परागपद्धतिः
हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे.
पान्तु वः पद्मनाभस्य पादुकाकेलिपांसवः ।
अहल्यादेहनिर्माणपर्यायपरमाणवः ॥१॥ ३५१॥
तव सञ्चरणाद्रजो विधूतं यदिदं रङ्गनरेन्द्रपादरक्षे ।
अलमेतदनाविलानि कर्तुं कतकक्षोद इवाशु मानसानि ॥२॥ ३५२॥
पुनरुक्तपितामहानुभावाः पुरुषाः केचिदमी पुनन्ति विश्वम् ।
मधुवैरिपदारविन्दबन्धोरपरागास्तव पादुके परागैः ॥३॥ ३५३॥
अभियुक्तजनो निजार्भकाणां बहुशो रङ्गनरेन्द्रपादरक्षे ।
अवलेपपिशाचमोचनार्थं रजसा लिम्पति तावकेन देहान् ॥४॥ ३५४॥
शिरसा परिगृह्य लोकपालास्तव रङ्गेश्वरपादुके रजांसि ।
विषमेषु बलेषु दानवानां व्यपनीतान्यशिरस्त्रमाविशन्ति ॥५॥ ३५५॥
कृतिनः शिरसा समुद्वहन्तः कतिचित् केशवपादुके रजस्ते ।
रजसरतमसोऽपि दूरभूतं परिपश्यन्ति विशुद्धमेव सत्वम् ॥६॥ ३५६॥
अधिकं पदमाश्रितोऽपि वेधाः प्रयतो रङ्गधुरीणपादरक्षे ।
अभिवाञ्छति सङ्गमं परागैरभिजातैस्तव देवि नाभिजातः ॥७॥ ३५७॥
शुद्धसत्त्ववपुषैव भवत्या पादुके विरजसौ हरिपादौ ।
अस्तु किं पुनरिदं रजसा ते शुद्धसत्त्वमयता मनुजानाम् ॥८॥ ३५८॥
तद्रजस्तव तनोति पादुके
मानसान्यकठिनानि देहिनाम् ।
प्रस्तरस्य पदवीगतस्य य-
द्व्याचकार मुनिधर्मदारताम् ॥९॥ ३५९॥
रङ्गेशयस्य पुरुषस्य जगद्विभूत्यै
रथ्यापरिक्रमविधौ मनिपादरक्षे ।
सीमन्तदेशमनवद्यसरस्वतीनां
सिन्दूरयन्ति भवतीचरिताः परागाः ॥१०॥ ३६०॥
मान्येन रङ्गनृपतेर्मणिपादरक्षे
चूडापदानि रजसा तव भूषयन्तः ।
कालक्रमेण भजतां कमलासनत्वं
नाभीसरोजरजसां निवसन्ति मध्ये ॥११॥ ३६१॥
मातर्मुकुन्दचरणावनि तावकीना-
श्चिन्तावशीकरणचूर्णविशेषकल्पाः ।
सञ्चारपांसुकणिकाः शिरसा वहन्तो
विश्वं पुनन्ति पदपद्मपरागलेशैः ॥१२॥ ३६२॥
आयोजितान्यमलधीभिरनन्यलभ्ये
पादावनि श्रुतिवधूपटवासकृत्ये ।
त्वत्सञ्चरप्रचलितानि रजांसि शौरेः
प्रख्यापयन्ति पदपद्मपरागशोभाम् ॥१३॥ ३६३॥
मूर्धानमम्ब मुरभिन्मणिपादरक्षे
येषां कदाऽपि रजसा भवती पुनाति ।
त्वामेव ते सुकृतिनः स्नपयन्ति काले
मन्दारदामरजसा मकुटच्युतेन ॥१४॥ ३६४॥
रथ्याविहार रजसा परिधूसराङ्गीं
रङ्गेश्वरस्य ललितेषु महोत्सवेषु ।
प्रस्फोटयत्यवनतो मणिपादुके त्वां
गौरीपतिः स्वयमिभाजिनपल्लवेन ॥१५॥ ३६५॥
नेदीयसां निजपरागनिवेशपूर्वं
स्पृष्ट्वा शिरांसि भवती भवरोगभाजाम् ।
गाढं निपीड्य गरुडध्वजपादरक्षे
मानग्रहं शमयतीव परैरसाध्यम् ॥१६॥ ३६६॥
आपातवल्लवतनोरकुमारयूनः
पादावनि प्रविशतो यमुनानिकुञ्जान् ।
आसीदनङ्गसमरात्पुरतः प्रवृत्तः
सेनापराग इव ते पदवीपरागः ॥१७॥ ३६७॥
गङ्गापगातटलतागृहमाश्रयन्त्याः
पादावनि प्रचलितं पदवीरजस्ते ।
प्रायेण पावनतमं प्रणतस्य शम्भोर्-
उद्धूलनं किमपि नूतनमातनोति ॥१८॥ ३६८॥
अन्ते तदा त्वमविलम्बितमानयन्ती
रङ्गाद्भुजङ्गशयनं मणिपादरक्षे ।
कामं निवर्तयितुमर्हसि सज्ज्वरं मे
कर्पूरचूर्णपटलैरिव धूलिभिस्ते ॥१९॥ ३६९॥
रङ्गेशपादसहधर्मचरि त्वदीयान्
मौलौ निवेश्य महितान्पदवीपरागान् ।
सन्तस्त्रिवर्गपदवीमतिलङ्घयन्तो
मौलौ पदं विदधते विबुधेश्वराणाम् ॥२०॥ ३७०॥
मातस्तदा माधवपादरक्षे त्वयि प्रसक्तं त्वरयोपयान्त्याम् ।
परामृशेयं पदवीपरागं प्राणैः प्रयाणाय समुज्जिहानैः ॥२१॥ ३७१॥
तथागता राघवपादरक्षे सम्पश्यमानेषु तपोधनेषु ।
आसीदहल्या तव पांसुलेशैरपांसुलानां स्वयमग्रगण्या ॥२२॥ ३७२॥
पश्यामि पद्मेक्षणपादरक्षे भवाम्बुधिं पातुमिव प्रवृत्तान् ।
भक्तोपयानत्वरया भवत्याः पर्यस्यमानान्पदवीपरागान् ॥२३॥ ३७३॥
पञ्चायुधी भूषणमेव शौरेर्यतस्तवैते मणिपादरक्षे ।
वितन्वते व्याप्तदिशः परागाः शान्तोदयाञ्छत्रुचमूपरागान् ॥२४॥ ३७४॥
परिणतिमकठोरां प्राप्तया यत्प्रभावा-
दलभ शिलया स्वान् गौतमो धर्मदारान् ।
पुनरुपजनिशङ्कावारकं पादुके त-
त्प्रशमयति रजस्ते रागयोगं प्रजानाम् ॥२५॥ ३७५॥
रजनिविगमकाले रामगाथां पठन्तः
कुशिकतनयमुख्याः पादुके भावयन्ते ।
उपलशकलसक्तैस्त्वत्परागैरकाण्डे
जनितमुनिकलत्रान् दण्डकारण्यभागान् ॥२६॥ ३७६॥
शुभसरणिरजोभिः शोभयन्ती धरित्रीं
परिणतिरमणीयान्प्रक्षरन्ती पुमर्थान् ।
भवसि भुवनवन्द्या पादुके रङ्गभर्तुः
शरणमुपगतानां शाश्वती कामधेनुः ॥२७॥ ३७७॥
पवनतरलितस्ते पादुके रङ्गभर्तु-
र्विहरणसमयेषु व्याप्तविश्वः परागः ।
विषमविषयवर्त्मव्याकुलानामजस्रं
व्यपनयति जनानां वासनारेणुजालम् ॥२८॥ ३७८॥
निष्प्रत्यूहमुपासिषीमहि मुहुर्निश्शेषदोषच्छिदो
नित्यं रङ्गधुरन्धरस्य निगमस्तोमार्चिते पादुके ।
धत्ते मूर्धभिरादिपद्मजनिता तत्तादृशी सन्तति-
र्यत्सञ्चारपवित्रितक्षितिरजःपङ्क्तिं चतुःपञ्चषैः ॥२९॥ ३७९॥
रजसा परोरजस्त-न्न खलु न लङ्घ्येत भगवतोऽपि पदम् ।
किमुत हृदयं मदीयं भवती यदि नाम पादुके न स्यात् ॥३०॥ ३८०॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
परागपद्धतिस्त्रयोदशी ॥
N/A
References : N/A
Last Updated : January 29, 2026

TOP