प्रस्तावपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
सन्तः श्रीरङ्गपृथ्वीशचरणत्राणशेखराः ।
जयन्ति भुवनत्राणपदपङ्कजरेणवः ॥१॥
भरताय परं नमोऽस्तु तस्मै प्रथमोदाहरणाय भक्तिभाजाम् ।
यदुपज्ञमशेषतः पृथिव्यां प्रथितो राघवपादुकाप्रभावः ॥२॥
वर्णस्तोमैर्वकुलसुमनोवासनामुद्वहन्ती-
माम्नायानां प्रकृतिमपरां संहितां दृष्टवन्तम् ।
पादे नित्यप्रणिहितधियं पादुके रङ्गभर्तु-
स्त्वन्नामानं मुनिमिह भजे त्वामहं स्तोतुकामः ॥३॥
दिव्यस्थानात् त्वमिव जगतीं पादुके गाहमाना
पादन्यासं प्रथममनया भारती यत्र चक्रे ।
योगक्षेमं सकलजगतां त्वय्यधीनं स जान-
न्वाचं दिव्यां दिशतु वसुधाश्रोत्रजन्मा मुनिर्मे ॥४॥
नीचेऽपि हन्त मम मूर्धनि निर्विशेषं
तुङ्गेऽपि यन्निवेशते निगमोत्तमाङ्गे ।
प्राचेतसप्रभृतिभिः प्रथमोपगीतं
स्तोष्यामि रङ्गपतिपादुकयोर्युगं तत् ॥५॥
धत्ते मुकुन्दमणिपादुकयोर्निवेशा-
द्वल्मीकसम्भवगिरां समतां ममोक्तिः ।
गङ्गाप्रवाहपतितस्य कियानिव स्या-
द्रथ्योदकस्य यमुनासलिलाद्विशेषः ॥६॥
विज्ञापयामि किमपि प्रतिपन्नभीतिः
प्रागेव रङ्गपतिविभ्रमपादुके त्वाम् ।
वक्तुं क्षमाः सदसती विगताभ्यसूयाः
सन्तः स्पृशन्तु सदयैर्हृदयैः स्तुतिं ते ॥७॥
अश्रद्दधानमपि नन्वधुना स्वकीये
स्तोत्रे नियोजयसि मां मणिपादुके त्वम् ।
देवः प्रमाणमिह रङ्गपतिस्तथात्वे
तस्यैव देवि पदपङ्कजयोर्यथा त्वम् ॥८॥
यदाधारं विश्वं गतिरपि च यस्तस्य परमा
तमप्येका धत्से दिशि वरगतिं तस्य रुचिराम् ।
कथं सा कंसारेर्द्रुहिणहरदुर्बोधमहिमा
कवीनां क्षुद्राणां त्वमसि मणिपादु स्तुतिपदम् ॥९॥
श्रुतप्रज्ञासम्पन्महितमहिमानः कतिकति
स्तुवन्ति त्वां सन्तः श्रुतिकुहरकण्डूहरगिरः ।
अहं त्वल्पस्तद्वदिह बहु च जल्पामि तदपि त्वल्पस्तद्वद्यदिह
त्वदायत्तं रङ्गक्षितिरमणपादावनि विदुः ॥१०॥
यदेष स्तौमि त्वां त्रियुगचरणत्रायिणि ततो
महिम्नः का हानिस्तव मम तु सम्पन्निरवधिः ।
शुना लीढा कामं भवतु सुरसिन्धुर्भगवती
तदेषा किम्भूता स तु सपदि सन्तापरहितः ॥११॥
मितप्रेक्षालाभक्षणपरिणमत्पञ्चषपदा
मदुक्तिस्त्वय्येषा महितकविसंरम्भविषये ।
न कस्येयं हास्या हरिचरणधात्रि क्षितितले
मुहुर्वात्याधूते मुखपवनविस्फूर्जितमिव ॥१२॥
निःसन्देहनिजापकर्षविषयोत्कर्षोऽपि हर्षोदय-
प्रतूहक्रमभक्तिवैभवभवद्वैयात्यवाचालितः ।
रङ्गाधीशपदत्रवर्णनकृतारम्भैर्निगुम्भैर्गिरां
नर्मास्वादिषु वेङ्कटेश्वरकविर्नासीरमासीदति ॥१३॥
रङ्गक्ष्मापतिरत्नपादु भवतीं तुष्टूषतो मे जवा-
ज्जृम्भन्तां भवदीयशिञ्जितसुधासन्दोहसन्देहदाः ।
श्लाघाघूर्णितचन्द्रशेखरजटाजङ्घालगङ्गापय-
स्त्रासादेशविशृङ्खलप्रसरणोत्सिक्ताः स्वयं सूक्तयः ॥१४॥
हिमवन्नलसेतुमध्यभाजां भरताभ्यर्चितपादुकावतंसः ।
अतपोधनधर्मतः कवीनामखिलेष्वस्मि मनोरथेष्वबाह्यः ॥१५॥
अनिदम्प्रथमस्य शब्दराशेरपदं रङ्गधुरीणपादुके त्वाम् ।
गतभीतिरभिष्टुवन् विमोहात्परिहासेन विनोदयामि नाथम् ॥१६॥
वृत्तिभिर्बहुविधाभिराश्रिता वेङ्कटेश्वरकवेः सरस्वती ।
अद्य रङ्गपतिरत्नपादुके नर्तकीव भवतीं निषेवताम् ॥१७॥
अपारकरुणाम्बुधेस्तव खलु प्रसादादहं
विधातुमपि शक्नुयां शतसहस्रिकां संहिताम् ।
तथापि हरिपादुके तव गुणौघलेशस्थिते-
रुदाहृतिरियं भवेदिति मिताऽपि युक्ता स्तुतिः ॥१८॥
अनुकृतनिजनादां सूक्तिमापादयन्ती
मनसि वचसि च त्वं सावधाना मम स्याः ।
निशमयति यथाऽसौ निद्रया दूरमुक्तः
परिषदि सह लक्ष्म्या पादुके रङ्गनाथः ॥१९॥
त्वयि विहिता स्तुतिरेषा पदरक्षिणि भवति रङ्गनाथपदे ।
तदुपरि कृता सपर्या नमतामिव नाकिनां शिरसि ॥२०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
प्रस्तावपद्धतिः प्रथमा ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP