संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीरङ्गनाथपादुकासहस्रम्| सञ्चारपद्धतिः श्रीरङ्गनाथपादुकासहस्रम् मुख्य गोष्टी पद्धति क्रमांक सूची (श्लोकसङ्ख्या) प्रस्तावपद्धतिः समाख्यापद्धतिः प्रभावपद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वन्दिवैतालिकपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरकतपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः प्रकीर्णकपद्धतिः चित्रपद्धतिः निर्वेदपद्धतिः फलपद्धतिः सञ्चारपद्धतिः हे काव्य केवळा भक्तिच नाही, तर दार्शनिक आणि काव्यात्मक उत्कृष्टतेचा पण् अद्भुत संगम आहे. Tags : ranganathsrivedant desikanरङ्गनाथश्रीवेदान्त देसिकन सञ्चारपद्धतिः Translation - भाषांतर ``अग्रतस्ते गमिश्यामि मृद्नन्ती कुशकण्टकान्'' ।इति सीताऽपि यद्वृत्तिमियेष प्रणमामि ताम् ॥१॥ २६१॥शरदः शतमम्ब पादुके स्यांसमयाहूतपितामहस्तुतानि ।मणिमण्टपिकासु रङ्गभर्तुस्त्वदधीनानि गतागतानि पश्यन् ॥२॥ २६२॥त्वदधीनपरिक्रमो मुकुन्दस्तदधीनस्तव पादुके विहारः ।इतरेतरपारतन्त्र्यमित्थं युवयोः सिद्धमनन्यतन्त्रभूम्नोः ॥३॥ २६३॥रजसा तमसा च दुष्टसत्वेगहने चेतसि मामके मुकुन्दः ।उचितं मृगयाविहारमिच्छन्भवतीमादृत पादुके पदाभ्याम् ॥४॥ २६४॥क्षमया जगतामपि त्रयाणामवने देवि पदावनि त्वयैव ।अभिगम्यतमोऽपि संश्रिताना-मभिगन्ता भवति स्वयं मुकुन्दः ॥५॥ २६५॥शिरसा भवतीं दधाति कश्चि-द्विधृतः कोऽपि पदस्पृशा भवत्या ।उभयोर्मधुवैरिपादरक्षे त्वदधीनांगतिमामनन्ति सन्तः ॥६॥ २६६॥स्पृशतः शिरसा पदेन च त्वांगतिमुद्दिश्य मुकुन्दपादुके द्वौ ।अवरोहति पश्चिमः पदात् स्वा-दधिरोहत्यनघस्तदेव पूर्वः ॥७॥ २६७॥समयेष्वपदिश्य जैत्रयात्रां विविधान्तःपुरवागुराव्यतीतः ।नियतं मणिपादुके भवत्या रमते वर्त्मनि रङ्गसार्वभौमः ॥८॥ २६८॥निजसंहननप्रसक्तलास्यं चरति त्वामधिरुह्य रङ्गनाथः ।पदरक्षिणि पावनत्वमास्तां रसिकास्वादमतः परं न विद्मः ॥९॥ २६९॥पदयोरनयोः परस्य पुंस-स्तदनुग्राह्यविहारपद्धतेर्वा ।शिरसो मणिपादुके श्रुतीनांमनसो वा मम भूषणं त्वमेका ॥१०॥ २७०॥कृपया मधुवैरिपादरक्षेकठिने चेतसि मामके विहर्तुम् ।मकुटेषु दिवौकसां विधत्तेभवती रत्नविसंस्थुलेषु योग्याम् ॥११॥ २७१॥चरणद्वयमर्भकस्य शौरेःशरदम्भोरुहचातुरीधुरीणम् ।शकटासुरताडनेऽपि गुप्तंतव शक्त्या किल पादुके तदासीत् ॥१२॥ २७२॥उत्तस्थुषो रङ्गशयस्य शेषादास्थानसिंहासनमारुरुक्षोः ।मध्येनिशान्तं मणिपादुके त्वां लीलापदन्याससखीं प्रपद्ये ॥१३॥ २७३॥प्राप्ताधिकाराः पतयः प्रजानामुत्तंसितामुत्तमपादुके त्वाम् ।रङ्गेशितुः स्वैरविहारकाले संयोजयन्त्यङ्घ्रिसरोजयुग्मे ॥१४॥ २७४॥त्वयाऽनुबद्धां मणिपादरक्षे लीलागतिं रङ्गशयस्य पुंसः ।निशामयन्तो न पुनर्भजन्ते संसारकान्तारगतागतानि ॥१५॥ २७५॥व्यूहानुपूर्वीरुचिरान् विहारान्पदक्रमेण प्रतिपद्यमाना ।बिभर्षि नित्यं मणिपादुके त्वंमुरद्विषो मूर्तिरिव त्रिलोकीम् ॥१६॥ २७६॥पदेषु मन्देषु महत्स्वपि त्वंनीरन्ध्रसंश्लेषवती मुरारेः ।प्रत्यायनार्थं किल पादुके नःस्वाभाविकं दर्शयसि प्रभावम् ॥१७॥ २७७॥कृपाविशेषात् क्षमया समेतांप्रवर्तमानां जगतो विभूत्यै ।अवैमि नित्यं मणिपादुके त्वा-माकस्मिकीं रङ्गपतेः प्रसत्तिम् ॥१८॥ २७८॥उपागतानामुपतापशान्त्यैसुखावगाहां गतिमुद्वहन्तीम् ।पश्यामि शौरेः पदवाहिनीं त्वांनिम्नेषु तुङ्गेषु च निर्विशेषाम् ॥१९॥ २७९॥सह प्रयाता सततं प्रयाणेप्राप्तासने संश्रितपादपीठा ।अलङ्घनीया सहजेन भूम्नाछायेव शौरेर्मणिपादुके त्वम् ॥२०॥ २८०॥पदस्पृशा रङ्गपतिर्भवत्या विचक्रमे विश्वमिदं क्षणेन ।तदस्य मन्ये मणिपादरक्षे त्वयैव विख्यातमुरुक्रमत्वम् ॥२१॥ २८१॥सञ्चारयन्ती पदमन्वतिष्ठः सहायकृत्यं मणिपादरक्षे ।मातस्त्वमेका मनुवंशगोप्तुर्गोपायतो गौतमधर्मादारान् ॥२२॥ २८२॥त्वत्तस्त्रिविष्टपचरानसपत्नयिष्य-न्नारुह्य तार्क्ष्यमवरुह्य च तत्क्षणेन ।शुद्धान्तभूमिषु पुनर्मणिपादरक्षेविश्राम्यति त्वयि विहारवशेन शौरिः ॥२३॥ २८३॥विक्रम्य भूमिमखिलां बलिना प्रदिष्टांदेवे पदावनि दिवं परिमातुकामे ।आसीदतो दिनकरस्य करोपतापा-त्संरक्षितुं पदसरोजमुपर्यभूस्त्वम् ॥२४॥ २८४॥त्वत्सङ्गमान्ननु सकृद्विधिसंप्रयुक्ताशुद्धिं परामधिजगाम शिवत्वहेतुम् ।रङ्गाधिराजपदरक्षिणि कीदृशी सागङ्गा बभूव भवदीयगतागतेन ॥२५॥ २८५॥वृद्धिं गवां जनयितुं भजता विहारान्कृष्णेन रङ्गरसिकेन कृताश्रयायाः ।सञ्चारतस्तव तदा मणिपादरक्षेवृन्दावनं सपदि नन्दनतुल्यमासीत् ॥२६॥ २८६॥मातस्त्रयीमयतया चरणप्रमाणेद्वे विक्रमेषु विविधेषु सहायभूते ।नाथस्य साधुपरिरक्षणकर्मणि त्वंदुष्कृद्विनाशनदशासु विहङ्गराजः ॥२७॥ २८७॥पादावनि क्वचन विक्रमणे भुजानांपञ्चायुधी कररुहैर्भजते विकल्पम् ।नित्यं त्वमेव नियता पदयोर्मुरारे-स्तेनासि नूनमविकल्पसमाधियोग्या ॥२८॥ २८८॥अक्षेत्रविद्भिरधिगन्तुमशक्यवृत्ति-र्मातस्त्वया निरवधिर्निधिरप्रमेयः ।रथ्यान्तरेषु चरणावनि रङ्गसङ्गीवात्सल्यनिघ्नमनसा जनसात् कृतोऽसौ ॥२९॥ २८९॥सम्पद्यते समुचितं क्रममाश्रयन्त्यासद्वर्त्मना भगवतोऽपि गतिर्भवत्या ।ईष्टे पदावनि पुनः क इवेतरेषांव्यावर्तनस्य विषमादपथप्रचारात् ॥३०॥ २९०॥रङ्गेश्वरेण सह लास्यविशेषभाजोलीलोचितेषु तव रत्नशिलातलेषु ।मध्ये स्थितानि कतिचिन्मणिपादरक्षेसभ्यान् विशेषमनुयोक्तुमिति प्रतीमः ॥३१॥ २९१॥नित्यं पदावनि निवेश्य पदं भवत्यांनिष्पन्दकल्पपरिमेयपरिच्छदानि ।शृङ्गारशीतलतराणि भवन्ति कालेरङ्गेश्वरस्य ललितानि गतागतानि ॥३२॥ २९२॥भोगार्चनानि कृतिभिः परिकल्पितानिप्रीत्यैव रङ्गनृपतिः प्रतिपद्यमानः ।पश्यत्सु नित्यमितरेषु परिच्छदेषुप्रत्यासनं भजति काञ्चनपादुके त्वाम् ॥३३॥ २९३॥अन्तस्तृतीयनयनैः स्वयमुत्तमाङ्गै-राविर्भविष्यदतिरिक्तमुखाम्बुजैर्वा ।न्यस्यन्ति रङ्गरसिकस्य विहारकालेवारक्रमेण कृतिनो मणिपादुके त्वाम् ॥३४॥ २९४॥रङ्गेश्वरे समधिरूढविहङ्गराजेमातङ्गराजविधृतां मणिपादुके त्वाम् ।अन्वासते विधृतचारुसितातपत्राःस्वर्गौकसः सुभगचामरलोलहस्ताः ॥३५॥ २९५॥विष्णोः पदं गतिवशादपरित्यजन्तींलोकेषु नित्यविषमेषु समप्रचाराम् ।अन्वेतुमर्हति धृतामखिलैः सुरेन्द्रै-र्गङ्गा कथं नु गरुडध्वजपादुके त्वाम् ॥३६॥ २९६॥भिक्षामपेक्ष्य दनुजेन्द्रगृहं प्रयातु-र्गुप्त्यै गवां विहरतो वहतश्च दूत्यम् ।तत्तादृशानि चरणावनि रङ्गभर्तु-स्त्वत्सङ्गमेन सुभगानि विचेष्टितानि ॥३७॥ २९७॥निर्व्यज्यमाननवताललयप्रथिम्नानिर्यन्त्रणेन निजसञ्चरणक्रमेण ।मृद्नासि रङ्गनृपतेर्मणिपादुके त्वंदुःखात्मकान्प्रणमतां दुरितप्ररोहान् ॥३८॥ २९८॥नित्यं य एव जगतो मणिपादरक्षेसत्तास्थितिप्रयतनेषु परं निदानम् ।सोऽपि स्वतन्त्रचरितस्त्वदधीनवृत्तिःका वा कथा तदितरेषु मितम्पचेषु ॥३९॥ २९९॥निर्विष्टनागशयनेन परेण पुंसान्यस्ते पदे त्वयि पदावनि लोकहेतोः ।स्वर्गौकसां त्वदनुधावनतत्पराणांसद्यः पदानि विपदामपदं भवन्ति ॥४०॥ ३००॥शरदुपगमकाले सन्त्यजन् योगनिद्रांशरणमुपगतानां त्राणहेतोः प्रयास्यन् ।जलधिदुहितुरङ्कान्मन्दमादाय देवित्वयि खलु निदधाति स्वं पदं रङ्गनाथः ॥४१॥ ३०१॥स्पृशसि पदसरोजं पादुके निर्विघातंप्रविशसि च समस्तां देवि शुद्धान्तकक्ष्याम् ।अपरमपि मुरारेः पूर्वमाभीरकन्या-स्वभिसरणविधीनामग्रिमा साक्षिणी त्वम् ॥४२॥ ३०२॥प्रतिभवनमनन्ये पादुके त्वत्प्रभावा-द्विविधवपुषि देवे विभ्रमद्यूतकाले ।अभिलषितसपत्नीगेहयात्राविघातंग्लहयति रहसि त्वां षोडशस्त्रीसहस्रम् ॥४३॥ ३०३॥तटभुवि यमुनायाश्छन्नवृत्ते मुकुन्देमुहुरधिगमहेतोर्मुह्यतां यौवनानाम् ।शमयितुमलमासीच्छङ्खचक्रादिचिह्नाप्रतिपदविचिकित्सां पादुके पद्धतिस्ते ॥४४॥ ३०४॥अधिगतबहुशाखान् मञ्जुवाचः शुकादीन्सरसिजनिलयायाः प्रीतये सङ्ग्रहीतुम् ।प्रकटितगुणजालं पादुके रङ्गबन्धो-रुपनिषदटवीषु क्रीडितं त्वत्सनाथम् ॥४५॥ ३०५॥मुनिपरिषदि गीतं गौतमीरक्षणं तेमुहुरनुकलयन्तो मञ्जुवाचः शकुन्ताः ।उषसि निजकुलायादुत्थिता दण्डकेषुस्वयमपि पदरक्षे स्वैरमाम्रेडयन्ति ॥४६॥ ३०६॥यमनियमविशुद्धैर्यन्न पश्यन्ति चित्तैःश्रुतिषु चुलुकमात्रं दृश्यते यस्य भूमा ।सुलभनिखिलभावं मांसदृष्टेर्जनस्यस्वयमुपहरसि त्वं पादुके तं पुमांसम् ॥४७॥ ३०७॥निधिमिव निरपायं त्वामनादृत्य मोहा-दहमिव मम दोषं भावयन् क्षुद्रमर्थम् ।मयि सति करुणायाः पूर्णपात्रे त्वया किंपरमुपगमनीयः पादुके रङ्गनाथ ॥४८॥ ३०८॥कमपि कनकसिन्धोः सैकते सञ्चरन्तंकलशजलधिकन्यामेदिनीदत्तहस्तम् ।अनिशमनुभवेयं पादुके त्वय्यधीनंसुचरितपरिपाकं सूरिभिः सेवनीयम् ॥४९॥ ३०९॥परिसरमुपयाता पादुके पश्य मातःकरणविलयखेदात् कान्दिशीके विवेके ।पुरुषमुपनयन्ती पुण्डरीकाक्षमग्रेपुनरुदरनिवासक्लेशविच्छेदनं नः ॥५०॥ ३१०॥सा मे भूयात् सपदि भवती पादुके तापशान्त्यैयामारूढो दिवमिव शुभैः सेव्यमानो मरुद्भिः ।सौदामिन्या सह कमलया सह्यजावृद्धिहेतुःकाले काले चरति करुणावर्षुकः कृष्णमेघः ॥५१॥ ३११॥सत्याल्लोकात् सकलमहितात् स्थानतो वा रघूणांशङ्के मातः समधिकगुणं सैकतं सह्यजायाः ।पूर्वं पूर्वं चिरपरिचितं पादुके यत् त्यजन्त्यानीतो नाथस्तदिदमितरन्नीयते न त्वयाऽसौ ॥५२॥ ३१२॥अग्रे देवि त्वयि सुमनसामग्रिमैरन्तरङ्गै-र्विन्यस्तायां विनयगरिमावर्जितादुत्तमाङ्गात् ।दत्ते पादं दरमुकुलितं त्वत्प्रभावातिशङ्कीदेवः श्रीमान् दनुजमथनो जैत्रयात्रास्वनन्यः ॥५३॥ ३१३॥पौरोदन्तान्परिकलयितुं पादुके सञ्चरिष्णो-र्व्यक्ताव्यक्ता वशिकविशिखावर्तिनी रङ्गभर्तुः ।वेलातीतश्रुतिपरिमलैर्व्यक्तिमभ्येति काल्येविन्यासस्ते विबुधपरिषन्मौलिविन्यासदृश्यैः ॥५४॥ ३१४॥आसंस्काराद् द्विजपरिषदा नित्यमभ्यस्यमानाश्रेयोहेतुः शिरसि जगतः स्थायिनी स्वेन भूम्ना ।रङ्गाधीशे स्वयमुदयिनि क्षेप्तुमन्धं तमिस्रंगायत्रीव त्रिचतुरपदा गण्यसे पादुके त्वम् ॥५५॥ ३१५॥भवतीं परस्य पुरुषस्य रङ्गिणोमहिमानमेव मणिपादु मन्महे ।कथमन्यथा स्वमहिमप्रतिष्ठितःप्रतितिष्ठति त्वयि पदात्पदं प्रभुः ॥५६॥ ३१६॥तिथिरष्टमी यदवतारवैभवा-त्प्रथमा तिथिस्त्रिजगतामजायत ।मणिपादुके तमुपनीय वीथिका-स्वतिथीकरोषि तदनन्यचक्षुषाम् ॥५७॥ ३१७॥अपारप्रख्यातेरशरणशरण्यत्वयशसाननु त्वं रङ्गेन्दोश्चरणकमलस्यापि शरणम् ।यया लभ्यः पङ्गुप्रभृतिभिरसौ रङ्गनगर-प्रतोलीपर्यन्ते निधिरनघवाचां निरवधिः ॥५८॥ ३१८॥तत्तद्वासगृहाङ्गणप्रणयिनः श्रीरङ्गशृङ्गारिणोवाल्लभ्यादविभक्तमन्थरगतिस्त्वं मे गतिः पादुके ।लीलापङ्कजहल्लकोत्पलगलन्माध्वीकसेकोत्थितायत्रामोदविकल्पना विवृणुते शुद्धान्तवारक्रमम् ॥५९॥ ३१९॥सम्भवतु पादरक्षे सत्यसुपर्णादिरौपवाह्यगणः ।यात्रासु रङ्गभर्तुः प्रथमपरिस्पन्दकारणं भवती ॥६०॥ ३२०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्यश्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रेसञ्चारपद्धतिरेकादशी ॥ N/A References : N/A Last Updated : January 29, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP