठनविधिर्मणिपादरक्षे
नीलांशुकैर्वलभिदश्मसमुद्भवैस्ते ।
सङ्गच्छते मुनिजनस्य मतिः समाधौ
रात्रौ समस्तजगतां रमणेन लक्ष्म्याः ॥१३॥ ६९३॥

द्रष्टुं कदाचन पदावनि नैव जन्तुः
शक्नोति शाश्वतनिधिं निहितं गुहायाम् ।
कृष्णानुरूपहरिनीलविशेषदृश्या
सिद्धाञ्जनं त्वमसि यस्य न देवि दृष्टेः ॥१४॥ ६९४॥

प्रत्येमि रङ्गनृपतेर्मणिपादुके त्वां
कृष्णान्तरङ्गरुचिर्भिर्हरिनीलरत्नैः ।
विश्वापराधसहनाय पदं तदीयं
विश्वम्भरां भगवतीं समये भजन्तीम् ॥१५॥ ६९५॥

मत्वा मषीं परिमितां भवती तदन्यां
वैकुण्ठपादरसिके मणिपादुके स्वान् ।
अङ्क्ते स्वयं किरणलेपिभिरिन्द्रनीलै-
राशातटेषु ललितानपदानवर्णान् ॥१६॥ ६९६॥

वलमथनमणीनां धामभिस्तावकानां
मधुरिपुपदरक्षे वासरैरव्यपेता ।
अभिसरणपराणां वल्लवीनां तदाऽऽसी-
च्छमितगुरुभयार्तिः शर्वरी काचिदन्या ॥१७॥ ६९७॥

शतमखमणिभङ्गैरुन्मयूखैर्दिशन्ती
शरणमुपगतानां रङ्गनाथेन साम्यम् ।
प्रथयसि जगति त्वं पादुके हैतुकाना-
मुपनिषदुपगीतां तत्क्रतुन्यायवार्ताम् ॥१८॥ ६९८॥

परिचरति विधौ त्वां पादुके रङ्गभर्तुः
पदसरसिजभृङ्गैर्भासुरैरिन्द्रनीलैः ।
प्रकटितयमुनौघा भक्तिनम्रस्य शम्भोः
परिणमयसि चूडाविष्णुपद्याःप्रयागम् ॥१९॥ ६९९॥

पदकिसलयसङ्गात्पादुके पत्रलश्री-
र्नखमणिभिरुदारैर्नित्यनिष्पन्नपुष्पा ।
शतमखमणिनीला शौरिलावण्यसिन्धो-
र्निबिडतमतमाला काऽपि वेलावनी त्वम् ॥२०॥ ७००॥

त्वयि विनिहितमेतत् केऽपि पश्यन्ति मन्दाः
शतमखमणिजालं शार्ङ्गिणः पादरक्षे ।
वयमिदमिह विद्मः प्राणिनां भावुकानां
हृदयगृहगुहाभ्यः पीतमन्धं तमिस्रम् ॥२१॥ ७०१॥

क्लृप्तश्यामा मणिभिरसितैः कृष्णपक्षेण जुष्टा
श्रेयः पुंसां जनयसि गतिं दक्षिणामुद्वहन्ती ।
तेनास्माकं प्रथयसि परं पादुके तत्त्वविद्भि-
र्मौलौ दृष्टां निगमवचसां मुक्तिकालाव्यवस्थाम् ॥२२॥ ७०२॥

सद्भिर्जुष्टा समुदितविधुर्जैत्रयात्राविनोदे-
ष्वातन्वाना रजनिमनघामिन्द्रनीलांशुजालैः ।
चित्रं ख्याता कुमुदवनतः पादुके पुष्यसि त्वं
व्याकोचत्वंविबुधवनितावक्त्रपङ्केरुहाणाम् ॥२३॥ ७०३॥

नित्यं लक्ष्मीनयनरुचिभिः शोभिता शक्रनीलैः
सालग्रामक्षितिरिव शुभैः शार्ङ्गिणो रूपभेदैः ।
साकेतादेः समधिकगुणां सम्पदं दर्शयन्ती
मुक्तिक्षेत्रं मुनिभिरखिलैः पादुके गीयसे त्वम् ॥२४॥ ७०४॥

पादन्यासप्रियसहचरीं पादुके वासगेहा-
त्त्वामारुह्य त्रिचतुरपदं निर्गते रङ्गनाथे ।
अन्तःस्निग्धैरसुरमहिलावेणिविक्षेपमित्रैः
श्यामच्छायं भवति भवनं शक्रनीलांशुभिस्ते ॥२५॥ ७०५॥

या ते बाह्याङ्गणमभियतः पादुके रङ्गभर्तुः
सञ्चारेषु स्फुरति विततिः शक्रनीलप्रभायाः ।
विष्वक्सेनप्रभृतिभिरसौ गृह्यते वेत्रहस्तै-
र्भ्रूविक्षेपस्तव दिविषदां नूनमाह्वानहेतुः ॥२६॥ ७०६॥

अक्ष्णोरञ्जनकल्पना यवनिका लास्यप्रसूतेर्गते-
श्चिद्गङ्गायमुना मुकुन्दजलधेर्वेलातमालाटवी ।
कान्ताकुन्तलसन्ततिः श्रुतिवधूकस्तूरिकालङ्क्रिया
नित्यं रत्नपदावनि स्फुरति ते नीला मणिश्रेणिक्रा ॥२७॥ ७०७॥

निरन्तरपुरन्दरोपलभुवं द्युतिं तावकी-
मवैमि मणिपादुके सरणिसङ्गिनीं रङ्गिणः ।
तदीयनवयौवनद्विरदमल्लगण्डस्थली-
गलन्मदझलञ्झलाबहुलकज्जलश्यामिकाम् ॥२८॥ ७०८॥

प्रतीमस्त्वं पादावनि भगवतो रङ्गवसते-
र्घनीभूतामित्थं पदकमलमाध्वीपरिणतिम् ।
स्फुरन्तः पर्यन्ते मदगरिमनिष्पन्दमधुप-
प्रसक्तिं यत्रैते विदधति महानीलमणयः ॥२९॥ ७०९॥

नमतां निजेन्द्रनील-
प्रभवेन मुकुन्दपादुके भवती ।
तमसा निरस्यति तमः
कण्टकमिव कण्टकेनैव ॥३०॥ ७१०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वङ्केटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
इन्द्रनीलपद्धतिर्विंशी ॥

N/A

References : N/A
Last Updated : January 29, 2026

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP