संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| मरकतपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः मरकतपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन मरकतपद्धतिः Translation - भाषांतर वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥१॥ ६६१॥सविलासगतेषु रङ्गभर्तु-स्त्वदधीनेषु बहिष्कृतो गरुत्मान् ।अधिगच्छति निर्वृतिं कथञ्चि-न्निजरत्नैस्त्वयि पादुके निविष्टैः ॥२॥ ६६२॥समये मणिपादुके मुरारे-र्मुहुरन्तःपुरमुग्धचेटिकास्ते ।हरितान् हरिदश्मनां मयूखां-स्तुलसीपल्लवशङ्कया क्षिपन्ति ॥३॥ ६६३॥हरितः सहसा हरिन्मणीनांप्रभया रङ्गनरेन्द्रपादरक्षे ।तुलसीदलसम्पदं दधातित्वयि भक्तैर्निहितः प्रसूनराशिः ॥४॥ ६६४॥प्रसादयन्ती मणिपादुके त्वंविक्षेपयोगेन विहारवेलाम् ।हरिन्मनोज्ञा हरिकान्तिसिन्धोःसन्दृश्यसे शैवलमञ्जरीव ॥५॥ ६६५॥बध्नासि रङ्गेश्वरपादरक्षेहरिन्मणीनां प्रभया स्फुरन्त्या ।चूडापदेषु श्रुतिसुन्दरीणांमाङ्गल्यदूर्वाङ्कुरमाल्यपङ्क्तिम् ॥६॥ ६६६॥अच्छेद्यरश्मिनियतैर्घटिता हरिद्भिःसद्वर्त्मना गतिमती मणिपादरक्षे ।सन्दृश्यसे सवितृमण्डलमध्यभाजोरङ्गेश्वरस्य रथसम्पदिवापरा त्वम् ॥७॥ ६६७॥श्यामायमाननिगमान्तवनोपकण्ठाःस्थाने पदावनि हरिन्मणयस्त्वदीयाः ।पर्यन्तशाद्वलवतीं प्रथयन्ति नित्यंनारायणस्य रुचिरां नखरश्मिगङ्गाम् ॥८॥ ६६८॥उद्दिश्य कामपि गतिं मणिपादरक्षेरङ्गेश्वरस्य चरणे विनिवेशितात्मा ।प्रायो हरिन्मणिरुचा दृढभक्तिबन्धाप्रादुष्करोति भवती तुलसीवनानि ॥९॥ ६६९॥सेवार्थमागतवतां त्रिदशेश्वराणांचूडामणिप्रकरशालिषु मौलिषु त्वम् ।संवर्तयस्यसुरमर्दनपादरक्षेस्वेनाश्मगर्भमहसा शुकपङ्क्तिशोभाम् ॥१०॥ ६७०॥दरपरिणतदूर्वावल्लरीनिर्विशेषै-र्मरकतशकलानां मांसलैरंशुजालैः ।पशुपतिविधृता त्वं तस्य पाणौ निषण्णंमधुरिपुपदरक्षे वञ्चयस्येणशावम् ॥११॥ ६७१॥हरिचरणसरोजन्यासयोग्यं भवत्याःप्रगुणमभिलषन्त्यो वर्णलाभं तुलस्यः ।प्रतिदिनमुपहारैः पादुके तावकानांमरतकशकलानामाश्रयन्ते मयूखान् ॥१२॥ ६७२॥हरितमणिमयूखैरञ्चिताध्यात्मगन्धै-र्दिशसि चरणरक्षे जातकौतूहला त्वम् ।दनुजमथनलीलादारिकाणामुदारांदमनकदलपङ्क्तिं देवि मौलौ श्रुतीनाम् ॥१३॥ ६७३॥अधिगतबहुशाखैरश्मगर्भप्रसूतै-र्मधुरिपुपदरक्षे मेचकैरंशुजालैः ।अनितरशरणानां नूनमारण्यकानांकिमपि जनयसि त्वं कीचकारण्यदुर्गम् ॥१४॥ ६७४॥प्रचुरनिगमशाखां पादुके रङ्गिणस्त्वांचरणनखमयूखैश्चारुपुष्पानुबन्धाम् ।मरतकदलरम्यां मन्महे सञ्जरन्तींकनकसरिदनूपे काञ्चिदुद्यानलक्ष्मीम् ॥१५॥ ६७५॥नखकिरणनिकायैर्नित्यमाविर्मृणालेमहितरसविशेषे मेचकैरंशुभिस्ते ।परिकलयसि रम्यां पादुके रङ्गभर्तुःपदकमलसमीपे पद्मिनीपत्रपङ्क्तिम् ॥१६॥ ६७६॥अनिमिषयुवतीनामार्तनादोपशान्त्यैत्वयि विनिहितपादे लीलया रङ्गनाथे ।दधति चरणरक्षे दैत्यसौधानि नूनंमरकतरुचिभिस्ते मङ्क्षु दूर्वाङ्कुराणि ॥१७॥ ६७७॥विपुलतममहोभिर्वीतदोषानुषङ्गंविलसदुपरिनैल्यं देवि विष्णोः पदं तत् ।पृथुमरकतदृश्यां प्राप्य पादावनि त्वांप्रकटयति समन्तात् संप्रयोगं हरिद्भिः ॥१८॥ ६७८॥पद्माभूम्योः प्रणयसरणिर्यत्र पर्यायहीनायत्संसर्गादनघचरिताः पादुके कामचाराः ।तारासक्तं तमिह तरुणं प्रीणयन्ते जरत्योनित्यश्यामास्तव मरतकैर्नूनमाम्नायवाचः ॥१९॥ ६७९॥स्थलकमलीनीव काचिच्चरणावनि भासि कमलवासिन्याः ।यन्मरतकदलमध्ये यः कश्चिदसौ समीक्ष्यते शौरिः ॥२०॥ ६८०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेमरतकपद्धतिरेकोनविंशी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP