संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|शङ्करदिग्विजयम्| अथ षोडशः सर्गः शङ्करदिग्विजयम् अनुक्रमणिका अथ प्रथमः सर्गः अथ द्वितीयः सर्गः अथ तृतीयः सर्गः अथ चतुर्थः सर्गः अथ पञ्चमः सर्गः अथ षष्ठः सर्गः अथ सप्तमः सर्गः अथ अथाष्टमः सर्गः अथ नवमः सर्गः अथ दशमः सर्गः अथ एकादशः सर्गः अथ द्वादशः सर्गः अथ त्रयोदशः सर्गः अथ चतुर्दशः सर्गः अथ पञ्चदशः सर्गः अथ षोडशः सर्गः शङ्करदिग्विजयम् - अथ षोडशः सर्गः शङ्करदिग्विजयम् Tags : shankar digvijayशङ्कर दिग्विजय श्रीमदाचार्याणां शारदापीठवासवर्णनम् Translation - भाषांतर अथ यदा जितवान्यतिशेखरोऽभिनवगुप्तमनुत्तममान्त्रिकम् ।स तु तदाऽपजितो यतिगोचरं इतमनाः कृतवानपगोरणम् ॥१॥स ततोऽभिचचार मृढबुद्धिर्यतिशार्दूलममुं प्ररूढरोषः ।अचिकित्स्यतमो भिषग्भिरस्मादजनिष्टास्य भगन्दराख्यरोगः ॥२॥अचिकित्स्यभगन्दराख्यरोगप्रसरच्छोणितपङ्किलस्वशाट्याः ।अजुगुप्सविशोधनादिरूपां परिचर्यामकृतास्य तोटकार्यः ॥३॥भगन्दरव्याधिनिपीडितं गुरुं निरीक्ष्य शिष्याः समवोधयञ्शनैः ।नोपेक्षणीयो भगवन् महामयस्त्वपीडितः शत्रुरिवर्द्धिमाप्नुयात् ॥४॥ममत्वहानाद्भवता शरीरके न गण्यते व्याधिकृताऽऽर्तिरीदृशी ।पश्यन्त एवान्तिकवर्तिनो वयं भृशातुराः स्मः सहसा व्यथासहाः ॥५॥चिकित्सका व्याधिनिदानकोविदाः सम्प्रच्छनीया भगवन्नितस्ततः ।प्रत्यक्षवत्सम्प्रति सन्ति पूरुषा जीवातुवेदे गदितार्थसिद्धिदाः ॥६॥उपेक्षमाणेऽपि गुरावनास्थया शरीरकादौ सुखमात्मनीश्वरैः ।नोपेक्षणीयं गुरुदुःखदृश्वभिर्दुःखं विनेयैरिति शास्त्रनिश्चयः ॥७॥स्वस्थे भवत्पादसरोरुहद्वये स्वस्था वयं यन्मधुपायिवृत्तयः ।तस्माद्भवेत्तावकविग्रहो यथा स्वस्थस्तथा वाञ्छति पूज्य नो मनः ॥८॥व्याधिर्हि जन्मान्तरपापपाको भोगेन तस्मात् क्षपणीय एषः ।अभुज्यमानः पुरुषं न मुञ्चेज्जन्मान्तरेऽपीति हि शास्त्रवादः ॥९॥व्याधिर्द्विधाऽसौ कथितो हि विद्भिः कर्मोद्भवो धातुकृतस्तथेति ।आद्यक्षयः कर्मण एव लीनाच्चिकित्सया स्याच्चरमोदितस्य ॥१०॥सङ्क्षीयतां कर्मण एव सङ्क्षयाद्व्याधिः प्रवृत्तो न चिकित्स्यते मया ।पतेच्छरीरं यदि तन्निमित्ततः पतत्ववश्यं न विभेगि किञ्चन ॥११॥सत्यं गुरो ते न शरीरलोभः स्पृहालुता नस्तु चिराय तस्मै ।त्वज्जीवनेनैव हि जीवनं नः पाथश्चराणां जलमेव तद्धि ॥१२॥स्वयं कृतार्थाः परतुष्टिहेतोः कुर्वन्ति सन्तो निजदेहरक्षाम् ।तस्माच्छरीरं परिरक्षणीयं त्वयाऽपि लोकस्य हिताय विद्वन् ॥१३॥निर्बन्धतो गुरुवरः प्रददावनुज्ञांदिग्भ्यो भिषग्वरसमानयनाय तेभ्यः ।नत्वा गुरुं प्रतिदिशं प्रययुः प्रहृष्टाःशिष्याः प्रवासकुशला हरिभक्तिभाजः ॥१४॥प्रायो नृपं कविजना भिषजो वदान्यंवित्तार्थिनः प्रतिदिनं कुशला जुषन्ते ।तस्मादमी नृपपुरेषु निरीक्षणीयाइत्येव चेतसि मनोरथमादधानाः ॥१५॥तेऽतीत्य देशान् बहुलान् स्वकार्यसिद्ध्यै क्वचिद्राजपुरे भिषग्भिः ।अवाप्य सन्दर्शनभाषणानि समानयंस्तान गुरुवर्यपार्श्वम् ॥१६॥ततो द्विजेन्द्रैर्निजसेवकैस्तान् सन्तोषितान् स्वाभिमतार्थदानैः ।यदत्र कर्तव्यमुदीर्यतां तत्कुर्मः स्वशक्त्येति वदाञ्जगौ सः ॥१७॥उपगुदं भिषजः परिबाधते गद उदेत्य तनुं तनुमध्यगः ।यदिदमस्य विधेयमिदं ध्रुवं वदत रोगतमस्तिमिरारयः ॥१८॥चिरमुपेक्षितवानहमेतकं दुरितजोऽयमिति प्रतिभाति मे ।तदपि शिष्यगणैर्निरहिंस्यहं प्रहितवान् भवदानयनाय तान् ॥१९॥निगदिते मुनिनेति भिषग्वरा विदधिरे बहुधा गदसत्क्रियाः ।न च शशाम गढ़ा बहुतापदो विमनसः पटवो भिषजोऽभवन् ॥२०॥अथ मुनिर्विमनस्त्वसमन्वितानिदमवोचत सिद्धभिषग्वरान् ।अटत गेहमगात्समयो बहुर्गदहृते भवतामित ईयुषाम् ॥२१॥दिनचयं गणयन् पथिलोचनः प्रियजनो निवसेद्विरहातुरः ।नरपतिर्भवतां शरणं ध्रुवं स च विदेशगमं श्रुतवान्यदि ॥२२॥रुषितवान्न च वो वितरेन्नृपः फणितजीवितमक्षतशासनः ।तुरगवन्नृपतिश्चलमानसो भिषजमन्यमसौ विदधीत वा ॥२३॥जनपदो विरलो गदहारकैर्बहुलरुग्णजनः प्रकृतेरतः ।मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥२४॥पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति ।जनितमप्यफलं भिषजं विना भिषगसौ हरिरेव तनूभृतः ॥२५॥यदुदितं भवता वितथं न तत्तदपि न क्षमते व्रजितुं मनः ।सुरभुवं प्रविहाय मनुष्यगां व्रजितुमिच्छति कोऽत्र नरः सुधीः ॥२६॥इति निगद्य ययुर्भिषजां गणा विमनसः पटवोऽपि निजान् गृहान् ।अथ मुनिर्विजन्ममतां तनौ गुरुवरो गुरुदुःखमसोढ सः ॥२७॥प्रथितैरवनौ परःसहस्रैरगदङ्कारचयैरथाचिकित्स्ये ।प्रबले सति हा भगन्दराख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥२८॥स्मरशासनशासनान्नियुक्तौ द्विजवेषं प्रविधाय भूमिमाप्तौ ।उपसेदतुरश्विनौ च देवौ सुभुजौ साञ्जनलोचनौ सुपुस्तौ ॥२९॥यतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ।इति तं समुदीर्य योगिवर्यं विबुधौ तौ प्रतिजग्मतुर्यथेतम् ॥३०॥तदनु स्वगुरोर्गदापनुत्त्यै परमन्त्रं तु जजाप जातमन्युः ।मुहरार्यपदेन वार्यमाणोऽप्परिवर्गेऽप्यनुकम्पिनाऽब्जपादः ॥३१॥अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः ।मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलब्धै ॥३२॥स्वस्थः सोऽयं ब्रह्म सायं कदाचिद्ध्यायन् गङ्गापूरसङ्गार्द्रवातैः ।आगच्छन्तं सैकते प्रत्यगच्छद्योगीशानं गौडपादाभिधानम् ॥३३॥पाणौ फुलश्वेतपङ्केरुहश्रीमैत्रीपात्रीभूतभासा घटेन ।आराद्राजत्कैरवानन्दसन्ध्यारागारक्ताम्भोदलीलां दधानम् ॥३४॥पाणौ शोणाम्भोजबुद्धया समन्ताद्भ्राम्यद्भृङ्गीमण्डलीतुल्यकुल्याम् ।अङ्गुल्यग्रासङ्गिरुद्राक्षमालामङ्गुष्ठाग्रेणासकृद्भ्रामयन्तम् ॥३५॥आर्यस्याथो गौढपादस्य पादावभ्यर्च्यासौ शङ्करः पङ्कजाभौ ।भक्तिश्रद्धासम्भ्रमाक्रान्तचेताः प्रह्वस्तस्थावग्रतः प्राञ्जलिः सन् ॥३६॥सिञ्चन्नेनं क्षीरवाराशिवीचीसाचिव्यायाऽऽसन्नयत्नैः कटाक्षैः ।दन्तज्योत्स्नादन्तुराश्चापि कुर्वन्नाशाः सूक्तिं सन्दधे गौढपादः ॥३७॥कच्चित्सर्वा वेत्सि गोविन्दनानो हृद्या विद्या संसृदुद्धारकृद्या ।कच्चित्तत्वं तत्त्वमानन्दरूपं नित्यं सञ्चिन्निर्मलं वेत्सि वेद्यम् ॥३८॥भक्त्या युक्ता स्वानुरक्ता विरक्ताः शान्ता दान्ताः सन्ततं श्रद्धधानाः ।कच्चित्तत्वज्ञानकामा विनीताः शुश्रूषन्ते शिष्यवर्या गुरुं त्वाम् ॥३९॥कञ्चिन्नित्याः शत्रवो निर्जितास्ते कच्चित्प्राप्ताः सद्गुणाः शान्तिपूर्वाः ।कच्चिद्योगः साधितोऽष्टाङ्गयुक्तः कच्चिच्चित्तं साधुचित्तत्वगं ते ॥४०॥इत्यद्वैताचार्यवर्येण तेन प्रेम्णा पृष्टः शङ्करः साधुशीलः ।भक्त्युद्रेकाद्बाष्पपर्याकुलाक्षो बध्नन्मूर्धन्यञ्जलिं व्याजहार ॥४१॥यद्यत्पृष्टं स्पष्टमाचार्यपादैस्तत्तत्सर्वं भो भविष्यत्यवश्यम् ।कारुण्याब्धेः कल्ययुष्मत्कटाक्षैर्दृष्टस्याऽऽहुदुर्लभं किन्नु जन्तोः ॥४२॥मूको वाग्मी मन्दधीः पण्डिताग्र्यः पापाचारः पुण्यनिष्ठेषु गण्यः ।कामासक्तः कीर्तिमान्निःस्पृहाणामार्यापाङ्गालोकतः स्यात्क्षणेन ॥४३॥लेशं वाऽपि ज्ञातुमीष्टे पुमान्कः सीमातीतस्याद्य युष्मन्महिम्नः ।तुष्ट्वाऽत्यन्तं तत्त्वविद्योपदेष्टा जातः साक्षाद्यस्य वैयासकिः सः ॥४४॥आजानात्मज्ञानसिद्धं यमारादौदासीन्याज्जातमात्रं व्रजन्तम् ।प्रेमावेशात्पुत्र पुत्रेति शोचन्पाराशर्यः पृष्ठतोऽनुप्रपेदे ॥४५॥यश्चाऽऽहूतो योगभाष्यप्रणेत्रा पित्रा प्राप्तः स प्रपञ्चैकभावम् ।सर्वाहन्ताशीलनाद्योगभूमेः प्रत्याक्रोशं प्रातनोद्वृक्षरूपः ॥४६॥तत्तादृक्षज्ञानपाथोधियुष्मत्पादद्वन्द्वं पद्मसौहार्दहृद्यम् ।दैवादेतद्दीनदृग्गोचरश्चेद्भक्तस्यैतद्भागधेयं ह्यमेयम् ॥४७॥इत्याकर्ण्याथाब्रवीद्गौडपादो वत्स श्रुत्वा वास्तवांस्त्वद्गुणौघान् ।द्रष्टुं शान्तस्वान्तवन्तं मम त्वां गाढोत्कण्ठागर्भितं चित्तमासीत् ॥४८॥कृतास्त्वया भाष्यमुखा निबन्धा मत्कारिकावारिजनुःसुखार्काः ।श्रुत्वेति गोविन्दमुखात्प्रहृष्य दृगध्वनीनोऽस्मि तवाद्य विद्वन् ॥४९॥इति स्फुटं प्रोक्तवते विनीतः सोऽश्रावयद्भाष्यमशेषमस्मै ।विशिष्य माण्डूक्यगभाष्ययुग्मं श्रुत्वा प्रहृष्यन्निदमब्रवीत्तम् ॥५०॥मत्कारिकाभावविबोधितादृङ्माण्डूक्यभाष्यश्रवणोत्थहर्षः ।दातुं वरं ते विदुषां वराय प्रोत्साहयत्याशु वरं वृणीष्व ॥५१॥स प्राह पर्यायशुकर्षिमीक्ष्य भवन्तमद्राक्षमतिष्यपूरुषम् ।वरः परः कोऽस्ति तथाऽपि चिन्तनं चित्तत्त्वगं मेऽस्तु गुरो निरन्तरम् ॥५२॥तथेति सोऽन्तर्धिमपास्तमोहे गते चिरञ्जीविमुनावथासौ ।वृत्तान्तमेतं स मुदाऽऽश्रवेभ्यः संश्रावयंस्तां क्षणदामनैषीत् ॥५३॥अथ द्युनद्यामुषसि क्षमीन्द्रो निर्वर्त्य नित्यं विधिवत्स शिष्यैः ।तीरे निदिध्यासनलालसोऽभूदत्रान्तरेऽश्रूयत लोकवार्ता ॥५४॥जम्बूद्वीपं शस्यतेऽस्यां पृथिव्यां तत्राप्येतन्मडलं भारताख्यम् ।काश्मीराख्यं मण्डलं तत्र शस्तं यत्राऽऽस्तेऽसौ शारदा वागधीशा ॥५५॥द्वारैर्युक्तं माण्डपैस्तच्चतुर्भिर्देव्या गेहं यत्र सर्वज्ञपीठम् ।यत्राऽऽरोहे सर्ववित्सज्जनानां नान्ये सर्वे यत्प्रवेष्टुं क्षमन्ते ॥५६॥प्राच्याः प्राच्यां पश्चिमाः पश्चिमायां ये चोदीच्यास्तामुदीचीं प्रपन्नाः ।सर्वज्ञास्तद्वारमुद्धाटयन्तो दाक्षा नद्धं नो तदुद्घाटयन्ति ॥५७॥वार्तामुपश्रुत्य स दाक्षिणात्यो मानं तदीयं परिमातुमिच्छन् ।काश्मीरदेशाय जगाम हृष्टः श्रीशङ्करो द्वारमपावरीतुम् ॥५८॥द्वारं पिनद्धं किल दाक्षिणात्यं न सन्ति विद्वांस इतीह दाक्षाः ।तां किंवदन्तीं विफलां विधातुं जगाम देवीनिलयाय हृष्यन् ॥५९॥वादिव्रातगजेन्द्रदुर्मदघटादुर्गर्वसङ्कर्षण-श्रीमच्छङ्करदेशिकेन्द्रमृगराडायाति सर्वार्थवित् ।दूरं गच्छत वादिदुःशठगजाः संन्यासदंष्ट्रायुधोवेदान्तोरुवनाश्रयस्तदपरं द्वैतं वनं भक्षति ॥६०॥करटतटान्तवान्तमदसौरभसारभर-स्खलदलिसम्भ्रमत्कलभकुम्भविजृम्भिबलः ।हरिरिव जम्बुकानमददन्तगजान्कुजना-नपि खलु नाक्षिगोचरयतीह यतिर्हतकान् ॥६१॥संश्रावयन्नध्वनि देशिकेन्द्रः श्रीदक्षिणद्वारभुवं प्रपेदेकवाटमुद्धाट्य निवेष्टुकामं ससम्भ्रमं वादिगणो न्यरौत्सीत् ॥६२॥अथाब्रवीद्वादिगणः स देशिकं किमर्थमेवं बहुसम्भ्रमक्रिया ।यदत्र कार्यं तदुदीर्यतां शनैर्न सम्भ्रमः कर्तुमलं तदीप्सितम् ॥६३॥यः कश्चदेत्येतु परीक्षितुं चेद्वेदाखिलं नाविदितं ममाणु ।इत्थं भवान्वक्ति समुन्नतीच्छो दत्वा परीक्षां व्रज देवतालयम् ॥६४॥षड्भाववादी कणभुङ्मतस्थः पप्रच्छ तं स्वीयरहस्यमेकम् ।संयोगभाजः परमाणुयुग्माज्जातं हि सुक्ष्मं द्व्यणुकं मतं नः ॥६५॥यत्स्यादणुत्वं तदुपाश्रितं तज्जायेत कस्माद सर्वविच्चेत् ।नो चेलभुत्वं तत्र वक्तुमेते सर्वज्ञभाषां विहितां ब्रुवन्ति ॥६६॥या द्वित्वसङ्ख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ।इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥६७॥तत्रापि नैयायिक आत्तगर्वः कणादपक्षाच्चरणाक्षपक्षे ।मुक्तेर्विशेष वद सर्वविच्चेन्नो चेत्प्रतिज्ञां त्यज सर्ववित्त्वे ॥६८॥अत्यन्तनाशे गुणसङ्गतेर्या स्थितिर्नभोवत्कणभक्षपक्षे ।मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसंवित्सहिता विमुक्तिः ॥६९॥पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।स ईशवादीत्युदितेऽभिनन्द्य नैयायिकोऽपि न्यवृतन्निरोधात् ॥७०॥तं कापिलः प्राह च मूलयोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ।जगन्निदानं वद सर्ववित्त्वान्नो चेत्प्रवेशस्तव दुर्लभः स्यात् ॥७१॥सा विश्वयोनिर्बहुरूपभागिनी स्वयं स्वतन्त्रा त्रिगुणालिका सती ।इत्येत्र सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥७२॥ततो नदन्तो न्यरुधन् सगर्वा दत्त्वा परीक्षां व्रज धाम देव्याः ।बौद्धास्तथा सम्प्रथिताः पृथिव्यां बाह्यार्थविज्ञानकशुन्यवादैः ॥७३॥बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ।विज्ञानवादस्य च किं विभेदकं भवन्मतादब्रूहि ततः परं व्रज ॥७४॥सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं त्वितरोऽक्षिगम्यम् ।तयोस्तयोर्भङ्गुरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ॥७५॥विज्ञानवादी क्षणिकत्वमेषामङ्गीचकारापि बहुत्वमेषः ।वेदान्तवादी स्थिरसंविदेकेत्यङ्गीचकारेति महान्विशेषः ॥७६॥अथाब्रवीद्दिग्वसनानुसारी रहस्यमेकं वद सर्वविच्चेत् ।यदस्तिकायोत्तरशब्दवाच्यं तत्किं मतेऽस्मिन्वद देशिकाऽऽशु ॥७७॥तत्राऽऽड देशिकवरः शृणु रोचतेचेज्जीवादिपञ्चकमभीष्टमुदाहरन्ति ।तच्छब्दवाच्यमिति जैनमतेऽप्रशस्तेयद्यस्ति बोद्धुमपरं कथयाऽऽशु तन्मे ॥७८॥दत्तोत्तरे वादिगणे तु बाह्ये बभाण कश्चितिकल जैमिनीयः ।शब्दः किमात्मा वद जैमिनीये द्रव्यं गुणो वेति ततो व्रज त्वम् ॥७९॥नित्या वर्णाः सर्वगाः श्रोत्रवेद्या यत्तद्रूपं शब्दजालं च नित्यम् ।द्रव्यं व्यापीत्यब्रुवञ्जैमिनीया इत्येवं तं प्रोक्तवान्देशिकेन्द्रः ॥८०॥शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।द्वारं समुद्घाट्य ददुश्च मार्गं ततो विवेशान्तरभूमिभागम् ॥८१॥पाणौ सनन्दनमसाववलम्ब्य विद्या-भद्रासनं तद्वरोढुमनाश्चचाल ।अत्रान्तरे विधिवधूर्विबुधाग्रगण्य-माचार्यशङ्करमवोचदनङ्गवाचा ॥८२॥सर्वज्ञता तेऽस्ति पुरैव यस्मात्सर्वत्र पर्यैक्षि भवान्न चेत्ते ।विरिञ्चिरूपान्तरविश्वरूपः शिष्यः कथं स्यात्प्रतिताग्रणीः सः ॥८३॥सर्वज्ञतैकैव भवेन्न हेतुः पीठाधिरोहे परिशुद्धता च ।सा तेऽस्ति वा नेति विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥८४॥त्वं चाङ्गनाः समुपभुज्य कलारहस्य-प्रावीण्यभाजनसभूर्यतिधर्मनिष्ठः ।प्रारोढुमीदृशपदं कथमर्हता तेसर्वज्ञतेच विमलत्वमपीह हेतुः ॥८५॥नास्मिञ्शरीरे कृतकिल्बिषोऽहंजन्मप्रभृत्यम्ब न सन्दिहेऽहम् ।व्यधायि देहान्तरसंश्रयाद्य-न्न तेन लिप्येत हि कर्मणाऽन्यः ॥८६॥इत्थं निरुत्तरपदां स विधाय देवींसर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।सम्मानितोऽभवदसौ विबुधेश्च वाण्यागार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥८७॥वादप्रादुर्विनोदप्रतिकथनसुधीवाददुवरितर्क-न्यक्कारस्वैरधाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-श्लाघाजोघुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥८८॥कुत्राप्यासीत्प्रलीनेक्षणचरणकथा कापिली क्वापि लीनाभग्नाऽभग्ना गुरूक्तिः क्वचिदजनि परं भट्टपादप्रवादः ।भूमावायोगकाणादजनिमतमथाभूतवाग्भेदवार्तादुर्दान्तब्रह्मविद्यागुरुदुरुदकथादुन्दुभेर्धिन्धिमेतः ॥८९॥काणादः क्व प्रणादः क्व च कपिलवचः क्वाक्षिपादप्रवादःक्वाप्यन्धा योगकन्था क्व गुरुरतिलघुः क्वापि भाट्टप्रघट्टम् ।क द्वैताद्वैतवार्ता क्षपणकविकृतिः क्वापि पाषण्डषण्ड-ध्वान्तध्वंसैकभानोर्जयति यतिपतेः शारदापीठवासे ॥९०॥ततो दिविषदध्वनि त्वरितमध्वराशावली-धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।अरुन्द्ध हरिदन्तरं स्वरभरैर्भ्रमत्सिन्धुभिर्घनाघनघनारत्रपथमचन्धुभिर्दुन्दुभिः ॥९१॥कचभरवहनं पुलोमजायाः कतिचिदहान्यपगर्भकं यथा स्यात् ।गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्षतोऽभ्यवर्षन् ॥९२॥इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठंनिजमतगुरुतायै नो पुनर्मानहेतोः ।कतिचन विनिवेश्याथर्ष्यशृङ्गाश्रमादौमुनिरथ बदरीं स प्राप कैश्चित्स्वशिष्यैः ॥९३॥दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्रनिष्ठितेभ्यः ।कृपयापदिशन्स्वसूत्रभाष्यं विजितत्याजित सर्वदर्शनेभ्यः ॥९४॥नितरां यतिराडुडुराजकरप्रकरमचुरप्रसरस्वयशाः ।स्वमयं समयं गमयन्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५॥एवम्प्रकारैः कलिकल्मषघ्नैः शिवावतारस्य शुभैश्चरित्रैः ।द्वात्रिंशदत्युज्ज्वलकीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥९६॥भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंसि कैवल्यमूल्यंहन्ताहन्ता समन्तात्कुप्रतिनतिकृता खण्डिता पण्डितानाम् ।सद्यो विद्यातिताऽसौ विषय विमथनैरमुक्तिपद्याऽनवद्याश्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ॥९७॥हन्ताशोभि यशोभरैस्त्रिजगतीमन्दारकुन्देन्दुभा-मुक्ताहारपटीरहीरविहरन्नीहारतारानिभैः ।कारुण्यामृतनिर्झरैः सुकृतिनां दैन्यानलः शुन्यतांनीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८॥आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसाविस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृताभिक्षुक्ष्मापतिना किमन्यदधुना सौजन्यमातन्यताम् ॥९९॥पारिकाङ्क्षीश्वरोऽप्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥१००॥तत्रातिशीतार्दितशिष्यसङ्घसंरक्षणायातुलितप्रभावः ।तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकरप्रधानः ॥१०१॥कर्मन्दिवृन्दपतिना गिरिशोऽर्थितः सन्सन्तप्तवारिलहरीं स्वपदारविन्दात् ।प्रावर्तयत्प्रथयती यतिनाथकीर्तिंयाऽद्यापि तत्र समुदञ्चति तप्ततोया ॥१०२॥इति कृतसुरकार्यं नेतुमाजग्मुरेनंरजतशिखरशृङ्गं तुङ्गमीशावतारम् ।विधिशतमखचन्द्रोपेन्द्रवाय्वग्निपूर्वाःसुरनिकरवरेण्याः सर्षिसङ्घाः ससिद्धाः ॥१०३॥विद्युदवल्लीनियुतसमुदारब्धयुद्धैर्विमानैःसङ्ख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषंमन्दारोत्थैः कुसुपनिचयैरब्रुवन्नर्चयन्तः ॥१०४॥भवानाद्यो देवः कवलितविषः कामदहनःपुरारातिर्विश्वप्रभवलयहेतुस्त्रिनयनः ।यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुनातदायाहि स्वर्गं सपदि गिरिशास्मत्मियकृते ॥१०५॥उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-देवे सम्भृतसम्भ्रमे निजपदं गन्तुं मनः कुर्वति ।शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तत्क्षणा-दुक्षा शारदवारिदुग्धवरटाहङ्कारहुङ्कारकृत् ॥१०६॥इन्द्रोपेन्द्रप्रधानैस्त्रिदशपरिवृढैः स्तूयमानः प्रसुनै-दिव्यैरभ्यर्च्यमानः सरसिरुहभुवा दत्तहस्तावलम्बः ।आरुह्योक्षाणमग्र्यं प्रकटितसुजटाजूटचन्द्रावतंसःशृण्वन्नालोकशब्दं समुदितमृषिभिर्धाम नैजं प्रतस्थे ॥१०७॥आदितः श्लोकाः १८४३ ।इति श्रीमाधवीये तच्छारदापीठवासगः ।सङ्क्षेपशङ्करजये सर्गः पूर्णोऽपि षोडशः ।इति श्रीमद्विद्यारण्यविरचितः श्रीमच्छङ्करदिग्विजयः समाप्तः ॥ N/A References : N/A Last Updated : January 23, 2026 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP