संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| अधिकारपरिग्रहपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः अधिकारपरिग्रहपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन अधिकारपरिग्रहपद्धतिः Translation - भाषांतर अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥१॥ १४१॥मोचितस्थिरचरानयत्नतः कोसलान् जनपदानुपास्महे ।येषु कांश्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका ॥२॥ १४२॥साम्राज्यसम्पदिव दासजनोचिता त्वंरामेण सत्यवचसा भरताय दत्ता ।स त्वां निवेश्य चरणावनि भद्रपीठेपृथ्वीं बुभोज बुभुजे च शोविभूतिम् ॥३॥ १४३॥भोगाननन्यमनसां मणिपादुके त्वंपुष्णासि हन्त भजनामनुषङ्गसिद्धान् ।तेनैव नूनमभवद्भरतस्य साधो-रप्रार्थितं तदिह राज्यमवर्जनीयम् ॥४॥ १४४॥रामप्रयाणजनितं व्यपनीय शोकंरत्नासने स्थितवती मणिपादरक्षे ।पृथ्वीं निजेन यशसा विहितोत्तरीया-मेकातपत्रतिलकां भवती वितेने ॥५॥ १४५॥रामाज्ञया परवती परिगृह्य राज्यंरत्नासनं रघुकुलोचितमाश्रयन्ती ।शुद्धां पदावनि पुनर्भवती वितेनेस्वातन्त्र्त्यलेशकलुषां भरतस्य कीर्तिम् ॥६॥ १४६॥पौलस्त्यवीरवदनस्तबकावसाना-त्पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।रक्षाधुरं धृतवती मणिपादुके त्वंरामस्य मैथिलसुतासहिते प्रचारे ॥७॥ १४७॥पादावनि प्रचलचामरवृन्दमध्येभद्रासनास्तरगता भवती विरेजे ।आकीर्णदिव्यसलिले कटके सुमेरो-रम्भोजिनीव कलहायितहंसयूथा ॥८॥ १४८॥मान्ये रघूद्वहपदे मणिपादुके त्वांविन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।आलोलमक्षवलयी भरतो जटावा-नालम्ब्य चामरमनन्यमनाः सिषेवे ॥९॥ १४९॥प्राप्ते दिवं दशरथे भरते विलक्षेपर्याकुलेषु परमुत्तरकोसलेषु ।त्वं चेदुपेक्षितवती क इवाभविष्य-त्गोपायिता गुह्यसखस्य विभोः पदं तत् ॥१०॥ १५०॥ भ्रातुर्यदम्ब विरहाद्भरते विषण्णेदाक्षिण्यमाश्रितवती मणिपादुके त्वम् ।आसीदशेषजगतां श्रवणामृतं त-द्वाचालकाहलसहं बिरुदं तदा ते ॥११॥ १५१॥राज्यं तदा दशरथादनु रामतः प्राक्बिभ्राणया चरणरक्षिणि वीतखेदम् ।तुल्याधिकारभजनेन बभूव धन्योवंशस्त्वयाऽम्ब मनुवंशमहीपतीनाम् ॥१२॥ १५२॥वर्षाणि तानि वृषलो न तपांसि तेपेबालो न कश्चिदपि मृत्युवशं जगाम ।राज्ये तवाम्ब रघुपुङ्गवपादरक्षेनैवापरं प्रतिविधेयमभूत्प्रसक्तम् ॥१३॥ १५३॥विश्वं त्वदाश्रितपदाम्बुजसम्भवायांयस्यां प्रतिष्ठितमिदं मणिपादरक्षे ।आसीदनन्यशरणा समये यथाव-त्साऽपि त्वया वसुमती विहितप्रतिष्ठा ॥१४॥ १५४॥प्रायेण रामविरहाव्द्यथिता तदानी-मुत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।तामेव देवि ननु जीवयितुं जलार्द्रा-मङ्गीचकार भवती भरतोपनीताम् ॥१५॥ १५५॥वीरव्रतप्रणयिनि प्रथमे रघूणांप्राप्ते चिराय भरते व्रतमासिधारम् ।त्यक्त्वा पदावनि तदा विविधान् विहारा-नेकासिकाव्रतमपूर्वमवर्तयस्त्वम् ॥१६॥ १५६॥काकुत्स्थपादविरहप्रतिपन्नमौनांनिष्पन्दतामुपगतां मणिपादरक्षे ।आश्वासयन्निव मुहुर्भरतस्तदानींशीतैरवीजयत चामरमारुतैस्त्वाम् ॥१७॥ १५७॥यत्र क्वचिद्विहरतोऽपि पदारविन्दंरक्ष्यं मया रघुपतेरिति भावयन्त्या ।निश्शेषमेव सहसा मणिपादरक्षेनिष्कण्टकं जगदिदं विदधे भवत्या ॥१८॥ १५८॥रामं त्वया विरहितं भरतं च तेनत्रातुं पदावनि तदा यदभूत्प्रतीतम् ।रामानुजस्य तव चाम्ब जगत्समस्तं जागर्ति तेन खलु जागरणव्रतेन ॥१९॥ १५९॥अन्तःपुरे परिजनैः समयोपयातैरभ्यर्चिता भवसि या विनयोपपन्नैः ।सा कोसलेश्वरपदावनि भूपतीनांसङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम् ॥२०॥ १६०॥प्राप्याधिकारमुचितं भुवनस्य गुप्त्यैभद्रासनं भरतवन्दितमाश्रयन्त्या ।मध्येऽवतीर्णमिव माधवपादरक्षेमातस्त्वयाऽपि मनुवंशमहीपतीनाम् ॥२१॥ १६१॥राजासने रघुकुलोद्वहपादरक्षेनीराजनं समभवत् समयोचितं ते ।श्लाघावशेन बहुशः परिघूर्णिताभिःसामन्तमौलिमणिमङ्गलदीपिकाभिः ॥२२॥ १६२॥पृथ्वीपतीनां युगपत् किरीटाःप्रत्यर्थिनां प्राणितुमर्थिनां च ।प्रापुस्तदा राघवपादरक्षेत्वदीयमास्थानिकपादपीठम् ॥२३॥ १६३॥प्रणम्य रङ्गेश्वरपादरक्षेदूरोपनीतैरुपदाविशेषैः ।सभाजयन्ति स्म तदा सभाया-मुच्चैस्तरामुत्तरकोसलास्त्वाम् ॥२४॥ १६४॥अपावृतद्वारमयन्त्रिताश्वंरङ्गेशपादावनि पूर्वमासीत् ।त्वया यदृच्छासुखसुप्तपान्थंरामे वनस्थेऽपि पदं रघूणाम् ॥२५॥ १६५॥अनन्यभक्तिर्मणिपादुके त्वामभ्यर्चयन् दाशरथिर्द्वितीयः ।विकल्प्यमानःप्रथमेन कीर्त्या वन्द्यः स्वयं व्योमसदां बभूव ॥२६॥ १६६॥अरण्ययोग्यं पदमस्पृशन्ती रामस्य राजार्हपदे निविष्टा ।आस्थाननित्यासिकया निरास्थःस्वर्गौकसां स्वैरगतेर्विघातम् ॥२७॥ १६७॥राजासने चेद्भवती निषण्णा रङ्गेशपादावनि तन्न चित्रम् ।यत्राधिरूढाः क्रमशः पुरा त्वामुत्तंसयन्ते रघुसार्वभौमाः ॥२८॥ १६८॥भद्रासनं चेत्परिवृत्तमासीत् देवि क्षणं दक्षिणतोमुखं ते ।कथं भवेत् काञ्चनपादरक्षे रामस्य रक्षोमृगयाविहारः ॥२९॥ १६९॥यावत्त्वया राघवपादरक्षे जिगीषिता राक्षसराजधानी ।मालेव तावल्लुलिता मदान्धैरुद्यानशाखामृगयूथपैस्ते ॥३०॥ १७०॥महीक्षितां राघवपादरक्षे भद्रासनस्थां भवतीं स्पृशन्तः ।पूर्वं तथात्वे नियतेऽपि भूयः कल्याणतामानिशिरे किरीटाः ॥३१॥ १७१॥अनिच्छतः पाण्डरमातपत्रं पित्रा वितीर्णं मणिपादरक्षे ।आसीत् त्वदर्थं विधृतेन तेन छाया समग्रा भरतस्य मौलौ ॥३२॥ १७२॥पादुके रघुपतौ यदृच्छया प्रस्थिते वनविहारकौतुकात् ।आधिराज्यमधिगम्यते युवामक्षतं वसुमतीमरक्षतम् ॥३३॥ १७३॥रघुवीरपदानुषङ्गमात्रात्परिबर्हेषु निवेशिता यदि त्वम् ।अधिकारदिने कथं पुनस्ते परिवारास्तव पादुके बभूवुः ॥३४॥ १७४॥पुरुषार्थचतुष्टयार्थिनीनां परिषत् ते महिता वसिष्ठमुख्यैः ।क्रयविक्रयपट्टणं प्रजानामभवत् काञ्चनपादुके तदानीम् ॥३५॥ १७५॥मनुजत्वतिरोहितेन शक्ये वपुषैकेन विरोधिनां निरासे ।अभजद्भरतादिभेदमीशः स्वयमाराधयितुं पदावनि त्वाम् ॥३६॥ १७६॥मगधाङ्गकलिङ्गवङ्गमुख्यान्विमतान् रन्ध्रगवेषिणः ससैन्यान् ।रघुपुङ्गवपादुके विजिग्येभरतः शासनमुद्वहन् भवत्याः ॥३७॥ १७७॥अनितरवहनीयं मन्त्रिमुख्यैर्यदा त-त्त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।रघुपतिपदरक्षे रत्नपीठे तदानींश्रियमिव ददृशुस्त्वां सादरं लोकपालाः ॥३८॥ १७८॥परिहृतदण्डकाध्वगमनं पदरक्षिणि त-त्परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।रघुपतिरत्नपीठमधिरुह्य तदा विदधेव्यपगतवैरिभूपनिलयं वसुधावलयम् ॥३९॥ १७९॥प्राप्तोदया तदानीं किमपि तमस्तन्निराकरोद्भवती ।तनुरिव मनुकुलजनुषां प्रसवित्री रत्नपादुके सवितुः ॥४०॥ १८०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेअधिकारपरिग्रहपद्धतिः षष्ठी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP